सर्वसौभाग्यदायकं वज्रपञ्जरं ब्रह्मलेखिनीकवचम्
श्रीपरकृष्ण उवाच-
लेखिनी महाविद्या कोटिकल्पेषु दुर्लभा ।
शृणु कवचस्यास्य ऋषिः परब्रह्मस्मृतः ॥ १॥
छन्दोऽनुष्टुप् प्रोक्ता देवता लेखिनीश्वरी ।
वाग्भवबीजं च शक्तिकूटबीजकम् ॥ २॥
कूर्चबीजोत्कीलनां सौभाग्यनिर्णयाय च ।
मदीयाङ्कलिपिसंशोधनार्थे विनियोगः स्मृतः ॥ ३॥
॥ अथ कवचम् ॥
प्रणवं मे शिरः पातु मायां च मम भालकम् ।
एकाक्षरी परा शक्तिः स्रवन्ती पातु चक्षुषी ॥ ४॥
त्र्यक्षरी त्र्यम्बकाकारा नासिकां मे सदावतु ।
चतुरक्षरी महामाया मुखं मे पातु सर्वदा ॥ ५॥
पञ्चदशाक्षरी नित्या जिह्वां रक्षेत् कुलेश्वरी ।
षोडशी षोडशार्णा च कण्ठं मे पातु चिन्मयी ॥ ६॥
ऐं ह्रीं ऐं सम्पुटाकारा कर्णयुग्मं सदावतु ।
क्लीं ब्लूं क्लीं बीजरूपा च कपोलौ मे सदावतु ॥ ७॥
मायाबीजं महादीप्तं दन्तपङ्क्तिं ममावतु ।
कूर्चबीजं पराकारं चिवुकं मे सदावतु ॥ ८॥
वधूबीजं महागुह्यं रसनां मे सदावतु ।
लेखिनी सर्ववर्णेशा ग्रीवां पातु महोत्कट ॥ ९॥
गायत्री पातु मे स्कन्धौ सावित्री बाहुयुग्मकम् ।
सरस्वती करौ पातु तारा अङ्गुलीमूलकम् ॥ १०॥
उग्रतारा नखाग्रं च नीलसरस्वती तथा ।
वक्षःस्थलं सदा रक्षेत् शारदा सर्वमङ्गला ॥ ११॥
श्यामा पातु द्विपार्श्वं च मातङ्गी स्तनमण्डलम् ।
बगलामुखी महोदग्रो नाभिं पातु भयातुर ॥ १२॥
राजमातङ्गिनी पातु जठरं कुक्षिभागकम् ।
महापिशाचिनी रक्षेत् पृष्ठवंशं समन्ततः ॥ १३॥
कोटिश्वरी कटिं पातु कल्पभेदिनी गुह्यकम् ।
हस्तियोगिनी मे ऊरू रहस्ययोगिनी तथा ॥ १४॥
ब्राह्मी पातु जानुयुग्मं ब्रह्मयोगिनी जङ्घकम् ।
ब्रह्मलेखिनी पातु पादौ ब्रह्माणी पादपृष्ठकम् ॥ १५॥
अक्षरा पातु पादाङ्गुलीः महासरस्वती तथा ।
नीलादेवी सर्वगात्रं पातु मां सर्वसङ्कटे ॥ १६॥
आदिशारदा सदा रक्षेत् स्वप्ने जागरणे पथि ।
वीणापाणिर्ज्ञानमयी सर्वदिक्षु सदावतु ॥ १७॥
दुर्गा दुर्गतिका पातु सङ्ग्रामे राजमन्दिरे ।
पञ्चप्राणान् महामाया लेखिनीरूपधारिणी ॥ १८॥
रक्तमांसमस्थिमज्जां शुक्रं त्वचं तथैव च ।
धातून सर्वान् शरीरे तु पातु देव्यक्षरेश्वरी ॥ १९॥
भूचरी खेचरी चैव पातु मां कुलवर्द्धिनी ।
यादृशं रूपमास्थाय विलिखेद् दैवमक्षरम् ॥ २०॥
तादृशं रूपमास्थाय पातु मां सर्वतो विभुः ।
इडा पिङ्गला सुषुम्ना नाडीतन्त्रं ममावतु ॥ २१॥
सहस्रारदलपद्मं महाबिन्दुं सदावतु ।
अक्षरमाला महादीप्ता सर्वाङ्गं मे सदावतु ॥ २२॥
बिन्दुद्वन्द्वमयी चैव पातु मे नेत्रमण्डलम् ।
त्रिकोणमध्यसंविष्टा भ्रूयुगं मे सदावतु ॥ २३॥
कादिरूपा पातु कण्ठं हादिरूपा च हृद्गतम् ।
सादिरूपा महादेवी नाभिदेशं सदावतु ॥ २४॥
वाग्भवाढ्या महालेखा दक्षिणं पार्श्वमावतु ।
कामकूटात्मिका देवी वामपार्श्वं सदावतु ॥ २५॥
शक्तिकूटा महागुह्या पृष्ठभागं सदावतु ।
लज्जाबीजं महाभासक हृदयन्तरं ममावतु ॥ २६॥
श्रीबीजं पातु मे कोशां कौलीं च पातु कौलिकी ।
मन्त्रलेखमयी नित्या बुद्धिं मे पातु सर्वदा ॥ २७॥
चित्तं चेतो मदीयं च ज्ञानरूपं कलावती ।
अहङ्कारं मम रक्षेत् सर्वविद्याविशारदा ॥ २८॥
शब्दाक्षरमयी रेखा श्रोत्रेन्द्रियं ममावतु ।
स्पर्शाक्षरमयी नित्या त्वगिन्द्रियं सदावतु ॥ २९॥
रूपाक्षरमयी ज्येष्ठा चक्षुरिन्द्रियमवातु ।
रसाक्षरमयी श्रेष्ठा जिह्वेन्द्रियं ममावतु ॥ ३०॥
गन्धाक्षरमयी शुद्धा घ्राणेन्द्रियं सदावतु ।
वाक्पाणिपादपायूंश्च पातु देव्यक्षरेश्वरी ॥ ३१॥
जाग्रदवस्थां सदा रक्षेत् विश्वरूपा परात्परा ।
स्वप्नावस्थां महासूक्ष्मा तैजसाख्या सदावतु ॥ ३२॥
सुषुप्त्यवस्थां नित्यं मे प्राज्ञरूपा ममावतु ।
तुरीयास्थां महाशून्या बिन्दुरूपा सदावतु ॥ ३३॥
पूर्वस्यां पातु मां वाणी आग्नेय्यां तारिणी तथा ।
दक्षिणस्यां महाश्यामा नैऋत्यां उग्रतारिणी ॥ ३४॥
पश्चिमायां महादुर्गा वायव्यां बगलामुखी ।
उत्तरस्यां सदा रक्षेत् मातङ्गी राजमातुल ॥ ३५॥
ऐशान्यां पातु मां ब्राह्मी ऊर्ध्वं ब्रह्ममयी परा ।
अधस्तात् पातु मां नित्यं पातालवासिनी शिवा ॥ ३६॥
दिग्विदिक्षु च सर्वत्र सर्वव्यापिनी लेखिनी ।
वज्ररेखापरिघृते रक्षेत् मां कुलमन्दिरे ॥ ३७॥
यन्त्रलेखमहाप्राची मन्त्रकीलनसंस्कृता ।
महापिशाचमन्त्रेभ्यो रक्षेत् मां सर्वदा विभुः ॥ ३८॥
जलमध्ये स्थलमध्ये च रणे राजकुले पथि ।
महाशैलतटे घोरे पातु मां कामरूपिणी ॥ ३९॥
विवादे शास्त्रचर्चायां सभायां शत्रुसङ्कटे ।
दन्तौष्ठकण्ठजिह्वासु पातु मां शारदा स्वयम् ॥ ४०॥
अज्ञानात् ज्ञानतो वाऽपि यत् त्यक्तं कवचे मम ।
तत्स रक्षेत् महादेवी लेखिनी सर्वमङ्गला ॥ ४१॥
पादतलात् शिरो यावत् शिरसः पादतलकम् ।
वज्रकोटिसमं गात्रं पातु देवी निरन्तरम् ॥ ४२॥
कवचस्य फलश्रुतिः
