श्रीचन्द्रघण्टाष्टकम्
चन्द्रघण्टां नमस्यामि सिंहारूढां शिवां शुभाम् ।
दिव्यरूपां त्रिनेत्रां च भक्ताभीष्टप्रदायिनीम् ॥ १॥
अर्धचन्द्रलसत्फालां घण्टानादनिनादिनीम् ।
धनुर्बाणधरां देवीं वन्दे भक्तहितैषिणीम् ॥ २॥
शङ्खचक्रगदाहस्तां खड्गत्रिशूलधारिणीम् ।
तृतीयां च महादेवीं वन्दे जगतः मातरम् ॥ ३॥
स्वर्णवर्णां महादेवीं दिव्यभूषणभूषिताम् ।
सिंहवाहां महारौद्रीं ध्यायामि परमेश्वरीम् ॥ ४॥
घण्टानादेन दुष्टानां बलं नाशनतत्पराम् ।
साधूनां पालयन्तीं तां वन्दे भक्तार्तिनाशिनीम् ॥ ५॥
शौर्यधैर्यप्रदां देवीं सर्वसङ्कटहारिणीम् ।
शरणागतपालां तां प्रणमामि मुहुर्मुहुः ॥ ६॥
यस्याः स्मरणमात्रेण नश्यन्ति भयविप्लवाः ।
शान्तिः पुष्टिश्च जायेत चन्द्रघण्टां भजामि ताम् ॥ ७॥
सुवर्णकान्तिसम्पन्नां करुणारसपूरिताम् ।
प्रसन्नवदनां नित्यं ध्यायामि परमेश्वरीम् ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीचन्द्रघण्टाष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com