दक्षिणकालिकास्तवः

दक्षिणकालिकास्तवः

(श्यामारहस्ये) महाकालभैरव उवाच । स्तवराजं श‍ृणु राम ! सर्वकालमनोहरम् । यस्य स्मरणमात्रेण कालिका सम्प्रसीदति ॥ १॥ यज्ञक्तस्त्वं यदेवासि भृगुवंशसमुद्भव ! । गोपनीयं प्रयत्न एन पठनीयं परात्परम् ॥ २॥ कालीस्तोत्रं मम प्रेयः कस्मैचिन्न प्रकाशितम् । कथ्यते त्वदनुरोधात् सर्वपापप्रणाशनम् ॥ ३॥ श‍ृणु राम ! श‍ृणु राम ! श‍ृणु राम ! सदैव हि । गोपनीयं गोपनीयं गोपनीयं न संशयः ॥ ४॥ अथ स्तोत्रम् । गणरात्रे मुक्तकेशो नग्नः शक्तिसुसङ्गतः । रक्तचन्दनसिन्दूरैस्तथा पञ्चोपचारकैः ॥ १॥ मत्स्यमांससुराद्यैश्च ताम्बूलैश्च विशेषतः । पूजयित्वा महाकालीं महाकालरतातुराम् ॥ २॥ तीर्थपानं विधायादौ ताम्बूलं भक्षयेत्ततः । भगलिङ्गामृतं मध्ये निवेदयेत् सुसाधकः ॥ ३॥ जपित्वा च महामन्त्रं कालीरूपं मनोहरम् । मनसा चिन्तयेत्कालीं पठन् स्तोत्रन्तु साधकः ॥ ४॥ रक्षोयक्षपिशाचेभ्यो नित्यं रक्षाकरं परम् । प्रसन्ना कालिका तस्य पुत्रत्वेनानुकम्पते ॥ ५॥ दक्षिणे कालिके ! मातर्मुण्डमालाविभूषिते ! । भक्तत्राणव्यग्रचित्ते ! यमजाड्यं विनाशय ॥ ६॥ ज्वलच्चिताग्निमध्यस्थे ! परिवारसमन्विते । त्वत्पदाम्भोजमापन्नं रक्ष मां पुत्रवत् सदा ॥ ७॥ महामेघच्छविन्यासे ! मुक्तकेशि ! चतुर्भुजे ! । पाण्डित्यं कविताञ्चैव मह्यं देहि महेश्वरि ! ॥ ८॥ वामोर्द्ध्वे च महाखड्गं विधारयसि शङ्करि ! । अधोलसच्छिन्नमुण्डे ! मम विघ्नं विनाशय ॥ ९॥ अभयं दक्षिणे चोर्द्ध्वे तथाधःपाणिना वरम् । कण्ठसंसक्त मुण्डालि ! महाकालि ! नमोऽस्तु ते ॥ १०॥ फलं - सततं त्वत्स्वरूपं ये स्मरन्ति साधकोत्तमाः । तेषां समस्तशास्त्रेषु गतिरव्याहता सदा ॥ ११॥ चिन्तयामि च त्वन्नाम रक्ष मां सर्वतः सदा । दिगम्बरीं करालास्यां घोरदंष्ट्रां भयानकाम् ॥ १२॥ कर्णमूले शवयुग्मां स्थूलतुङ्गपयोधराम् । महारौद्रीं महाघोरां श्मशानालयवासिनीम् ॥ १३॥ शवपाणिसमूहैश्च कृतकाञ्चीं हसन्मुखीम् । ओष्ठप्रान्तगलद्रक्तधाराविस्फुरिताननाम् ॥ १४॥ मुण्डालीसंस्रवद्रक्तैः सर्वाङ्गे चारुचर्चिताम् । शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ॥ १५॥ पूजाकाले पठेद्यस्तु सद्भावपुलको बुधः । स भवेत्कालिकापुत्र इति ख्यातिमुपागतः ॥ १६॥ रजस्वलाभगं पश्यन् जप्त्वा कालीमहामनुम् । स्तवेनानेन संस्तुत्य साधकः किं न साधयेत् ॥ १४॥ अष्टोत्तरशतञ्जप्त्वा योनिमामन्त्र्य मन्त्रवित् ॥ १५॥ सङ्गम्य पठनादस्य सर्वविद्यश्वरो भवेत् । मातेव दक्षिणा तस्य सर्वत्र हितकारिणी । तस्य देहे सदा काली वसेद्राम ! न संशयः ॥ १६॥ पूजाजपविहीनाय स्त्रीसुरानिन्दकाय च । षण्मार्गस्य रोधकाय गुर्वभक्ताय सर्वदा ॥ १७॥ श‍ृणु वत्स ! प्रयत्नेन स्तवमेनं न दर्शयेत् । प्रमादाद्दर्शनाद्वापि तस्य सिद्धिर्भवेन्न हि ॥ १८॥ इति श्यामारहस्यवर्णितं कालिकापरमरहस्ये कालीहृदये महाकालभैरवपरशुरामसंवादे श्रीदक्षिणकालिकास्तवः सम्पूर्णः । - ॥ श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥ - .. shyAmArahasyam . chaturthaH parichChedaH .. Encoded and proofread by Ruma Dewan
% Text title            : Dakshinakalika Stava
% File name             : dakShiNakAlikAstavaH.itx
% itxtitle              : dakShiNakAlikAstavaH (shyAmArahasyAntargataH)
% engtitle              : dakShiNakAlikAstavaH (from shyAmArahasya)
% Category              : devii, devI, stava
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shyAmArahasyam | chaturthaH parichChedaH || kAlikAparamarahasye kAlIhRidaye
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : March 19, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org