ब्राह्मणैः कृतं नर्मदास्तोत्रम्
ततः केचित्स्तुवन्त्यन्ये जय देवि नमोऽस्तु ते ॥ २४॥
नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले ।
नमोऽस्तु ते विप्रसहस्रसेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ २५॥
नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरप्रदे शिवे ।
नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते ॥ २६॥
अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे ।
महागजौघैर्महिषैर्वराहैरापीयसे तोयमहोर्मिमाले ॥ २७॥
नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान् ॥ २८॥
भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो न हि संश्रयन्ति ।
स्पृष्टं करैश्चन्द्रमसो रवेश्चेत्तद्देवि दद्यात्परमं पदं तु ॥ २९॥
अनेकसंसारभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।
गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् ॥ ३०॥
नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।
दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥ ३१॥
विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः ।
महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति ॥ ३२॥
म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽम्भस्तव देवि पुण्यम् ।
तेऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः ॥ ३३॥
सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन्कलिनावसृष्टे ।
त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ ३४॥
तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा ।
यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम् ॥ ३५॥
त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् ।
त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः ॥ ३६॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे रेवाखण्डे षष्टितमा- ध्यायान्तर्गतं
ब्राह्मणैः कृतं नर्मदास्तोत्रं समाप्तम् ।
स्कन्दपुराण । आवन्त्यखण्ड । रेवाखण्ड । अध्याय ६०/२४-३६; ३८-४१॥
skandapurANa . AvantyakhaNDa . revAkhaNDa . adhyAya 60/24-36; 38-41..
Proofread by PSA Easwaran