ब्रह्मादिभिः कृतं श्रीललितादेवीस्तोत्रम्

ब्रह्मादिभिः कृतं श्रीललितादेवीस्तोत्रम्

ब्रह्माद्या ऊचुः । नमो नमस्ते जगदेकनाथे नमो नमः श्रीत्रिपुराभिधाने । नमो नमो भण्डमहासुरघ्ने नमोऽस्तु कामेश्वरि वामकेशि ॥ ११॥ चिन्तामणे चिन्तितदानदक्षेऽचिन्तये चिराकारतरङ्गमाले । चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते ॥ १२॥ मोक्षप्रदे मुग्धशशाङ्कचूडे मुग्धस्मिते मोहनभेददक्षे । मुद्रेश्वरीचर्चितराजतन्त्रे मुद्राप्रिये देवि नमो नमस्ते ॥ १३॥ क्रूरान्तकध्वंसिनि कोमलाङ्गे कोपेषु कालीं तनुमादधाने । क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते ॥ १४॥ षडङ्गदेवीपरिवारकृष्णे षडङ्गयुक्तश्रुतिवाक्यमृग्ये । षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते ॥ १५॥ कामे शिवे मुख्यसमस्तनित्ये कान्तासनान्ते कमलायताक्षि । कामप्रदे कामिनि कामशम्भोः काम्ये कलानामधिपे नमस्ते ॥ १६॥ दिव्यौषधाद्ये नगरौघरूपे दिव्ये दिनाधीशसहस्रकान्ते । देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते ॥ १७॥ सदाणिमाद्यष्टकसेवनीये सदाशिवात्मोज्ज्वलमञ्चवासे । सभ्ये सदेकालयपादपूज्ये सवित्रि लोकस्य नमो नमस्ते ॥ १८॥ ब्राह्मीमुखैर्मातृगणैर्निषेव्ये ब्रह्मप्रिये ब्राह्मणबन्धभेत्रि । ब्रह्मामृतस्रोतसि राजहंसि ब्रह्मेश्वरि श्रीललिते नमस्ते ॥ १९॥ सङ्क्षोभिणीमुख्यसमस्तमुद्रासंसेविते संसरणप्रहन्त्रि । संसारलीलाकृतिसारसाक्षि सदा नमस्ते ललितेऽधिनाथे । नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये ॥ २०॥ नित्ये निरातङ्कदयाप्रपञ्चे नीलालकश्रेणि नमो नमस्ते । अनङ्गपुष्पादिभिरुन्नदाभिरनङ्गदेवीभिरजस्रसेव्ये । अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते ॥ २१॥ सङ्क्षोभिणीमुख्यचतुर्दशार्चिर्मालावृतोदारमहाप्रदीप्ते । आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते ॥ २२॥ सशर्वसिद्धादिकशक्तिवन्द्ये सर्वज्ञविज्ञातपदारविन्दे । सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥ २३॥ सर्वज्ञजातप्रथमाभिरन्यदेवीभिरप्याश्रितचक्रभूमे । सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि ॥ २४॥ वन्दे वशिन्यादिकवाग्विभूते वर्द्धिष्णुचक्रद्युतिवाहवाहे । बलाहकश्यामकचे वचोऽब्धे वरप्रदे सुन्दरि पाहि विश्वम् ॥ २५॥ बाणादिदिव्यायुधसार्वभौमे भण्डासुरानीकवनान्तदावे । अत्युग्रतेजोज्ज्वलिताम्बुराशे प्रसेव्यमाने परितो नमस्ते ॥ २६॥ कामेशि वज्रेशि भगेश्यरूपे कन्ये कले कालविलोपदक्षे । कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते ॥ २७॥ बिन्दुस्थिते बिन्दुकलैकरूपे बिन्द्वात्मिके बृंहितचित्प्रकाशे । बृहत्कुचाम्भोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते ॥ २८॥ कामेश्वरोत्सङ्गसदानिवासे कालात्मिके देवि कृतानुकम्पे । कल्पावसानोत्थितकालिरूपे कामप्रदे कल्पलते नमस्ते ॥ २९॥ सवारुणे सान्द्रसुधांशुशीते सारङ्गशावाक्षि सरोजवक्त्रे । सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि सन्नतिस्ते ॥ ३०॥ तव प्रभावेण चिदग्निजायां श्रीशम्भुनाथप्रकडीकृतायाः । भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः ॥ ३१॥ नव्यानि सर्वाणि वपूंषि कृत्वा हि सान्द्रकारुण्यसुधाप्लवैर्न्नः । त्वया समस्तं भुवनं सहर्षं सुजीवितं सुन्दरि सभ्यलभ्ये ॥ ३२॥ इति ब्रह्माण्डपुराणे उत्तरभागे त्रिंशाध्यायान्तर्गतं ब्रह्मादिभिः कृतं श्रीललितादेवीस्तोत्रं समाप्तम् । ब्रह्माण्डपुराण । उत्तरभाग । ललिता । अध्याय ३०/११-३०॥ brahmANDapurANa . uttarabhAga . lalitA . adhyAya 30/11-30.. Proofread by PSA Easwaran
% Text title            : Brahmadibhih Kritam Shri Lalitadevi Stotram
% File name             : brahmAdibhiHkRRitaMshrIlalitAdevIstotram.itx
% itxtitle              : lalitAdevIstotram (brahmAdibhiHkRitaM brahmANDapurANAntargatam)
% engtitle              : brahmAdibhiHkRRitaM lalitA devIstotram
% Category              : devii, devI, brahmANDapurANa, stotra, lalitA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lalitA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmANDapurANa | uttarabhAga | lalitA | adhyAya 30/11-30||
% Indexextra            : (Scans 1, 2, English)
% Latest update         : October 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org