॥ चण्डीकुचपञ्चाशिकास्तोत्रम् ॥

श्रीगणेशाय नमः ॥ श्रियं नौमि देवीं परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ १॥ आशादासीभिरूर्ध्वं करविधृतचतुष्कोणभागाभखण्डैः खण्डैराढ्या पटानां विधुरविघटिता शुष्कतावासयेया । स्वात्मानाधः पतन्तीं सजवमसकृदाकर्षणक्लान्तिपङ्कि- श्वासोच्छ्वासौघपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥ २॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थं तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी त्रैकालिकं यदिति तन्मह आद्यमीडे ॥ ३॥ मध्ये पीयूषसिन्धोर्धनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवर्ण्या । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्यर्णवाणीं तूर्णं चिन्तामणेर्मामपि सदसि सदाऽऽश्लिष्य सिंहासनेऽस्ति ॥ ४॥ वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मस्वाराट्पिकाल्याभ्रगुणा विभाति ॥ ५॥ यत्रोदग्रहरिन्मणिप्रविलसत्सौधाङ्कुराणां गणै- रुद्गीर्णैर्निजगर्भतश्च चणकैः साम्यं गतानां नवैः । रुद्गीर्णैर्निज मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्पपात हृदये सारङ्ग एतन्मुधा ॥ ६॥ पादारविन्दस्य पुरन्दरोऽपि सेवां विधाताऽस्म्यहमेव देव्याः । नार्हस्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७॥ बिडौजसि पदाम्बुजे निबिडतेजसि त्र्यम्बकस्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकार्मीणके जयाम्ब जगदम्बिके जय जयेति यत्र ध्वनिः ॥ ८॥ तत्रैकदा निखिललोकचरित्रविद्भिः सम्प्रार्थिता भगवती प्रणिधीनवर्गैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्मद्- दृग्यायिनः कविवरस्य कृतेर्विचित्रम् ॥ ९॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची- सारप्रसारवचसां प्रमुखः कवीनाम् । यत्काव्यमन्यकवितां विधुनोति जीर्णां जायामिवाभिनवमुग्धवधूस्तनश्रीः ॥ १०॥ असह्यभरसह्यभूधरमणौ महाराष्ट्रके महाबलजटाढ्यनिष्प्रथितकृष्णवेणी धुनी । तदम्बुलहरीप्लुता जयति वाजिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्त्या स्वया ॥ ११॥ वेणीमाधव एव यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः । अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगोपाह्वो यः किल राजते चरणयोर्देव्या भवान्याः स्वयम् ॥ १२॥ यस्य गुरुर्यो जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३॥ स त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसन्दोहद- स्यन्दन्मञ्जुमरन्दसुन्दरमधुव्यालोलरोलम्बकः । सत्पोतेतरताविनीतवनितासम्भोगशून्यः पुन- र्योऽसौ सम्प्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४॥ तस्यैव चेत्किमपि काव्यमकव्ययेच्छो- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न कयापि न मृद्विकासः ॥ १५॥ श्रुत्वाऽऽदेशं दूतवर्गैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा स्वामिनीपादपद्मे कर्त्रेत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६॥ सावधाना ततो देवी काव्यश्रवणकर्मणि । जातेत्यालोच्य सहगवर्गैः काव्यं प्रवर्ण्यते ॥ १७॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ १८॥ प्रालेयशैलजनुषः सुहिरण्यवल्ल्या गौर्याः पयोधरविचित्रफलं पिबामि । यत्स्पर्शनादपि बभूव स शूलिनोऽपि मृत्युञ्जयत्वविभवैकपदेऽभिषेकः ॥ १९॥ कल्याणावलिमातनोतु नितरां कर्पूरपूराधिक- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली- बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नटः ॥ २०॥ आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुचद्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्मुखेन्द्वङ्कितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि प्रारूढं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ष्यया ॥ २१॥ प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच- प्रान्तोत्तुङ्गपटीरपङ्कमदनीमीनैकमुद्राङ्कुरः । यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितस्वेदतो यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरार्तोऽभवत् ॥ २२॥ शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका- काश्मीरत्रितयावलेपरचनाचातुर्यचर्यावतात् । यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्चिरम् ॥ २३॥ नित्यं पायादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला । चण्ड्या मे नाथचेतोविहरणनिपुणेतीर्ष्यया तत्र बद्धां गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ २४॥ नुमोऽपर्णाऽऽरामस्थलहृदयकासारतटग- प्रवल्गद्वक्षोजच्छलमिलितचक्राह्वयुगलम् । दरालोकाच्छम्भोः शिशिरशशिरेखानखगता स्मरन्ती सापत्न्यं व्यथयति नितान्तं यदिह सा ॥ २५॥ वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाब्जद्वयं दुग्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् । नित्यास्येन्दुविकासनान्मुकुलितं षड्वक्त्रवक्त्राम्बुजैः पीतं किं किमितीश्वरस्य मनसो येनाभवद्विस्मयः ॥ २६॥ मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लसन्- मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला । यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभवत् पायात्सा निखिलां हि विष्टपलतां संसारझञ्झानिलात् ॥ २७॥ तुषारगिरिकन्यकाकुचतटीपटीराटवी विपाटयतु कङ्कटोद्भवकठोरतापं हि सा । यदीयदरदर्शनादपि गरप्रलीढो हरः सुखेन घनसारविस्मररिपुर्महोग्रः शिवः ॥ २८॥ रचयतु शिवं वक्षोजन्मद्वयं द्रुहिणोज्ज्वलत्- कनककलशत्विढ्बीजं तभिशुम्भरिपोश्चिरम् । तदपि च मुहुर्दर्शं दर्शं कपालिकरोच्छ्रित- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ २९॥ दूरीकरोतु दुरितानि पुरारिदारवक्षोजशैलमिथुनं जितमन्दराद्रि । येनाभवद्भवमनोऽर्णवतः प्रमोदपीयूषमत्र हुतमन्मथजीवनाय ॥ ३०॥ अपारां सम्पत्तिं दिशतु कुचरत्नक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् । यदीये मूर्घ्नि श्रीगलकरनखालिद्युतिभर- स्फुरद्गङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१॥ तं कासरासुरविमर्दसमुत्थशोण- शोणार्द्रशोणितकणं स्तनमम्बिकायाः । वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छम्भुहृद्यपि कटं स्मरणीबभूव ॥ ३२॥ उद्दामद्विपकुम्भदर्पदमनं प्रालेयशैलाङ्गजा- वक्षोजद्वयमत्र भद्रमनिशं धत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखरश्रेणीसृणिस्थापन- प्रद्योतपृथुभाजनं समभवत्पुष्पायुधायोधने ॥ ३३॥ सौवर्णाचलसानुसम्मितकुचद्वन्द्वं भवान्याः स्तुमः सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायितम् । ईशो नैजकरोरुभूषणगणं मत्वेति भूयस्तरा- मादातुं यतते यदीयशिखरप्राग्भारपाणिभ्रमः ॥ ३४॥ मालूरद्रुफलप्रदर्पशमनं प्रालेयभूमीधर- प्रत्युप्तप्रतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् । यद्भोगैकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ॥ ३५॥ दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतात्संसारतापाद्द्रुतम् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत् ॥ ३६॥ स्मरारातेः स्वान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थस्तद्दहननयनाब्जं मुकुलयन् । दधच्चूचं लक्ष्म प्रकटयति चक्राह्वयुगलं निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ ३७॥ प्रालेयाचलकन्यकाकुचतटीपाटीरमोट्टायितां पापाटोपकठोरकष्टपटलान्यापाटयन्तीं स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठद्- व्यालालीवलयावलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८॥ मातः पर्यभिवादये सुरपुरोद्यानान्तरालोल्लसद्- भूजन्यप्रसवासवावसथमुद्वक्षोजकोषद्वयम् । यस्यान्तः परमेश्वरस्य करतः सम्मर्दनव्यापृतौ भूतिः सङ्क्षरति क्षपापरिवृढार्भप्रेढ्यचूडामणेः ॥ ३९॥ परिधीमहिते कुचस्थलीं मणिकान्तिद्युनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डलीं निजमौलौ विनिधाय या स्थिता ॥ ४०॥ मातुर्नौमि पयोधरौ त्रिजगतामारम्भकुभौ शुभौ भावत्कौ भुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ । यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ षड्वक्त्रद्विरदाननाननवनोज्जन्माभिलीढौ चिरम् ॥ ४१॥ वक्षःपीठे पटाढ्यं स्मितविबुधधुनीनिर्झरैश्चाभिषिक्तं मातर्वक्षोजराजं श्रितपविमणिरुक्चामरं ते नमामि । छत्रं क्षीरं पिपासोर्निटिलशशिकलां यत्र पुत्रस्य मत्वा दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ॥ ४२॥ पटासक्तं वक्षोजनियुगमपूर्वं गिरिपतेः सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति । यदुत्तुङ्गोत्सङ्गे मृगधरधराक्षानुसरणं कराब्जव्यापारैः सममनिशमुन्मूलतितराम् ॥ ४३॥ धयत्येतौ धाता जगदखिलमेतद्रचयितुं तथा पातुं विष्णुः पिबति हरजाये तव कुचौ । इति प्रेक्षं प्रेक्षं स्वयमपि हरो मर्दयति तौ जगत्सम्मर्दायाभ्यसति किमु विद्यामभिनवाम् ॥ ४४॥ भवेतां क्षेमाय स्मरहरवधूरोजकरिणौ ययोरेका रोमावलिकपटशुण्डाद्भुतकरी । महादेवस्वान्तप्रचुरतरकासारगतया यया तद्व्यापाराम्बुजमपहृतं क्रीडनविधौ ॥ ४५॥ उदञ्चन्तौ मातस्तव कुचहरी हृद्दरिमुखात् कुरङ्गानां तारौ शिवहृदटवीसीमनिहताम् । निहत्यैनःश्रेणीमददुरधिरोहद्विपपतिं प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ ४६॥ तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणावहं ध्याये मातर्दितिजतृणराश्यद्मरवरौ । विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं ययोरस्ति स्माराभिधशबरधाटीव्यतिकरे ॥ ४७॥ दृढं कूर्पासेन प्रतिपिहितमुर्वीधरसुते भवानि त्वद्वक्षोरुहयुगलमीडे तदनिशम् । स्मरन्तं वैरं तं स्मरमपरमासाद्य सुहृदं स्थितं संलीयेति व्यथयति हरो यत्पटगृहे ॥ ४८॥ वक्षस्तरक्षुवरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्य मनसस्तव रूपमेवे- त्याकल्पकल्पनमभूत् प्रविलोकनेन ॥ ४९॥ घनं वक्षोजं ते नवनवहिरण्याकृतिधरं नुमस्तं प्रह्लादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुपमनखालिव्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ॥ ५०॥ वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शम्भुहृदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णं कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ॥ ५१॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववर्त्मस्थितम् । विकासयति सन्ततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ॥ ५२॥ स्मरान्तकरवल्लभे तव पयोधरश्रीफलद्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोधयन् स्मृतभवत्कुचश्रीः स्वयं समुद्रमथने पपावपि गरं हरः श्रीफलः ॥ ५३॥ स्मृता तव कुचद्वयी तुहिनशैलबाले हर- त्यसावघभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली धुवम् ॥ ५४॥ उच्चैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोगं भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः । यद्दीक्षाभिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ॥ ५५॥ वक्षःस्थं दितिजरिपोस्तवाभिवन्दे तारुण्योदधिजमुरोजकौस्तुभं तम् । यत्स्थाने स्मरजनकं महो हि किञ्चित् सम्मोहं सपदि महेशितुश्चकार ॥ ५६॥ तारुण्याम्भोधिजन्मा दलितसुमकरः कामदस्रे प्रकामं कामं यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः । दैत्यव्रातातपघ्नः पदगतजगतीं छायया स्वै रसौघै रक्षंस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ॥ ५७॥ मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्रं तव प्रौढोल्लासमखण्डितं पशुजनुःपाशच्छिदं सुन्दरि । यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः शम्भोर्मुग्धमभूद्बभूवतुरहो व्याघूर्णिते च क्षणात् ॥ ५८॥ शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्तिं क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरिं ते । यस्योपास्तिप्रभावात्पितृगहनगतो वासुकिं कालकूटं कण्ठे बिभ्रच्च शूली नयनगहुतभुक्सोऽपि मृत्युञ्जयोऽभूत् ॥ ५९॥ चञ्चन्नीलाभचोलीसलिलदपटलीलीनमम्लानमाला- लोलाल्पाङ्कं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् । यस्यालोकैर्विनिद्रं भवति भवमनःकैरवं हर्षितं च क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः ॥ ६०॥ क्षीराशसंसकलकामदमावके ते वक्षोजनुः सुरभिरूपमकं निहन्तु । यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या वत्सा रसस्थरसनावसनैर्विरेजुः ॥ ६१॥ विचित्रालेखाढ्यं समरदसुचातुर्यकलितं दधे मातस्तं ते हृदि हृदयजैरावणमहम् । यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः- सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६२॥ भगवति तव वक्षोजन्मरम्भास्वरूपं शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन । दिशतु मम शिवं तन्नृत्यतीशस्य चेतः कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ ६३॥ उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् । पयः पातुं श्लिष्टद्विरदमुखषड्वक्त्रवदना- न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ॥ ६४॥ दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् । यदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ष्ययावतस्थे ॥ ६५॥ कर्पूरकुङ्कुमसुनाभिजचित्रलेखं मन्ये कुचं वलयितं जननीन्द्रचापम् । यस्योद्भवे स्मररिपोः प्रववर्ष शम्भो- रानन्दजाश्रुसलिलं नयनाम्बुवाहः ॥ ६६॥ शर्वाणि ते तरुणिमोद्गमसिन्धुजातं मन्ये कुचं दरमहं वृजिनावलिघ्नम् । यं कुर्वतो निजकरे शशिशेखरस्य जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ ६७॥ धराधरसुते सुतत्रिदशपेयमाशास्महे तव स्तनजनुःसुधारसमसारसंसारहम् । स्मरामि नयनोज्ज्वलज्ज्वलनजालदग्धोऽप्यसा- वनङ्ग इह यत्पदे कृतपदेन सञ्जीवितः ॥ ६८॥ अलमलममलोहैः श्लोकजालैः कवेस्तैः यदिदमखिलमेतैः क्रीतमेवास्मदीयम् । पुनरपि यदि चैवं वर्ण्यते तर्ह्यहं स्यां तदपि भवतु चेत्किं पारितोषीयमस्य ॥ ६९॥ इत्याकर्ण्य वचो विचार्य च चमत्काराञ्चितं चेतसि श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् । भूयः किञ्चिदुदञ्चितस्तबकया वाचेदमन्विष्यते यच्चोक्तं किल पारितोषिकमिति स्यात्किं तदुक्तं वद ॥ ७०॥ स्तोत्रं गृहीतमनघं स्तनपाललक्ष्म्या शुल्कं मदीयमखिलं हि मयास्य दत्त्वा । शिष्टाहमस्मि मदभेदमनर्घमेतं दास्यामि तस्य परितोषणिकं सुखेन ॥ ७१॥ एतदेव कविराजमानसे काङ्क्षितं लसति सन्ततं किल । अन्यदेकमपि दीयते स्वतः भूयतामनुचरेश्वराः स्फुटम् ॥ ७२॥ इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् । कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ लभेत किल वाञ्छितं सहृदि सुन्दरीणां स्मरः ॥ ७३॥ मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः । अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा- जटालहृदयान्तरः सदसि संस्थितो राजते ॥ ७४॥ यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्याः स्तोत्रं पठेच्च किल संशृणुयात्सलोकः । गीर्वाणवामनयनानयनारविन्द- जालप्रभासरणिकज्जलतामुपैति ॥ ७५॥ पृथिव्यां भूपालो भवति नववामोरुनयन- प्रफुल्लाम्भोजन्मद्युमणिरपि वाचा सुरगुरुः । निरस्तप्रोच्चण्डाखिलरिपुगणो मत्कुचतटी- स्तवं कुर्वन्नित्यं जयति निजलक्ष्म्यापि धनदम् ॥ ७६॥ यश्चित्ते मम कुचसंस्तवं दधाति प्रावीण्यं सकलकलासु सोऽयमेति । आम्नायस्मरणमपीह मामकीने पादाम्भोरुहयुगले लभेत भक्तिम् ॥ ७७॥ रमापि सदने सदा कृतपदा मुदा दासवद्- रिपुर्भवति मित्रवद्युवतिसङ्गमो मोक्षवत् । अवागपि कवीशवद्भवति पातकं पुण्यवद्- यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८॥ चण्डीकुचपञ्चाशत्संज्ञमिमं यः स्तवं नवं पठति । स नरो न पुनर्जनुषे भवति हि निःश्रेयसाय मे दयया ॥ ७९॥ तथाऽस्तु किल तत्परं तव जयन्तु मातः प्रभो पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् । यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत- स्ततः स भवता न किं जगति मुक्तिकान्तापतिः ॥ ८०॥ इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता- दम्बापदाम्बुजनिता मकरन्दधारा । या स्यन्दिता शिरसि मे कविलक्ष्मणस्य स्वप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८१॥ यावच्छिवार्धगतमस्ति वपुस्त्वदीयं यावत्त्वदङ्घ्रिकमलं च पुनाति विश्वम् । तावत्तवाम्ब चरणाम्बुजयोर्निपत्य याचे त्वहं किमपि यः शयनोत्थितस्त्वाम् ॥ ८२॥ वाक्कायचित्तप्रकृतिस्वभावबुद्ध्यात्मभिः सदसतोरपि सङ्गमेन । यद्यत्कृतं यदपि भाव्यमशेषमातर्यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ॥ ८३॥ इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनामकवेणीमाधवाचार्यसुत- रसालङ्कारपारावारपारीणलक्ष्मणाचार्यकृता श्रीचण्डीकुचपञ्चाशिकास्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : chaNDIkuchapanchAshikAstotram
% File name             : chaNDIkuchapanchAshikAstotram.itx
% itxtitle              : chaNDIkuchapanchAshikAstotram (lakShmaNAchAryakRitA)
% engtitle              : chaNDIkuchapanchAshikAstotram
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Author                : lakShmaNAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 23, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP