श्रीब्रह्मचारिण्यष्टकम्
ब्रह्मचर्यशीलां वन्दे तपःसिद्धिप्रदायिनीम् ।
अक्षमालाकरां दिव्यां कमण्डलुधरां शुभाम् ॥ १॥
श्वेतवस्त्रधरां शान्तां तपोज्वालासमप्रभाम् ।
प्रसन्नवदनां दिव्यां भक्तानुग्रहकारिणीम् ॥ २॥
ब्रह्मस्वरूपिणीं वन्दे ब्रह्मविद्याप्रदायिनीम् ।
ब्रह्मज्ञानरतां सिद्धां ब्रह्मतेजोविवर्धिनीम् ॥ ३॥
तपसा दीप्यमानाङ्गीं तपःफलप्रदायिनीम् ।
दुःखदारिद्र्यहन्त्रीं च सर्वसौभाग्यदायिनीम् ॥ ४॥
शङ्करवल्लभां सूक्ष्मां शिवज्ञानप्रदायिनीम् ।
शुद्धचित्तप्रदां देवीं शरण्यां कुशलात्मिकाम् ॥ ५॥
करुणामृतसम्पूर्णां भक्तरक्षणतत्पराम् ।
सर्वविघ्नविनाशीञ्च सर्वकामफलप्रदाम् ॥ ६॥
ज्ञानभक्तिप्रदां नित्यां मुक्तिमार्गप्रदर्शिनीम् ।
त्रिगुणां परमेशानीं वन्देशं ब्रह्मचारिणीम् ॥ ७॥
ज्ञानवैराग्यदात्रीं च सदाचारप्रवर्तिनीम् ।
शिवसङ्कल्पसम्पन्नां प्रणमामि पुनः पुनः ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीब्रह्मचारिण्यष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com