श्रीब्रह्मास्त्रमहाविद्याबगलामुखीस्तोत्रम्
श्री गणेशाय नमः ।
ॐ अस्य श्रीबगलामुखीस्तोत्रस्य भगवान् नारद ऋषिः ।
त्रिष्टुप्छन्दः । श्रीबगुलामुखी देवता ।
ह्लीं बीजम् । स्वाहा शक्तिः ।
मम सन्निहितानामसन्निहितानां विरोधिनां दुष्टानां
वाङ्मुखबुद्धीनां स्तम्भनार्थे
श्रीमहामायाबगलामुखीवरप्रसादसिद्धयर्थे जपे विनियोगः । (पाठे विनियोगः)
करन्यासः ।
ॐ ह्लीं अङ्गुष्ठाभ्यां नमः ।
ॐ बगलामुखी तर्जनीभ्यां स्वाहा ।
ॐ सर्वदुष्टानां मध्यमाभ्यां वषट् ।
ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम् ।
ॐ जिह्वां कीलय कीलय कनिष्ठिकाभ्यां वौषट् ।
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतलकरपृष्ठाभ्यां फट् ॥
ऋष्यादिन्यासः ।
ॐ नारदऋषये नमः शिरसि ।
ॐ त्रिष्टुप् छन्दसे नमः मुखे ।
ॐ श्रीबगलामुखीदेवतायै नमः हृदये ।
ॐ ह्लीं बीजाय नमः गुह्ये ।
ॐ स्वाहा शक्तये नमः पादयोः ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥
हृदयादिषडङ्गन्यासः ।
ॐ ह्लीं हृदयाय नमः ।
ॐ बगलामुखी शिरसे स्वाहा ।
ॐ सर्वदुष्टानां शिखायै वषट् ।
ॐ वाचं मुखं स्तम्भय कवचाय हुम् ।
ॐ जिह्वां कीलय कीलय नेत्रत्रयाय वौषट् ।
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा अस्त्राय फट् ।
इति हृदयादिषडङ्गन्यासः ।
ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः ॥
अथ ध्यानं -
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररसनाः सम्बिभ्रतीं भूषणैः
व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥
जपमन्त्रः -
ॐ ह्लीं बगलामुखिं सर्वदुष्टानां वाचं मुखं पदं स्तम्भय
जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा ।
अथ स्तोत्रं -
मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिधातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥
त्रिशूलधारिणीमम्बां सर्वसौभाग्यदायिनीम् ।
सर्वशृङ्गारवेशाढ्यां देवीं ध्यात्वा प्रपूजयेत् ॥ ३॥
पीतवस्त्रां त्रिनेत्रां च द्विभुजां हाटकोज्ज्वलाम् ।
शिलापर्वतहस्तां च स्मरेत् तां बगलामुखीम् ॥ ४॥
रिपुजिह्वाग्रहां देवीं पीतपुष्पविभूषिताम् ।
वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् ॥ ५॥
गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ।
चतुर्भुजां त्रिनेत्रां च कमलासनसंस्थिताम् ॥ ६॥
मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् ।
पीताम्बरधरां सान्द्रहृढ़पीनपयोधराम् ॥ ७॥
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् ।
पीतभूषणपीताङ्गीं स्वर्णसिंहासने स्थिताम् ॥ ८॥
एवं ध्यात्वा जपेत् स्तोत्रमेकाग्रकृतमानसः ।
सर्वसिद्धिमवाप्नोति मन्त्रध्यानपुरःसरम् ॥ ९॥
आराध्या जगदम्ब दिव्यकविमिः सामाजिकैः स्तोतृभिः
माल्यैश्चन्दनकुङ्कुमैः परिमलैरभ्यचिता सादरात् ।
सम्यङ्न्यासिसमस्तभूत निवहे सौभाग्यशोभाप्रदे
श्रीमुग्धे बगले प्रसीद विमले दुःखापहे पाहि माम् ॥ १०॥
आनन्दकारिणी देवी रिपुस्तम्भनकारिणी ।
मदनोन्मादिनी चैव प्रीतिस्तम्भनकारिणी ॥ ११॥
महाविद्या महामाया साधकस्य फलप्रदा ।
यस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत्क्षणात् ॥ १२॥
वामे पाशाङ्कुशौ शक्ति तस्याधस्ताद्वरं शुभम् ।
दक्षिणे क्रमतो वज्रं गदाजिह्वाऽभयानि च ॥ १३॥
विभ्रतीं संस्मरेन्नित्यं पीतमाल्यानुलेपनाम् ।
पीताम्बरधरां देवीं ब्रह्मादिसुरवन्दिताम् ॥ १४॥
केयूराङ्गदकुण्डलभूषां बालार्कद्युतिरञ्जितवेषाम् ।
तरुणादित्यसमानप्रतिमां कौशेयांशुकबद्धनितम्बाम् ॥ १५॥
कल्पद्रुमतलनिहितशिलायां प्रमुदितचित्तोल्लसदलकान्ताम् ।
पञ्चप्रेतनिकेतनबद्धां भक्तजनेभ्यो वितरणशीलाम् ॥ १६॥
एवंविधां तां बगलां ध्यात्वा मनसि साधकः ।
सर्वसम्पत्समृद्ध्यर्थं स्तोत्रमेतदुदीरयेत् ॥ १७॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पकद्युतिमदिन्दुविम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वां चलां
स्मरामि बगलामुखी विमुखवाङ्मुखस्तम्भिनीम् ॥ १८॥
पीयूषोदधिमध्यचारुविलसद्रत्नोज्ज्वले मण्डपे
तत्सिंहासनमूलपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां
