दक्षिणकालिकाकवचम् १

दक्षिणकालिकाकवचम् १

(श्यामारहस्ये) भैरव उवाच । कालिकाकवचस्य भैरव ऋषिरुष्णिक्छन्दः अद्वैतरूपिणी श्रीदक्षिणकालिका देवता ह्रीं बीजं हुं शक्तिः क्रीं कीलकं सर्वार्थसाधनपुरःसरमन्त्रसिद्धौ विनियोगः ॥ सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ १॥ वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु । परमेशः पुरः पातु परापरगुरुस्तथा ॥ २॥ परमेष्ठी गुरुः पातु दिव्यसिद्धिश्च मानवः । महादेवी सदा पातु महादेवः सदावतु ॥ ३॥ त्रिपुरो भैरवः पातु दिव्यरूपधरः सदा । ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु । चलचित्तः सदा पातु चेलाञ्चलश्च पातु माम् ॥ ४॥ कुमारः क्रोधनश्चैव वरदः स्मरदीपनः । माया मायावती चैव सिद्धौघाः पान्तु सर्वदा ॥ ५॥ विमलः कुशलश्चैव भीमसेनः सुधाकरः । मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥ ६॥ कुलदेवो रन्तिदेवो विघ्नेश्वरहुताशनः । सन्तोषः समयानन्दः पातु मां मानवासदा ॥ ७॥ सर्वेऽप्यानन्दनाथान्ताः अम्बान्ता मातरः क्रमात् । गणनाथः सदा पातु भैरवः पातु मां सदा ॥ ८॥ वटुको नः सदा पातुं दुर्गा मां परिरक्षतु । शिरसः पादपर्य्यन्तं पातु मां घोरदक्षिणा ॥ ९॥ तथा शिरसि मां काली हृदि मूले च रक्षतु । सम्पूर्णविद्यया देवी सदा सर्वत्र रक्षतु ॥ १०॥ क्रीं क्रीं क्रीं वदने पातु हृदि हुं हुं सदावतु । ह्रीं ह्रीं पातु सदाधारे दक्षिणे कालिके हृदि ॥ ११॥ क्रीं क्रीं क्रीं पातु मे पूर्वे हुं हुं दक्षे सदावतु । ह्रीं ह्रीं मां पश्चिमे पातु हुं हुं पातु सदोत्तरे ॥ १२॥ पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु । षडङ्गे युक्तौ पातु षडङ्गेषु सदैव माम् ॥ १३॥ मन्त्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक्स्थितः । चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥ १४॥ उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके । नीला घना बलाका च तथापरत्रिकोणके ॥ १५॥ मात्रा मुद्रामिता चैव तथा मध्यत्रिकोणके । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥ १६॥ वहिः षट्कोणके पान्तु विप्रचित्ता तथा प्रिये । सर्वाः श्यामाः खड्गधरा वामहस्तेन तर्जनाः ॥ १७॥ ब्राह्मी पूर्वदले पातु नारायणौ तथाग्निके । माहेश्वरी दक्षदले चामुण्डा राक्षसेऽवतु ॥ १८॥ कौमारी पश्चिमे पातु वायव्ये चापराजिता । वाराही चोत्तरे पातु नारसिंहीं शिवेऽवतु ॥ १९॥ ऐं ह्रीं असिताङ्गः पूर्वे भैरवः परिरक्षतु । ऐं ह्रीं रुरुश्चाग्निकोणे ऐं ह्रीं चण्डस्तु दक्षिणे ॥ २०॥ ऐं ह्रीं क्रोधो नैरॄतेऽव्यात् ऐं ह्रीं उन्मत्तकस्तथा । पश्चिमे ऐं ह्रीं मां कपाली वायुकोणके ॥ २१॥ ऐं ह्रीं भीषणाख्यश्च उत्तरेऽवतु भैरवः । ऐं ह्रीं संहार ऐशान्यां मातॄणामङ्कगाः शिवाः ॥ २२॥ ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् । ऐं त्रिपुरान्तको वटुक आग्नेय्यां सर्वदाऽवतु ॥ २३॥ ऐं वह्निवेतालो वटुको दक्षिणे मां सदाऽवतु । ऐं अग्निजिह्ववटुकोऽव्यात् नैरॄत्यां पश्चिमे तथा ॥ २४॥ ऐं कालवटुकः पातु ऐं करालवटुकस्तथा । वायव्यां ऐं एकः पातु उत्तरे वटुकोऽवतु ॥ २५॥ ऐं भौमवटुकः पातु ऐशान्यां दिशि मां सदा । ऐं ह्रीं ह्रीं हुं फट् स्वाहान्ताश्चतुःषष्टिमातरः ॥ २६॥ ऊर्द्धवाधो दशवामाग्रे पृष्ठदेशे तु पातु माम् । ऐं हुं सिंहव्याघ्रमुखी पूर्वे मां परिरक्षतु ॥ २७॥ ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु । ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥ २८॥ ऐं चौं चौं गजराजमुखी नैरॄत्यां मां सदाऽवतु । ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥ २९॥ ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु । ऐं हां हां ह्रस्वदीर्घमुखी लम्बोदरमहोदरी ॥ ३०॥ पातु मामुत्तरे कोणे ऐं ह्रीं ह्रीं शिवकोणके । ह्रस्वजङ्घतालजङ्घप्रलम्बौष्ठी सदाऽवतु ॥ ३१॥ एताः श्मशानवासिन्यो भीषणा विकृताननाः । पातु मां सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥ ३२॥ इन्द्रो मां पूर्वतो रक्षेदाग्नेय्यामग्निदेवता । दक्षे यमः सदा पातु नैरॄत्यां नैरॄतिश्च माम् ॥ ३३॥ वरुणोऽवतु मां पश्चात् वायुर्मां वायवेऽवतु । कुवेरश्चोत्तरेपायात् ऐशान्यान्तु सदाशिवः ॥ ३४॥ ऊर्ध्वं ब्रह्मा सदा पातु अधश्मानन्तदेवता । पूर्वादिदिक्स्थिताः पान्तु वज्राद्याश्चायुधाश्च माम् ॥ ३५॥ कालिकाऽवतु शिरसि हृदय कालिकाऽवतु । आधारे कालिका पातु पादयोः कालिकाऽवतु ॥ ३६॥ दिक्षु मां कालिका पातु विदिक्षु कालिकाऽवतु । ऊर्द्धवं में कालिका पातु अधश्च कालिकाऽवतु ॥ ३७॥ चर्मासृङ्मांसमेदोऽस्थिमज्जाशूक्राणि मेऽवतु । इन्द्रियाणि मनश्चैव देहं सिद्धिञ्च मेऽवतु ॥ ३८॥ आकेशात् पादपर्यन्तं कालिका में सदाऽवतु । वियति कालिका पातु पथि मां कालिकाऽवतु ॥ ३९॥ शयने कालिका पातु सर्वकार्येषु कालिका । पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥ ४०॥ इति श्यामारहस्यवर्णितं उत्तरतन्त्रे कालीभैरवसंवादे श्रीमद्दक्षिणकालिकाकवचं सम्पूर्णम् । - ॥ श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥ - .. shyAmArahasyam . chaturthaH parichChedaH .. Notes: The Core Kavacham is mentioned on this webpage. The application methods of the kavacham are detailed further in the source text. Encoded and proofread by Ruma Dewan
% Text title            : Dakshinakalika Kavacham 1
% File name             : dakShiNakAlikAkavacham1.itx
% itxtitle              : dakShiNakAlikAkavacham 1 (shyAmArahasyAntargatam sahasrAre mahApadme karpUradhavalo guruH)
% engtitle              : dakShiNakAlikAkavacham 1 (from shyAmArahasya)
% Category              : devii, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shyAmArahasyam | chaturthaH parichChedaH ||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : March 19, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org