चण्डिकादण्डकस्तोत्रम्
ॐ नमः श्रीचण्डिकायै ऊं ऊं ऊं उग्रचण्डं चचकितचकितं चञ्चरा(ला)
दुर्गनेत्रं हूं हूं हूङ्काररूपं प्रहसितवदनं खङ्गपाशान् धरन्तम् ।
दं दं दं दण्डपाणिं डमरुडिमिडिमां डण्डमानं भ्रमन्तं
भ्रं भ्रं भ्रं भ्रान्तनेत्रं जयतु विजयते सिद्धिचण्डी नमस्ते ॥ १॥
घ्रं घ्रं घ्रं घोररूपं घुघुरितघुरितं घर्घरीनादघोषं
हुं हुं हुं हास्यरूपं त्रिभुवनधरितं खेचरं क्षेत्रपालम् ।
भ्रूं भ्रूं भ्रूं भूतनाथं सकलजनहितं तस्य देहा (?) पिशाचं
हूं हूं हूङ्कारनादैः सकलभयहरं सिद्धिचण्डी नमस्ते ॥ २॥
व्रं व्रं व्रं व्योमघोरं भ्रमति भुवनतः सप्तपातालतालं
क्रं क्रं क्रं कामरूपं धधकितधकितं तस्य हस्ते त्रिशूलम् ।
द्रुं द्रुं द्रुं दुर्गरूपं भ्रमति च चरितं तस्य देहस्वरूपं
मं मं मं मन्त्रसिद्धं सकलभयहरं सिद्धिचण्डी नमस्ते ॥ ३॥
झं झं झङ्काररूपं झमति झमझमा झञ्झमाना समन्तात्
कं कं कङ्कालधारी धुधुरितधुरितं धुन्धुमारी कुमारी ।
धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपास्त्रिशूलं
तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते ॥ ४॥
रं रं रं रायरुद्रं रुरुधितरुधितं दीर्घजिह्वाकरालं
पं पं पं प्रेतरूपं समयविजयिनं सुम्भदम्भे निसुम्भे ।
सङ्ग्रामे प्रीतियाते जयतु विजयते सृष्टिसंहारकारी
ह्रीं ह्रीं ह्रीङ्कारनादे भवभयहरणं सिद्धिचण्डी नमस्ते ॥ ५॥
हूङ्कारी कालरूपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे
हूङ्कारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे ।
पङ्के जाताभिजाते चुरु चुरु चुरुते कामिनी काण्डकण्ठे
कङ्काली कालरात्री भगवति वरदे सिद्धिचण्डी नमस्ते ॥ ६॥
ष्ट्रीं ष्ट्रीं ष्ट्रीङ्कारनादे त्रिभुवननमिते घोरघोरातिघोरं
कं कं कं कालरूपं घुघुरितघुरितं घुं घुमा बिन्दुरूपी ।
धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपाशत्रिशूलं
तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते ॥ ७॥
झ्रीं झ्रीं झ्रीङ्कारवृन्दे प्रचरितमहसा वामहस्ते कप्ःलं
खं खं खं खङ्गहस्ते डमरुडिमडिमां मुण्डमालासुशोभाम् ।
रुं रुं रुं रुद्रमालाभरणविभूषिता दिर्घजिह्वा कराला
देवि श्री उग्रचण्डी भगवति वरदे सिद्धिचण्डी नमस्ते ॥ ८॥
आरुणवर्णसङ्काशा खड्गफेटकबिन्दुका ।
कामरूपी महादेवी उग्रचण्डी नमोऽस्तुते ॥ ९॥
इति श्री चण्डिकादण्डकस्तोत्रं सम्पूर्णम् ॥