इत्येतत्कवचं दिव्यं वज्रपञ्जरमुत्तमम् ।
गुह्याद्गुह्यतरं तत्त्वं सर्वसौभाग्यदायकम् ॥ १॥
न देयं यस्य कस्यापि गोपितं कुलपुस्तके ।
यः पठेच्छ्रणुयाद्वापि त्रिसन्ध्यं नियतः शुचिः ॥ २॥
तस्य हस्तगता सिद्धिः साक्षाद्वागीश्वरो भवेत् ।
एतन्महाकवचं गुह्यं यो न जानाति मानवः ॥ ३॥
स जपेत् सततं मन्त्रं तस्य मन्त्रो न सिध्यति ।
सारस्वतं महामन्त्रं लेखिनीमन्त्रमुत्तमम् ॥ ४॥
दीक्षितोऽपि कुलाचारे कोटिकल्पैर्न विन्दति ।
कवचेन विना मर्त्यो मन्त्रजाप्यं करोति यः ॥ ५॥
तस्य भाग्यक्षयो याति मन्त्राश्च मलिनास्तथा ।
कोट कल्पं जपेद्वापि श्रम एव हि केवलम् ॥ ६॥
तस्मात्सर्वप्रयत्नेन कवचं प्रपठेत्पुरा ।
पश्चान्मन्त्रं जपेत्प्राज्ञः स साक्षाद् भैरवो भवेत् ॥ ७॥
रक्षाकामो महामर्त्यो यः कश्चिद् भुवि वर्तते ।
तेन न गन्तव्यं क्वापि कवचेन विना पदम् ॥ ८॥
न पदैकं प्रगच्छेच्च न च गच्छेत् कदाचन ।
विना कवचपाठात्तु मार्गं नैव प्रविशेत् पुमान् ॥ ९॥
यदि गच्छेत् प्रमादेन मन्दबुद्धिः विमोहितः ।
तदैव तस्य विघ्नानि जायन्ते सर्वतोमुखम् ॥ १०॥
भूतप्रेतपिशाचाश्च डाकिन्यो यातुधानाः ।
रिपवः शस्त्रहस्ताश्च तं हिंसन्ति पदे पदे ॥ ११॥
तस्माद् गृहाद् विनिष्क्रान्ते कवचं धारयेत् पठेत् ।
तस्य पादयुगे नित्यं रक्षा तिष्ठति सर्वदा ॥ १२॥
षण्मासधारनादस्य वज्रकायो भवेन्नरः ।
न शस्त्रैर्भिद्यते गात्रं न चाग्निर्दहते कचित् ॥ १३॥
विषं स्थावरजङ्गमं कृत्रिमं चाभिचारिकम् ।
प्रशाम्येदमृतं याति कवचस्य प्रभावतः ॥ १४॥
यः पठेत् परमं दिव्यं स वशं नयते जगत् ।
राजानो राजपुत्राश्च नार्यश्च कुलजास्तथा ॥ १५॥
तस्याधीना भवन्त्येव दासभूता निरन्तरम् ।
महोत्पाते च दुर्भिक्षे श्मशाने सङ्कटे तथा ॥ १६॥
कवचं संस्मरन् मर्त्यो ह्यक्षतो विजयान्वितः ।
लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिण भुजे ॥ १७॥
तस्य गेहे स्थिरा लक्ष्मीः वाणी च वदने वसेत् ।
इति ते कथितं गर्भ परकृष्णरहस्यकम् ॥ १८॥
भाग्यरेखाविशोधनं सर्वकारणकारणम् ।
न कालो बाधते तस्य न मृत्युः प्रभवत्यपि ॥ १९॥
चिन्मयः सुभगो लोके महाकीर्तिसमन्वितः ।
सर्वमार्गेषु मां पातु परकृष्णो जगन्मयः ॥ २०॥
इति सर्वसौभाग्यदायकं वज्रपञ्जरं ब्रह्मलेखिनीकवचम् सम्पूर्णम् ।
Encoded and proofread by Durga Sharma