दक्षिणास्तोत्रम्
यज्ञपुरुष उवाच
पुरा गोलोकगोपी त्वं गोपीनां प्रवरा परा ।
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ॥ १॥
कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ।
आविर्भूता दक्षिणांशात्कृष्णस्य तेन दक्षिणा ॥ २॥
पुरा त्वं हि सुशीलाऽऽख्या शीलेन शोभनेन च ।
कृष्णदक्षांशवासाच्च राधाशापाच्च दक्षिणा ॥ ३॥
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ।
कृपां कुरु त्वमेवाद्य स्वामिनं कुरु मां प्रिये ॥ ४॥
कर्मिणां कर्मणां देवी त्वमेव फलदा सदा ।
त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् ॥ ५॥
फलशाखाविहीनश्च यथा वृक्षो महीतले ।
त्वया विना तथा कर्म कर्मिणां च न शोभते ॥ ६॥
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७॥
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ८॥
फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः ।
स्वयं कृष्णश्च भगवान्न च शक्तस्त्वया विना ॥ ९॥
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ १०॥
इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः ।
तुष्टा बभूव सा देवी भजे तं कमला कला ॥ ११॥
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।
फलं च सर्वयज्ञानां लभते नात्र संशयः ॥ १२॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
यज्ञपुरुषकृतं दक्षिणास्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran