दक्षिणकालिकाकवचम् ३
(श्यामारहस्ये)
भैरव उवाच ।
कालिका या महाविद्या कथिता भुवि दुर्लभा ।
तथापि हृदये शल्यमस्ति देवि ! कृपां कुरु ॥ १॥
कवचन्तु महादेवि ! कथयस्वानुकम्पया ।
यदि नो कथ्यते मातर्विमुञ्चामि तदा तनुम् ॥ २॥
देव्युवाच ।
शङ्कापि जायते वत्स ! तव स्नेहात् प्रकाश्यते ।
न वक्तव्यं न दातव्यमतिगुह्यतरं महत् ॥ १॥
(ॐ) कालिका जगतां माता शोकदुःखविनाशिनी ।
विशेषतः कलियुगे महापातकहारिणी ॥ २॥
कालौ मे पुरतः पातु पृष्ठतश्च कपालिनी ।
कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ३॥
विरोधिनी शिरः पातु विप्रचित्ता च चक्षुषी ।
उग्रा मे नामिकां पातु कर्णौ चोग्रप्रभा तथा ॥ ४॥
वदनं पातु मे दीप्ता नीला च चिबुकं तथा ।
घना ग्रीवां सदा पातु वलाका बाहुयुग्मकम् ॥ ५॥
मात्रा पातु करद्दन्द्वं वक्ष्यो मुद्रा सदावतु ।
मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवताः ॥ ६॥
ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।
ऊरू माहेश्वरी पातु चामुण्डा पातु लिङ्गकम् ॥ ७॥
कौमारी च कटिं पातु जङ्घायुग्मं तथैव च ।
अपराजिता च पादौ मे वाराही पातु चाङ्गुली ॥ ८॥
सन्धिस्थानं नारसिंही पत्रस्था देवताऽवतु ।
रक्षाहीनञ्च यत्स्थानं वर्जितं कवचेन तु ॥ ९॥
तत्सर्वं रक्ष में देवि ! कालिके घोरदक्षिणे ! ।
ऊर्द्ध्वमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १०॥
हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् ।
दक्षिणा कालिका देवी व्यापकं मे सदावतु ॥ ११॥
इदं कवचमज्ञात्वा यो भजेद्घोरदक्षिणाम् ।
न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १२॥
कवचेनावृतो नित्यं यत्र तत्रैव गच्छति ।
तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १३॥
इति श्यामारहस्ये देवीभैरवसंवादे तन्त्रान्तरोक्तं दक्षिणकालिकाकवचं सम्पूर्णम् ।
- ॥ श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥
- .. shyAmArahasyam . chaturthaH parichChedaH ..
Encoded and proofread by Ruma Dewan