यस्त्वां ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः ॥ १६॥
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं
मुद्रां वामकरे निधाय च पुनर्मन्त्री मनोज्ञाक्षरम् ।
पीताध्यानपरोऽथ कुम्भकवशाद् बीजं स्मरेत्पार्थिव
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥ २०॥
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणे त्रिजगतां जैत्रं न चित्रं हि तत् ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
तन्नामस्मरणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ॥ २१॥
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्बति सर्वविच्च जडति त्वद्यन्त्ररणायन्त्रितः
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ २२॥
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्सन्नमनं च यन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशां कारुण्यपूर्णेक्षणे
शत्रोर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ २३॥
मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं यन्त्रय मुद्रयाशु धिषणामुग्रां गतिं स्तम्भय ।
शत्रूंश्चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णक्षणे ॥ २४॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि वामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतोऽस्मि कृपया विश्वेश्वरि त्राहि माम् ॥ २५॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौघविध्वंसिनी
योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।
दुष्टोच्चाटनकारिणी पशुमनः सम्मोहसन्दायिनी
जिह्वाः कीलय वैरिणां विजयसे ब्रह्मास्त्राविद्या परा ॥ २६॥
मातर्यस्तु मनोरमं स्तवमिमं देव्याः पठेत्सादरं
धृत्वा यन्त्रमिदं तथैव समरे बाह्वोः करे वा गले ।
राजानो वरयोषितोऽथ करिणः सर्पा मृगेन्द्राः खला-
स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सर्वदा ॥ २७॥
अनुदिनमभिरामं साधको यस्त्रिकालं
पठति स भुवनेऽसौ पूज्यते देववर्गैः ।
सकलममलकृत्यं तत्त्वद्रष्टा च लोके
भवति परमसिद्धा लोकमाता पराम्बा ॥ २८॥
पीतवस्त्रवसनामरिदेहप्रेतजासननिवेशितदेहाम् ।
फुल्लपुष्परविलोचनरम्यां दैत्यजालदहनोज्ज्वलभूषाम् ॥ २६॥
पर्यङ्कोपरि लसद्विभुजां कम्बुहेमनतकुण्डललोलाम् ।
वैरिनिर्दलनकारणरोषां चिन्तयामि बगलां हृदयाब्जे ॥ ३०॥
चिन्तयामि सुभुजां शृणिहस्तां सद्भुजां च सुरवन्दितचरणाम् ।
षष्ठिसप्ततिशतैर्धृतशस्त्रैर्बाहुभिः परिवृतां बगलाम्बाम् ॥ ३१॥
चौराणां सङ्कटे च प्रहरणसमये बन्धने वारिमध्ये
वह्नौ वादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये प्राणबाधे रणे वा
गच्छंस्तिष्ठंस्त्रिकालं स्तवपठनमिदं कारयेदाशु धीरः ॥ ३२॥
विद्या लक्ष्मीः सर्वसौभाग्यमायुः पुत्राः सम्पद्राज्यमिष्टं च सिद्धिः ।
मातः श्रेयः सर्ववश्यत्वसिद्धिः प्राप्तं सर्वं भूतले त्वत्परेण ॥ ३३॥
गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।
मृत्युर्वैद्यति दूषणं गुणति वै यत्पादसंसेवनात्
तां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियाम् ॥ ३४॥
यत्कृतं जपसन्ध्यानं चिन्तनं परमेश्वरि ।
शत्रूणां स्तम्भनार्थाय तद्गृहारण नमोऽस्तु ते ॥ ३५॥
ब्रह्मास्त्रमेतद्विख्यातं त्रिषु लोकेषु दुर्लभम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ ३६॥
पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोज्ज्वलाम् ।
शिलामुद्गरहस्तां च स्मरेत् तां बगलामुखीम् ॥ ३७॥
सिद्धिं साध्येऽवगन्तुं गुरुवरवचनेष्वार्हविश्वासभाजां
स्वान्तः पद्मासनस्थां वररुचिबगलां घ्यायतां तारतारम् ।
गायत्रीपूतवाचां हरिहरमनने तत्पराणां नराणां
प्रातर्मध्याह्नकाले स्तवपठनमिदं कार्यसिद्धिप्रदं स्यात् ॥ ३८॥
इति श्रीरुद्रयामले उत्तरखण्डे श्रीब्रह्मास्त्रमहाविद्याबगलामुखीस्तोत्रं सम्पूर्णम् ।
The Panchanga Prakaranam has this stora as first:
(1) Brahmastramahavidyastotram
(2) Hridayam
(3) Panjara Stotram
(4) Panjara Nyasa Stotram
(5) Kavacham (5 kavachams are given)
See these stotras in Devi section.
Proofread by Ruma Dewan