॥ वेदगर्भं श्रीभुवनेश्वरीस्तोत्रम् ॥

श्रीगणेशाय नमः ॥ कर्णस्वर्णविलोलकुडलधरामापीनवक्षोरुहां मुक्ताहारविभूषणां परिलसद्धम्मिल्लसन्मल्लिकाम् । लीलालोलितलोचनां शशिमुखीमाबद्धकाञ्चीस्रजं दीव्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥ १॥ ऐन्दव्या कलयावतंसितशिरोविस्तारिनादात्मकं तद्रूपं जननि स्मरामि परमं सन्मात्रमेकं तव । यत्रोदेति पराभिधा भगवती भासां हि तासां पदं पश्यन्ती तनुमध्यमा विहरति स्वैरं च सा वैखरी ॥ २॥ आदिक्षान्तविलासलालसतया तासां तुरीया तु या क्रोडीकृत्य जगत्त्रयं विजयते वेदादिविद्यामयी । तां वाचं मयि सम्प्रसादय सुधाकल्लोलकोलाहल- क्रीडाकर्णनवर्णनीयकवितासाम्राज्यसिद्धिप्रदाम् ॥ ३॥ कल्पादौ कमलासनोऽपि कलया विद्धः कयाचित्किल त्वां ध्यात्वाङ्कुरयाञ्चकार चतुरो वेदांश्च विद्याश्च ताः । तन्मातर्ललिते प्रसीद सरलं सारस्वतं देहि मे यस्यामोदमुदीरयन्ति पुलकैरन्तर्गता देवताः ॥ ४॥ मातर्देहभृतामहो धृतिमयी नादैकरेखामयी सा त्वं प्राणमयी हुताशनमयी बिन्दुप्रतिष्ठामयी । तेन त्वां भुवनेश्वरीं विजयिनीं ध्यायामि जायां विभो- स्त्वत्कारुण्यविकाशिपुण्यमतयः खेलन्तु मे सूक्तयः ॥ ५॥ त्वामश्वत्थदलानुकारमधुरामाधारबद्धोदरां संसेवे भुवनेश्वरीमनुदिनं वाग्देवतामेव ताम् । तन्मे शारदकौमुदीपरिचयोदञ्चत्सुधासागर- स्वैरोज्जागरवीचिविभ्रमजितो दीव्यन्तु दिव्या गिरः ॥ ६॥ लेखप्रस्तुतवेद्यवस्तुसुरभिश्रीपुस्तकोत्तंसितो मातः स्वस्तिकृदस्तु मे तव करो वामोऽभिरामः श्रिया । सद्यो विद्रुमकन्दलीसरलतासन्दोहसान्द्राङ्गुलिर्मुद्रां बोधमयीं दधत्तदपरोऽप्यास्तामपास्तभ्रमः ॥ ७॥ मातः पातकजालमूलदलनक्रीडाकठोरा दृशः कारुण्यामृतकोमलास्तव मयि स्फूर्जन्तु सिद्ध्यर्जिताः । आभिः स्वाभिमतप्रबन्धलहरीसाकूतकौतूहलाऽ- ऽचान्तस्वान्तचतुर्मुखोचितगुणोद्गारां करिष्ये गिरम् ॥ ८॥ त्वामाधारचतुर्दलाम्बुजगतां वाग्बीजगर्भे यजे प्रत्यावृत्तिभिरादिभिः कुसुमितां मायालतामुन्नताम् । चूडामूलपवित्रपत्रकमलप्रेङ्खोलखेलत्युधा- कल्लोलासु कुचक्रचङ्क्रमचमत्कारैकलोकोत्तराम् ॥ ९॥ सोऽहं त्वत्करुणाकटाक्षशरणः पञ्चाध्वसञ्चारतः प्रत्याहृत्य मनो वसामि रसनालिङ्गं ममालिङ्गतु । श्रीसर्वज्ञविभूषणीकृतकलानिःस्यन्द्रमानामृत- स्वच्छन्दस्फटिकाद्रिसान्द्रितपयः शोभावती भारती ॥ १०॥ मातर्मातृकया विदर्भितमिदं गर्भीकृतानाहत- स्वच्छन्द्रध्वनिपेयमध्वनिरतं चन्द्रार्कनिद्रागिरौ । संसेवे विपरीतरीतिरचनोच्चारादकारावधि- स्वाधीनामृतसिन्धुबन्धुरमहो मायामयं ते महः ॥ ११॥ तस्मान्नन्दनचारुचन्दनतरुच्छायासु पुप्पासव- स्वैरास्वादनमोदमानमनसामुद्दामवामभ्रुवाम् । वीणासङ्गितरङ्गितस्वरचमत्कारोऽपि सारोज्झितो येन स्यादिह देहि मे तदभितः सञ्चारि सारस्वतम् ॥ १२॥ आधारे हृदये शिखापरिसरे सन्धाय मेधामयीं त्रेधाबीजतनूमनूनकरुणापीयूषकल्लोलिनीम् । त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन- प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥ १३॥ वाणीबीजमिदं जपामि परमं तत्कामराजाभिधं मातः सान्तपरं विसर्गसहितौकारोत्तरं तेन मे । दीर्घान्दोलितमौलिकीलितमणिप्रारब्धनीराजनैधीरैः पीतरसा निरन्तरमसौ वाग्जृभतामद्भुता ॥ १४॥ चूडाचन्द्रकलानिरतरगलत्पीयूषबिन्दुश्रिया सन्देहोचितमक्षसूत्रवलयं या बिभ्रती निर्भरम् । अन्तर्मन्त्रमयं स्वमेव जपसि प्रत्यक्षवृत्त्यक्षरं सा त्वं दक्षिणपाणिनाम्ब वितर श्रेयांसि भूयांसि मे ॥ १५॥ बद्ध्वा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छवि- श्रेणिश्रीसुभगं भविष्णुसततव्याजृम्भमाणेऽम्बुजे । दीव्यन्तीमधिवामजानु रुचिरन्यस्तेन हस्तेन तां नित्यं पुस्तकधारणप्रणयिनीं सेवे गिरामीश्वरीम् ॥ १६॥ तन्मे विश्वपथीनपीनविलसन्निःसीमसारस्वत- स्रोतोवीचिविचित्रभङ्गिसुभगा विभ्राजतां भारती । यामाकर्ण्य विघूर्णमानमनसः प्रेङ्खोलितैमीलिभि- र्मीलद्भिर्नयनाञ्चलैः सुमनसो निन्देयुरिन्दोः कलाम् ॥ १७॥ आदौ वाग्भवमिन्दुबिन्दुमधुरं झान्ते च कामात्मकं योगान्ते कषयोस्तृतीयमिति ते बीजत्रयं ध्यायताम् । सार्धं मातृकया विलोमविषमं सन्धाय बन्धच्छिदा वाचान्तर्गतया महेश्वरि मया मात्राशतं जप्यते ॥ १८॥ तत्सारस्वतसार्वभौमपदवी सद्यो मम द्योततां यत्राज्ञाविहितैर्महाकविशतैः स्फीतां गिरं चुम्बताम् । चैत्रोन्मीलितकेलिकोकिलकुहूकारावतारञ्चित- श्लाघासञ्चितपञ्चमश्रुतिसमाहारोऽपि भारोपमः ॥ १९॥ वाग्बीजं भुवनेश्वरीं वद वदेत्युच्चार्य वाग्वादिनि स्वाहावर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् । वीणापुस्तकमक्षसूत्रवलयं व्याजृम्भमम्भोरुहं बिभ्राणामरुणाशुभिः करतलैराविर्भवद्विभ्रमाम् ॥ २०॥ तं मातः कृपया तरङ्गयतरां विद्याधिपत्यं मयि ज्योत्स्नासौरभचौरकीर्तिकवितासेव्यैकसिंहासनम् । कालाज्ञादिशिवावसानभवनप्राग्भारकुक्षिम्भरि प्रज्ञाम्भःपरिपाकपीवरपरानन्दप्रतिष्ठास्पदम् ॥ २१॥ लेखाभिस्तुहिनद्युतेरिव कृतं वाग्बीजमुच्चैः स्फुर- त्ताराकारकरालबिन्दु परितो मायात्रिधाऽऽवेष्टितम् । पूर्णेन्दोरुदरे तदेतदखिलं पीयूषगौराक्षरं स्रोतःसम्भ्रमसम्भृतं स्मरति यो जिह्वाञ्चले निश्चलः ॥ २२॥ तस्य त्वत्करुणाकटाक्षकणिकासङ्क्रान्तिमात्रादपि स्वान्ते शान्तिमुपैति दीर्घजडता जाग्रद्विकाराग्रणीः । तस्मादाशु जगत्त्रयाद्भुतरसाद्वैतप्रतीतिप्रदं सौरभ्यं परमभ्युदेति व वनाम्भोजे गिरां विभ्रमैः ॥ २३॥ आद्यो मौलिरथापरो मुखमिई नेत्रे च कर्णावुऊ नासावंशपुटे ऋॠ तदनुजौ वर्णौ कपोलद्वयम् । दन्ताश्चोर्ध्वमधस्तथोष्ठयुगलं सन्ध्यक्षराणि क्रमा- ज्जिह्वामूलमुदग्रबिन्दुरपि च ग्रीवा विसर्गी स्वरः ॥ २४॥ कादिर्दक्षिणतो भुजस्तदपरो वर्गश्च वामो भुज- ष्ठादिस्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ । वंशः पृष्ठभवोऽथ नाभिहृदये बादित्रयं धातवो याद्याः सप्त समीरणश्च सपरः क्षः क्रोध इत्यम्बिके ॥ २५॥ एवं वर्णमयं वपुस्तव शिवे लोकत्रयव्यापकं योऽहम्भावनया भजत्यवयवेऽप्यारोपितैरक्षरैः । मूर्तीभूय दिनावसानकमलाकारैः शिरःशायिभिस्तं विद्याः समुपासते करतलैर्दृष्टिप्रसादोत्सुकाः ॥ २६॥ ये जानन्ति यजन्ति सन्ततमभिध्यायन्ति गायन्ति वा तेषामास्यमुपास्यते मृदुपदन्यासैर्विलासैर्गिराम् । किञ्च क्रीडति भूर्भुवःस्वरभितः श्रीचन्दनस्यन्दिनी कीर्तिः कार्तिकरात्रिकैरवसमा सौभाग्यशोभाकरी ॥ २७॥ मायाबीजविदर्भितं पुनरिदं श्रीकूर्मचक्रोदितं दीपाम्नायविदो जपन्ति खलु ये तेषां नरेन्द्राः सदा । सेवन्ते चरणौ किरीटवलभीविश्रान्तरत्नाङ्कुर- ज्योत्स्नामेदुरमेदिनीतलरजोमिश्राङ्गरागश्रियः ॥ २८॥ श्रीबीजं सकलाक्षरादिषु पुनः क्रोधाक्षरान्ते भवेदेवं यो भजतेऽम्ब ते तनुमिमां तस्याग्रतो जाग्रती । लक्ष्मीः सिन्दुरदानगन्धलहरीलोलान्धपुष्पन्धय- श्रेणीबन्धुरशृङ्खलानियमितेवापैति नैव क्वचित् ॥ २९॥ यस्त्वां विद्रुमपल्लवद्रवमयीं लेखामिवालोहिता- मात्मानं परितः स्फुरत्त्रिवलयां मायामभिध्यायति । तस्मै निन्दितवन्दनेन्दुकदलीकान्तारहारस्रजो निःश्वासभ्रमबाष्पदाहगहना मूर्छन्ति तास्ताः स्त्रियः ॥ ३०॥ मातः श्रीभगमालिनीत्यभिधया दिव्यागमोत्तंसितां त्वामानन्दमयीमनुस्मरति यस्तं नाम वामभ्रुवः । बाहुस्वस्तिकपीडितैः स्तनतटैर्दैन्याञ्चितैश्चाटुभि- र्नीरन्ध्रैः पुलकाङ्कितैर्मुकुलितैर्ध्यायन्ति नेत्राञ्चलैः ॥ ३१॥ यस्त्वां ध्यायति रागसागरतरत्सिन्दूरनौकान्तर- स्वैरोज्जागरपद्मरागनलिनीपुष्पासनाध्यासिनीम् । बालादित्यसपत्नरत्नरचितप्रत्यङ्गभूषारुचि- श्रेणीसम्मिलिताङ्गरागवसनास्तस्य स्मरन्त्यङ्गनाः ॥ ३२॥ कर्पूरं कुमुदाकरं कमलिनीपत्रं कलाकौशलं कूजत्कोकिलकामिनीकुलकुहूकल्लोलकोलाहलम् । शङ्कन्ते प्रलयानलं स्मरमहापस्मारवेगातुराः कम्पन्ते निपतन्ति हन्त न गिरं मुञ्चन्ति शोचन्ति च ॥ ३३॥ श्रीमृत्युञ्जयनामधेयभगवच्चैतन्यचन्द्रात्मिके ह्रीङ्कारि प्रथमातमांसि दलय त्वं हंससञ्जीविनि । जीवं प्राणविजृम्भमाणहृदयग्रन्थिस्थितं मे कुरु त्वां सेवे निजबोधलाभरभसा स्वाहाभुजामीश्वरीम् ॥ ३४॥ एवं त्वाममृतेश्वरीमनुदिनं राकानिशाकामुकस्यान्तः सन्ततभासमानवपुषं साक्षाद्यजन्ते तु ये । ते मृत्योः कवलीकृतत्रिभुवना भोगस्य मौलौ पदं दत्वा भोगमहोदधौ निरवधि क्रीडन्ति तैस्तैः सुखैः ॥ ३५॥ जाग्रद्वोधसुधामयूखनिचयैराप्लाव्य सर्वा दिशो यस्याः कापि कला कलङ्करहिता षट्चक्रमाक्रामति । दैन्यध्वान्तविदारणैकचतुरा वाचं परां तन्वती सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ॥ ३६॥ त्वं मातापितरौ त्वमेव सुहृदस्त्व भ्रातरस्त्वं सखा त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् । किं भूयः सकलं त्वमीहितमिति ज्ञात्वा कृपाकोमले श्रीविश्वेश्वरि सम्प्रसीद शरणं मातः परं नास्ति मे ॥ ३७॥ श्रीसिद्धनाथ इति कोऽपि युगे चतुर्थे प्रादुर्बभूव करुणावरुणालयोऽस्मिन् । श्रीशम्भुरित्यभिधया स मयि प्रसन्नं चेतश्चकार सकलागमचक्रवर्ती ॥ ३८॥ तस्याज्ञया परिणतान्वयसिद्ध्वविद्या- भेदास्पदैः स्तुतिपदैर्वचसां विलासैः । तस्मादनेन भुवनेश्वरि वेदगर्भं सद्यः प्रसीद वदने मम सन्निधेहि ॥ ३९॥ येषां परं न कुलदैवतमम्बिके त्वं तेषां गिरा मम गिरो न भवन्तु मिश्राः । तैस्तु क्षणं परिचिते विषयेऽपि वासो मा भूत्कदाचिदिति सन्ततमर्थये त्वाम् ॥ ४०॥ श्रीशम्भुनाथ करुणाकर सिद्धनाथ श्रीसिद्धनाथ करुणाकर शम्भुनाथ । सर्वापराधमलिनेऽपि मयि प्रसन्नं चेतः कुरुष्व शरणं मम नान्यदस्ति ॥ ४१॥ इत्थं प्रतिक्षणमुदश्रुविलोचनस्य पृथ्वीधरस्य पुरतः स्फुटमाविरासीत् । दत्वा वरं भगवती हृदयं प्रविष्टा शास्त्रैः स्वयं नवनवैश्च मुखेऽवतीर्णा ॥ ४२॥ वाक्सिद्धिमेवमतुलामवलोक्य नाथः श्रीशम्भुरस्य महतीमपि तां प्रतिष्ठाम् । स्वस्मिन्पदे त्रिभुवनागमवन्द्यविद्या- सिंहासनैकरुचिरे सुचिरं चकार ॥ ४३॥ भूमौ शय्या वचसि नियमः कामिनीभ्यो निवृत्तिः प्रातर्जातीविटपसमिधा दन्तजिह्वाविशुद्धिः । पत्रावल्यां मधुरमशनं ब्रह्मवृक्षस्य पुष्पैः पूजाहोमौ कुसुमवसनालेपनान्युज्ज्वलानि ॥ ४४॥ इत्थं मासत्रयमविकलं यो व्रतस्थः प्रभाते मध्याह्ने वाऽस्तमितसमये कीर्तयेदेकचित्तः । तस्योल्लासैः सकलभुवनाश्चर्यभूतैः प्रभूतैर्विद्याः सर्वाः सपदि वदने शम्भुनाथप्रसादात् ॥ ४५॥ व्रतेन हीनोऽप्यनवाप्तमन्त्रः श्रद्धाविशुद्धोऽनुदिनं जपेद्यः । तस्यापि वर्षादनवद्यसद्यः कवित्वहृद्याः प्रभवन्ति विद्याः ॥ ४६॥ कोऽप्यचिन्त्यप्रभावोऽस्य स्तोत्रस्य प्रत्ययावहः । श्रीशम्भोराज्ञया सर्वाः सिद्धयोऽस्मिन्प्रतिष्ठिताः ॥ ४७॥ इति वेदगर्भं श्रीभुवनेश्वरीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : bhuvaneshvarIstotramvedagarbhaM
% File name             : bhuvaneshvarIstotramvedagarbhaM.itx
% itxtitle              : bhuvaneshvarIstotram (vedagarbham)
% engtitle              : bhuvaneshvarIstotramvedagarbhaM
% Category              : devii, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 23, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP