ब्रह्मप्रोक्तं योगमायास्तोत्रम् २
ब्रह्मोवाच ।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ।
विष्णौ गते भगवति यदकार्षमहं खलु ॥ २॥
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ।
स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३॥
सर्वत्र व्यापिनीं नित्यां निरालम्बां निराकुलाम् ।
त्रिदेवजननीं वन्दे स्थूलस्थूलामरूपिणीम् ॥ ४॥
त्वं चितिः परमानन्दा परमात्मस्वरूपिणी ।
प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५॥
ब्रह्मोवाच ।
एवं संस्तूयमाना सा योगनिद्रा मया मुने ।
आविर्बभूव प्रत्यक्षं देवर्षे चण्डिका मम ॥ ६॥
स्निग्धाञ्जनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ।
सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७॥
शरदिन्द्वानना शुभ्रचन्द्रभाला त्रिलोचना ।
सर्वावयवरम्या च कमलाङ्घ्रिनखद्युतिः ॥ ८॥
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ।
भक्त्या विनततुङ्गांशः प्रास्तवं सुप्रणम्य वै ॥ ९॥
ब्रह्मोवाच ।
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ।
चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ॥ २.११.१०॥
या श्रीः सदा केशवमूर्तिमाला विश्वम्भरा या सकलं बिभर्ति ।
या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्यः ॥ ११॥
या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ।
यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ॥ १२॥
प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलम्बा ।
कूटस्थमव्यक्तमनन्तरूपं त्वं बिभ्रती कालमयी जगन्ति ॥ १३॥
विकारबीजं प्रकरोषि नित्यं गुणान्विता सर्वजनेषु नूनम् ।
त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ॥ १४॥
सत्त्वं रजस्तामस इत्यमीषां विकारहीना समुवस्तितीर्या ।
सा त्वं गुणानां जगदेकहेतुं ब्रह्मान्तरा रम्भसि चात्सि पासि ॥ १५॥
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।
जगद्धिताय सततं शिवपत्नि नमोऽस्तु ते ॥ १६॥
इति शिवपुराणे रुद्रसंहितायां सतीखण्डे
एकादशाध्यायान्तर्गतं ब्रह्मप्रोक्तं
योगमायास्तोत्रं समाप्तम् ।
शिवपुराण । रुद्रसंहिता । सतीखण्ड । अध्याय ११/३-५, १०-१६॥
shivapurANa . rudrasaMhitA . satIkhaNDa . adhyAya 11/3-5, 10-16..
Proofread by PSA Easwaran