श्रीभुवनेश्वर्यास्त्र

श्रीभुवनेश्वर्यास्त्र

विनियोगः - ॐ अस्य श्रीभुवनेश्वर्यास्त्र खड्गमाला महामन्त्रस्य दिगम्बरो भगवान् शरभः ऋषिः, गायत्र्यादिसप्तछन्दांसि, आद्या भगवती राजराजेश्वरी देवता, हृकृल्यौं बीजं, माया शक्तिः, ह्रीं कीलकं महान्ताद्या भुवनेश्वर्यै हृदयं मम समस्तपापक्षयार्थं राज्यप्राप्त्यर्थं पदप्राप्त्यर्थं यशप्राप्त्यर्थं लक्ष्मीप्राप्त्यर्थं ऐश्वर्यप्राप्त्यर्थं सर्वप्राप्त्यर्थं मोक्षादिचतुर्वर्गसाधनार्थं च श्रीमहामायाप्रीतर्थ्ये जपे विनियोगः । ऋष्यादिन्यासः - दिगम्बराय भगवते शरभाय ऋषये नमः शिरसि । गायत्र्यादिसप्तछन्देभ्यो नमः मुखे । आद्या भगवती महान्ता राजराजेश्वरी देवतायै नमः हृदि । हृकृल्यौ बीजाय नमः नाभौ । श्रीं शक्तये नमः गुह्ये । ह्रीं कीलकाय नमः पादयोः । महान्ता भुवनेश्वर्यै नमः सर्वाङ्गे । ह्री श्रीं श्रीं इति बीजत्रयेण दिग्बन्धः । करन्यासः - ॐ नमो अलक्ष्य प्रताप विजय भगवति अङ्गुष्ठाभ्यां नमः । ह्रीं नमो भगवति सहस्त्र वदने तर्जनीभ्यां स्वाहा ॥ श्रीं नमो भगवति परमेश्वरि रक्त चामुण्डे मध्यमाभ्यां वषट् । ह्रीं चण्ड तीव्र ज्वाला दंष्ट्रा कराल वदने अनामिकाभ्यां हुम् ॥ ॐ ह्रीं श्रीं ह्रीं कालाग्निरुद्र स्वरूपे कनिष्ठिकाभ्यां वौषट् । ॐ हृकृल्यौ नमो भगवति भुवनेश्वर्यै करतलकरपृष्ठाभ्यां फट् ॥ ध्यानम् - प्रातः स्मरामि भुवना सुविशालभालं, माणिक्य मौलि-लसितं ससुधांशु-खण्डम् । मन्दस्मितं सुमधुरं करुणाकटाक्षं, ताम्बूलपूरितमुखं श्रुति-कुण्डले च ॥ प्रातः स्मरामि भुवना-गलशोभिमालां, वक्षः श्रियं ललिततुङ्गपयोधरालीम् । संवित् घटञ्च दधतीं कमलं कराभ्यां कञ्जासनां भगवतीं भुवनेश्वरीं ताम् ॥ प्रातः स्मरामि भुवना-पदपारिजातं, रत्नौघनिर्मित-घटे घटितास्पदञ्च योगञ्च भोगममितं निजसेवकेभ्यो वाञ्छाऽधिकं किलददानमनन्तपारम् ॥ प्रातः स्तुवे भुवनपालनकेलिलोलां ब्रह्मेन्द्रदेवगण-वन्दित-पादपीठाम् । बालार्कबिम्बसम-शोणित-शोभिताङ्गीं विन्द्वात्मिकां कलितकामकलाविलासाम् ॥ प्रातर्भजामि भुवने तव नाम रूपं भक्तार्तिनाशनपरं परमामृतञ्च । ह्रींङ्कारमन्त्र-मननी जननी भवानी भद्रा विभा भयहरी भुवनेश्वरीति ॥ यः श्लोकपञ्चकमिदं स्मरति प्रभाते भूतिप्रदं भयहरं भुवनाम्बिकायाः तस्मै ददाति भुवना सुतरां प्रसन्ना सिद्धं मनोः स्वपदपद्म-समाश्रयञ्च ॥ अथ श्रीभुवनेश्वर्यास्त्र । जय देवि जगद्धात्रि जय पापौघहारिणि । जय दुःखप्रशमनि शान्तिर्भव ममार्चने ॥ श्री भुवनेश्वर्यै परमेशानि जय कल्पान्तकारिणि । जय सर्वविपत्तिघ्ने शान्तिर्भव ममार्चने ॥ जय बिन्दुनादरूपे जय कल्याणकारिणि । जय घोरे च शत्रुघ्ने शान्तिर्भव ममार्चने ॥ ॐ नमो भगवति भुवनेश्वर्यै मम सर्व दुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय कामानन् स्फुर स्फुर प्रस्फुर तर तर अनुपमा घोराति घोर सर्व चट चट प्रचट प्रचट सूर्य सोमाग्नि नेत्रायै सहस्त्राष्ट मजायै अघोर भीम भयङ्करायै नर कराम्बर धरायै युग युगान्ताग्नि ज्वालादित्य प्रचण्डायै त्र्यम्बकायै काल रुद्र स्वरूपिण्यै हुं हुं शत्रु वाक् स्तम्भिन्यै आत्म विरोधिणां शिरोललाट-मुख-नेत्र-कर्ण-नासिकोरु-पाद- रेणु-दन्तोष्ठ-जिह्वा-तालु-गुह्यं-गुदकटि- सर्वाङ्गेषु-केशादि-पाद-पर्यन्तं स्तम्भय स्तम्भय मारय मारय श्रीं ह्रीं क्लीं भुवनेश्वर्यै स्वाहा ॥ ॐ ह्रीं ऐं क्लीं सौः भुवनेश्वर्यै स्वाहा । ॐ ह्रीं नमो भगवति भुवनेश्वर्यै पर मन्त्र यन्त्र तन्त्राणि छेदय छेदय, आत्म मन्त्र यन्त्र तन्त्राणि रक्ष रक्ष, ग्रहं निवारय निवारय, व्याधिं विनाशय विनाशय, दुःखं हर हर, दारिद्र्यं निवारय निवारय, सर्वमन्त्रस्वरूपिणि, सर्वयन्त्रस्वरूपिणि वेदाद्यखिलशास्त्रस्वरूपिणि षड्दर्शनादिबोधस्वरूपिणि चैतन्यानन्दस्वरूपिणि सर्वास्त्रप्रयोगस्वरूपेण मम सर्वदुष्टग्रह-भूतग्रह- आकाशग्रह-पातालग्रह-सर्वचाण्डालग्रह-, यक्षग्रह-किन्नरग्रह-किम्पुरुषग्रह-ब्रह्मराक्षस वेतालादि ग्रहान् छिन्दि छिन्धि, ऐं ऐं ऐं ह्रीं ह्रीं क्लीं क्लीं क्लीं चां चां चां मुं मुं मुं डां डां डां चैं पैं नं नं नं मं मं मं खें खें खें फट् फट् शीघ्रं घन घन आवेशय आवेशय भस्मीं कुरु भस्मीं कुरु भुवनेश्वर्यै मदीय सर्वान् शत्रून् समर्पयामि, वद वद मम सर्वदुष्टान् मर्दय मर्दय मारय मारय शोषय शोषय चण्डय चण्डय प्रचण्डय प्रचण्डय अम्बिकायै रं रं रं क्षं क्षं क्षं चं चं चं डं डं डं क्लां क्लीं क्लूं क्लैं क्लौं क्लः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः हूं फट् स्वाहा ॥ ॐ ऐं श्रीं क्लीं सौः ह्सौः भुवनेश्वर्यै स्वाहा । ॐ ह्रीं नमो भगवति भुवनेश्वर्यै गारुड- वारुण-सार्प-पर्वत-वह्नि दैवत-गणेश- विनायकादि अघोर-नारायण-विष्णु ब्रह्म-रुद्र- वज्रास्त्राणि भञ्जय भञ्जय निवारय निवारय तेषां मन्त्रयन्त्रतन्त्राणि विध्वंसय विध्वंसय । ॐ श्रीं क्लीं सौः ऐं ॐ ॐ श्रीं श्रीं भुवनेश्वर्यै ऐं क्लीं सौः स्वाहा । ॐ ह्रीं नमो भगवती भुवनेश्वर्यै अनन्त-घोर- ज्वर-मरण-भयं क्षयकुष्ठव्याधिं विनाशय विनाशय एकाहिक-द्व्याहिक-त्र्याहिक-चातुर्थिक-सांसर्गिक- वर्तमानार्थ-मासिक-पञ्च-मासिक-षाण्मासिक- सांवत्सरिक-ज्वरानुभूत-कृत-पिशाच-कृत- शाकिनी-डाकिनी-कृतग्रह-वेताल-कृत-दिवा - चारि-रात्रि-चारि-सन्ध्या-चारि-महाभूत-कृत- पीडा-ज्वरान्नाशय नाशय नाशय त्रोटय त्रोटय स्फोटय स्फोटय वारय वारय मारय मारय सर्व-शूलान् दारय दारय उदर-शूलान् मूर्ध्नि शूलान् गुल्म शूलान् गुल्मान् अति-विषान् अपस्मारान् मूत्र-कृच्छ्रान् भगन्दरान् शूलान् उद्वाहान् कुष्ठान् वान्तिकान् शमय शमय त्रोटय त्रोटय बन्ध बन्ध विद्वेषय विद्वेषय भञ्जय भञ्जय व्याघ्र-पादान्त-सन्निपात- वातादि-शारीरिक-कफ-पित्त-कास-श्वास- श्लेष्मादिकं दह दह छिन्धि छिन्धि श्रीमहादेवनिर्मित मोहन-वश्याकर्षणोच्चाटन- कीलन-विद्वेषण-मारणादि-षट्कर्माणि वृत्यं हुं हुं फट् स्वाहा ॥ ॐ श्रीं क्लीं सौः ह्रीं भुवनेश्वर्यै ॐ हूं ठः ठः ठः स्वाहा । ॐ ह्रीं नमो भगवति भुवनेश्वर्यै मम शरीरे वात-ज्वर-मरण-भयं छिन्धि छिन्धि हन हन भूतज्वर-प्रेतज्वर-पिशाचज्वर-रात्रिज्वर- अमितज्वर-सन्निपातज्वर-बालज्वर- कुमारज्वर-ग्रहज्वर-तापज्वर-ब्रह्मज्वर- विष्णुज्वर-रुद्रज्वर-गणेशज्वर मारी प्रवेशज्वर-कामादि विषमज्वर मारी । ॐ ह्रीं ऐं सौः क्लीं श्रीं भुवनेश्वर्यै स्वाहा । ॐ ह्रीं नमो भगवति-भुवनेश्वर्यै मम जन्माङ्गे स्थित देवग्रह-योनिग्रह-योगिनीग्रह- दैत्यग्रह-दानवग्रह-राक्षसग्रह- ब्रह्मराक्षसग्रह-सिद्धग्रह-यक्षग्रह-विद्याधरग्रह- किन्नरग्रह-गन्धर्वग्रह-अप्सराग्रह-भूतग्रह- पिशाचग्रह-कूष्माण्डग्रह-गजादिग्रह-पूतनाग्रह- बालग्रह-सूर्यादिनवग्रह-मुद्गलग्रहपितृग्रह- वेतालग्रह-शत्रुग्रह-राजग्रह-चौरवैरिग्रह- नेतृग्रह-देवताग्रह-अधिग्रह-व्याधिग्रहापस्मरादिग्रहग्रहग्रह- पुरग्रह-उरगग्रह- सरजग्रह-उक्तग्रह-डामरग्रह-उदकग्रह-अग्निग्रह- आकाशग्रह-भूग्रह-वायुग्रह-शालिग्रह- धान्यादिग्रह-विषयग्रह-ग्रहानातिग्रह-घोरग्रह- छायाग्रह-सर्पग्रह-विषजीवग्रह-वृश्चिकग्रह- कालग्रह-शाल्यग्रहादि सर्वान् ग्रहान् नाशय नाशय कालाग्नि-रुद्र-स्वरूपेण दह दह अनुनय अनुनय शोषय शोषय मुखय मुखय कम्पय कम्पय भक्षय भक्षय निमीलय निमीलय मर्दय मर्दय विद्रावय विद्रावय निधन निधन स्तम्भय स्तम्भय उच्चाटय उच्चाटय उष्टन्धय उष्टन्धय मारय मारय चण्ड चण्ड प्रचण्ड प्रचण्ड क्रोध क्रोध ज्वल ज्वल प्रज्वल प्रज्ज्वल ज्वाला दित्य वदने उग्र ग्रस उग्र ग्रस विजृम्भय विजृम्भय घोषय घोषय मारय मारय हन हन । ॐ सौं क्लीं श्रीं ऐं ह्रीं हूं भुवनेश्वर्यै स्वाहा । ॐ ह्रीं नमो भगवति-भुवनेश्वर्यै परराष्ट्र-गजाश्वं रथ-सैन्य-शस्त्रास्त्र-बलं स्तम्भय स्तम्भय उच्चाटय उच्चाटय मारय मारय खादय खादय विदारय विदारय भीषय भीषय कम्पय कम्पय भक्षय भक्षय त्वरित त्वरित बन्धय बन्धय प्रमुख प्रमुख स्फुट स्फुट ठं ठं ठं ठं क्षां क्षीं क्षूं क्षैं क्षौं क्षः हुं फट् स्वाहा ॥ ॐ क्लीं ऐं सौं ह्रीं क्रीं क्रीं क्रीं हूं हूं भुवनेश्वर्यै क्रीं ठः ठः ठः फट् स्वाहा । ॐ ह्रीं नमो भगवति-भुवनेश्वर्यै सर्वादिशो बध्नामि, महेश्वरं बध्नामि पितामहं बध्नामि, महाविष्णुं बध्नामि, गणेशं बध्नामि, विनायकान् बध्नामि, कार्तिकं बध्नामि, दशदिक्पालान् बध्नामि, सर्वान् सुरान् बध्नामि, ब्रह्माधस्त्रान् बध्नामि, अघोरं बध्नामि, सर्वान् सुरान् बध्नामि, सर्वान् द्विजान् बध्नामि, केशरीं बध्नामि, सत्त्वान् बध्नामि, व्याघ्रान् बध्नामि, गजान् बध्नामि, चौरान् बध्नामि, शत्रून् बध्नामि, महामारीं बध्नामि, सर्वां यक्षिणीं बध्नामि, आब्रह्म-स्तम्भ-पर्यन्तं सर्वान् चराचर-जीवान् बध्नामि, माया-ज्वालिनि स्तम्भय स्तम्भय सर्ववादीन् मूकय मूकय, कीलय कीलय, गतिं स्तम्भय स्तम्भय, चौरादि-सर्वान् दुष्ट-पुरुषान् बन्धय बन्धय, दिशा-विदिशा-रात्र्याकर्षण-पाताल-घ्राण-भ्रूचक्षुः शिरः श्रोत्रे हस्तौ पादौ गतिं मतिं मुखं जिह्वां वाचां शब्द-पञ्चाशत्-कोटि-योजन-विस्तीर्णान् भू-ब्रह्माण्ड-देवान् बधामि, मण्डलं बध्नामि, व्याधान् क्रमय क्रमय रक्ष रक्ष हुं फट् स्वाहा ॥ ॐ ह्रीं क्लीं हूं क्रीं ह्रीं श्रीं ऐं सौः क्लीं भुवनेश्वर्यै सर्वदोषहारिणि हुं फट् स्वाहा ॥ ॐ क्लीं श्रीं ह्रीं हूं ह्सौः भुवनेश्वर्यै सर्व-विघ्नछेदिनि हुं फट् स्वाहा ॥ ॐ ह्रीं क्लीं श्रीं हूं क्रीं क्रीं ऐं सौः भुवनेश्वर्यै सर्वदुष्टभक्षिणि क्रीं हुं फट् स्वाहा ॥ ॐ ऐं सौः श्रीं क्लीं भुवनेश्वर्यै सर्वपाप-निकृन्तिनि हुं फट् स्वाहा ॥ ॐ ऐं सौः क्लीं ह्रीं श्रीं ह्सौः हूं हूं भुवनेश्वर्यै सर्वयन्त्र-स्फोटिनि ॐ ऐं फट् स्वाहा ॥ ॐ सौः क्लीं ऐं क्लीं सौः स्त्रीं हूं श्रीं ह्रीं क्रीं भुवनेश्वर्यै सर्वश्रृङ्खलात्रोटिनि ॐ हुं फट् स्वाहा ॥ ह्रीं भुवनेश्वर्यै सर्वशान्तिं कुरु कुरु । ॐ श्रीं ह्रीं भुवनेश्वर्यै स्वस्तिं कुरु कुरु । ॐ श्रीं क्लीं भुवनेश्वर्यै पुष्टिं कुरु कुरु । ॐ ह्रीं श्रीं क्लीं भुवनेश्वर्यै श्रियं देहि देहि । ॐ श्रीं ऐं क्लीं ह्रीं भुवनेश्वर्यै यशो देहि देहि । ॐ श्रीं ह्रीं क्लीं ऐं सौः भुवनेश्वर्यै आयुर्देहि देहि । ॐ श्रीं ह्रीं क्लीं ऐं सौः ह्रीं भुवनेश्वर्यै आरोग्यं देहि देहि । ॐ श्रीं ह्रीं क्लीं ऐं सौः क्लीं ह्रीं भुवनेश्वर्यै पुत्र-पौत्रान् देहि देहि । ॐ श्रीं ह्रीं क्लीं ऐं क्लीं सौः ऐं सौः भुवनेश्वर्यै सर्वकामांश्च देहि देहि । ॐ ह्रीं श्रीं क्लीं ऐं सौः क्रीं हूं ह्रीं ह्रीं भुवनेश्वर्यै भक्तिं देहि देहि । ॐ ह्रीं श्रीं क्लीं ऐं सौः क्लीं ऐं सौः श्रीं ह्रीं भुवनेश्वर्यै स्वतन्त्रं स्वमन्त्रं स्वयन्त्रं प्रकाशय प्रकाशय । ॐ ॐ ह्रीं ह्रीं श्रीं श्रीं क्लीं क्लीं ऐं ऐं सौः सौः भुवनेश्वर्यै सर्वसिद्धिं कुरु कुरु । ॐ ह्रां क्रीं ह्रीं श्रीं ऐं सौः क्लीं श्रीं ह्रीं ऐं सौः क्लीं भुवनेश्वर्यै मम शरीरे अमृत-वर्षाः कुरु कुरु । ॐ ॐ क्लीं क्लीं सौः सौः श्रीं श्रीं ऐं ऐं सौः सौः ह्रीं ह्रीं भुवनेश्वर्यै राज्यं देहि देहि । ॐ श्रीं ॐ श्रीं ह्रीं ऐं ह्रीं ऐं क्लीं सौः क्लीं सौः क्रीं क्रीं ह्रीं भुवनेश्वर्यै सपरिवारं मां रक्ष रक्ष । ॐ ह्रीं श्रीं क्लीं ऐं सौः ह्सौः ॐ ह्सौः ऐं क्लीं श्रीं ह्रीं ॐ ह्रीं भुवनेश्वर्यै क्षमस्वापराधं क्षमस्वापराधं, नमस्ते नमस्ते हृकृल्यौं ॐ ॥ इति श्रीभुवनेश्वर्यास्त्र । Proofread by Manoj Kumar Barman
% Text title            : Bhuvaneshvari Astra
% File name             : bhuvaneshvaryAstra.itx
% itxtitle              : bhuvaneshvaryAstra
% engtitle              : bhuvaneshvaryAstra
% Category              : devii, devI, dashamahAvidyA, astra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manoj Kumar Barman
% Indexextra            : (Scan)
% Latest update         : July 1, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org