श्रीदक्षिणकालिकात्रिशतीस्तोत्रम्
॥ विनियोगः ॥
अस्य श्रीसर्वमङ्गलविद्याया नाम श्रीदक्षिणकालिकात्रिशतीस्तोत्रमहामन्त्रस्य
श्रीकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणकालिका देवता
ह्रीं बीजं हूं शक्तिः क्रीं कीलकं
श्रीदक्षिणकालिका प्रसादसिद्ध्यर्थे जपे विनियोगः ।
॥ ऋष्यादि न्यासः ॥
श्रीकालभैरवर्षये नमः शिरसि ।
अनुष्टुप् छन्दसे नमो मुखे ।
श्रीदक्षिणकालिकायै देवतायै नमो हृदि ।
ह्रीं बीजाय नमो गुह्ये ।
हूं शक्तये नमः पादयोः ।
क्रीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
॥ करन्यासः ॥
क्रां अङ्गुष्ठाभ्यां नमः । क्रीं तर्जनीभ्यां नमः ।
क्रूं मध्यमाभ्यां नमः । क्रैं अनामिकाभ्यां नमः ।
क्रौं कनिष्ठिकाभ्यां नमः । क्रः करतल करपृष्ठाभ्यां नमः ।
॥ हृदयादि न्यासः ॥
क्रां हृदयाय नमः । क्रीं शिरसे स्वाहा ।
क्रूं शिखायै वषट् । क्रैं कवचाय हुम् ।
क्रौं नेत्रत्रयाय वौषट् । क्रः अस्त्राय फट् ।
॥ ध्यानम् ॥
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ १॥
श्यामाङ्गीं दिग्वसनां शवशिवहृदयस्थां सदा लोलजिह्वां
दोर्दण्डैः क्लुप्तकाञ्चीं विकसितवदनां भीमदंष्ट्रां त्रिनेत्राम् ।
मुण्डस्रग्भूषणां हस्तविधृतवरदाभीतिनिस्त्रिंशमुण्डां
ध्यायेत्प्रेम्णा महाकालरतिपरसुखीं दक्षिणां कालिकां ताम् ॥ २॥
॥ पञ्चोपचार पूजा ॥
लं पृथिव्यात्मने गन्धं कल्पयामि नमः ।
हं आकाशात्मने पुष्पाणि कल्पयामि नमः ।
यं वाय्वात्मने धूपं कल्पयामि नमः ।
रं अग्न्यात्मने दीपं कल्पयामि नमः ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि नमः ।
सं सर्वात्मने सर्वोपचारान् कल्पयामि नमः ।
॥ अथ स्तोत्रम् ॥
॥ क्रीं बीज (१-१०) ॥
क्रीङ्कारी क्रीम्पदाकारा क्रीङ्कारमन्त्रपूरणा ।
क्रींमती क्रीम्पदावासा क्रीम्बीजजपतोषिणी ॥ १॥
क्रीङ्कारसत्त्वा क्रीमात्मा क्रीम्भूषा क्रींमनुस्वराट् ।
क्रीङ्कारगर्भा क्रींसञ्ज्ञा क्रीङ्कारध्येयरूपिणी ॥ २॥
क्रीङ्कारात्तमनुप्रौढा क्रीङ्कारचक्रपूजिता ।
क्रीङ्कारललनानन्दा क्रीङ्कारालापतोषिणी ॥ ३॥
क्रीङ्कलानादबिन्दुस्था क्रीङ्कारचक्रवासिनी ।
क्रीङ्कारलक्ष्मीः क्रींशक्तिः क्रीङ्कारमनुमण्डिता ॥ ४॥
क्रीङ्कारानन्दसर्वस्वा क्रीञ्ज्ञेयलक्ष्यमात्रगा ।
क्रीङ्कारबिन्दुपीठस्था क्रीङ्कारनादमोदिनी ॥ ५॥
क्रीन्तत्त्वज्ञानविज्ञेया क्रीङ्कारयज्ञपालिनी ।
क्रीङ्कारलक्षणानन्दा क्रीङ्कारलयलालसा ॥ ६॥
क्रींमेरुमध्यगास्थाना क्रीङ्काराद्यवरार्णभूः ।
क्रीङ्कारवरिवस्याढ्या क्रीङ्कारगानलोलुपा ॥ ७॥
क्रीङ्कारनादसम्पन्ना क्रीङ्कारैकाक्षरात्मिका ।
क्रीमादिगुणवर्गात्तत्रितयाद्याहुतिप्रिया ॥ ८॥
क्रीङ्क्लिन्नरमणानन्दमहाकालवराङ्गना ।
क्रींलास्यताण्डवानन्दा क्रीङ्कारभोगमोक्षदा ॥ ९॥
क्रीङ्कारयोगिनीसाध्योपास्तिसर्वस्वगोचरा ।
क्रीङ्कारमातृकासिद्धविद्याराज्ञीकलेवरा ॥ १०॥
॥ हूं बीज (११-१७) ॥
हूङ्कारमन्त्रा हूङ्गर्भा हूङ्कारनादगोचरा ।
हूङ्काररूपा हूङ्कारज्ञेया हूङ्कारमातृका ॥ ११॥
हूम्फट्कारमहानादमयी हूङ्कारशालिनी ।
हूङ्कारजपसम्मोदा हूङ्कारजापवाक्प्रदा ॥ १२॥
हूङ्कारहोमसम्प्रीता हूङ्कारतन्त्रवाहिनी ।
हूङ्कारतत्त्वविज्ञानज्ञातृज्ञेयस्वरूपिणी ॥ १३॥
हूङ्कारजापजाड्यघ्नी हूङ्कारजीवनाडिका ।
हूङ्कारमूलमन्त्रात्मा हूङ्कारपारमार्थिका ॥ १४॥
हूङ्कारघोषणाह्लादा हूङ्कारैकपरायणा ।
हूङ्कारबीजसङ्क्लुप्ता हूङ्कारवरदायिनी ॥ १५॥
हूङ्कारद्योतनज्योतिर्हूङ्कारनीलभारती ।
हूङ्कारालम्बनाधारा हूङ्कारयोगसौख्यदा ॥ १६॥
हूङ्कारझङ्कृताकारा हूङ्काराञ्चितवाग्झरी ।
हूङ्कारचण्डीपारीणानन्दझिल्लीस्वरूपिणी ॥ १७॥
॥ ह्रीं बीज (१८-२४) ॥
ह्रीङ्कारमन्त्रगायत्री ह्रीङ्कारसार्वकामिकी ।
ह्रीङ्कारसामसर्वस्वा ह्रीङ्कारराजयोगिनी ॥ १८॥
ह्रीङ्कारज्योतिरुद्दामा ह्रीङ्कारमूलकारणा ।
ह्रीङ्कारोत्तसपर्याढ्या ह्रीङ्कारतन्त्रमातृका ॥ १९॥
ह्रीञ्जहल्लक्षणाभृङ्गी ह्रीङ्कारहंसनादिनी ।
ह्रीङ्कारतारिणीविद्या ह्रीङ्कारभुवनेश्वरी ॥ २०॥
ह्रीङ्कारकालिकामूर्तिर्ह्रीङ्कारनादसुन्दरी ।
ह्रीङ्कारज्ञानविज्ञाना ह्रीङ्कारकालमोहिनी ॥ २१॥
ह्रीङ्कारकामपीठस्था ह्रीङ्कारसंस्कृताखिला ।
ह्रीङ्कारविश्वसम्भारा ह्रीङ्कारामृतसागरा ॥ २२॥
ह्रीङ्कारमन्त्रसन्नद्धा ह्रीङ्काररसपूर्णगा ।
ह्रीङ्कारमायाविर्भावा ह्रीङ्कारसरसीरुहा ॥ २३॥
ह्रीङ्कारकलनाधारा ह्रीङ्कारवेदमातृका ।
ह्रीङ्कारज्ञानमन्दारा ह्रीङ्कारराजहंसिनी ॥ २४॥
॥ दक्षिण-क्षिति (२५-३५) ॥
दन्तुरा दक्षयज्ञघ्नी दया दक्षिणकालिका ।
दक्षिणाचारसुप्रीता दंशभीरुबलिप्रिया ॥ २५॥
दक्षिणाभिमुखी दक्षा दत्रोत्सेकप्रदायिका ।
दर्पघ्नी दर्शकुह्वष्टमीयाम्याराधनप्रिया ॥ २६॥
दर्शनप्रतिभूर्दम्भहन्त्री दक्षिणतल्लजा ।
क्षित्यादितत्त्वसम्भाव्या क्षित्युत्तमगतिप्रदा ॥ २७॥
क्षिप्रप्रसादिता क्षिप्रा क्षितिवर्धनसंस्थिता ।
क्षिप्रागङ्गादिनद्यम्भःप्रवाहवासतोषिणी ॥ २८॥
क्षितिजाहर्निशोपासाजपपारायणप्रिया ।
क्षिद्रादिग्रहनक्षत्रज्योतीरूपप्रकाशिका ॥ २९॥
क्षितीशादिजनाराध्या क्षिप्रताण्डवकारिणी ।
क्षिपाप्रणयनुन्नात्मप्रेरिताखिलयोगिनी ॥ ३०॥
क्षितिप्रतिष्ठिताराध्या क्षितिदेवादिपूजिता ।
क्षितिवृत्तिसुसम्पन्नोपासकप्रियदेवता ॥ ३१॥
णेकाररूपिणी नेत्री नेत्रान्तानुग्रहप्रदा ।
नेत्रसारस्वतोन्मेषा नेजिताखिलसेवका ॥ ३२॥
णेकारज्योतिराभासा नेत्रत्रयविराजिता ।
नेत्राञ्जनसवर्णाङ्गी नेत्रबिन्दूज्ज्वलत्प्रभा ॥ ३३॥
णेकारपर्वतेन्द्राग्रसमुद्यदमृतद्युतिः ।
नेत्रातीतप्रकाशार्चिरशेषजनमोहिनी ॥ ३४॥
णेकारमूलमन्त्रार्थरहस्यज्ञानदायिनी ।
णेकारजपसुप्रीता नेत्रानन्दस्वरूपिणी ॥ ३५॥
॥ काली-लिङ्ग-केलि (३६-४६) ॥
काली कालशवारूढा कारुण्यामृतसागरा ।
कान्तारपीठसंस्थाना कालभैरवपूजिता ॥ ३६॥
काशीकाश्मीरकाम्पिल्यकाञ्चीकैलासवासिनी ।
कामाक्षी कालिका कान्ता काष्ठाम्बरसुशोभना ॥ ३७॥
कालहृन्नटनानन्दा कामाख्यादिस्वरूपिणी ।
काव्यामृतरसानन्दा कामकोटिविलासिनी ॥ ३८॥
लिङ्गमूर्तिसुसम्पृक्ता लिष्टाङ्गचन्द्रशेखरा ।
लिम्पाकनादसन्तुष्टा लिङ्गिताष्टकलेवरा ॥ ३९॥
लिकारमन्त्रसंसिद्धा लिगुलालनशालिनी ।
लिक्षामात्राणुसूक्ष्माभा लिङ्गिलिङ्गप्रदीपिनी ॥ ४०॥
लिखिताक्षरविन्यासा लिप्तकालाङ्गशोभना ।
लिङ्गोपहितसूक्ष्मार्थद्योतनज्ञानदायिनी ॥ ४१॥
लिपिलेख्यप्रमाणादिलक्षितात्मस्वरूपिणी ।
लिकाराञ्चितमन्त्रप्रजापजीवनवर्धनी ॥ ४२॥
लिङ्गकेष्टाशषड्वक्त्रप्रियसूनुमतल्लिका ।
केलिहासप्रियस्वान्ता केवलानन्दरूपिणी ॥ ४३॥
केदारादिस्थलावासा केकिनर्तनलोलुपा ।
केनाद्युपनिषत्सारा केतुमालादिवर्षपा ॥ ४४॥
केरलीयमतान्तस्था केन्द्रबिन्दुत्वगोचरा ।
केनात्याद्युज्ज्वलक्रीडारसभावज्ञलालसा ॥ ४५॥
केयूरनूपुरस्थानमणिबन्धाहिभूषिता ।
केनारमालिकाभूषा केशवादिसमर्चिता ॥ ४६॥
॥ क्रीं विस्तार (४७-६४) ॥
केशकालाभ्रसौन्दर्या केवलात्मविलासिनी ।
क्रीङ्कारभवनोद्युक्ता क्रीङ्कारैकपरायणा ॥ ४७॥
क्रींमुक्तिदानमन्दारा क्रीम्योगिनीविलासिनी ।
क्रीङ्कारसमयाचारतत्परप्राणधारिणी ॥ ४८॥
क्रीञ्जपासक्तहृद्देशवासिनी क्रींमनोहरा ।
क्रीङ्कारमन्त्रालङ्कारा क्रीञ्चतुर्वर्गदायिका ॥ ४९॥
क्रीङ्कौलमार्गसम्पन्नपुरश्चरणदोहदा ।
क्रीङ्कारमन्त्रकूपारोत्पन्नपीयूषशेवधिः ॥ ५०॥
क्रीङ्काराद्यन्तहूंह्रीम्फट्स्वाहादिपरिवर्तनी ।
क्रीङ्कारामृतमाधुर्यरसज्ञारसनाग्रगा ॥ ५१॥
क्रीञ्जापदिव्यराजीवभ्रमरी क्रींहुताशनी ।
क्रीङ्कारहोमकुण्डाग्निजिह्वाप्रत्यक्षरूपिणी ॥ ५२॥
क्रींसम्पुटार्चनाधारणानन्दस्वान्तलासिनी ।
क्रीङ्कारसुमनोग्रन्थमालिकाप्रियधारिणी ॥ ५३॥
क्रीङ्कारैकाक्षरीमन्त्रस्वाधीनप्राणवल्लभा ।
क्रीङ्कारबीजसन्धानजपध्यानवशंवदा ॥ ५४॥
क्रीङ्कारोज्जृम्भनादान्तमन्त्रमात्रस्वतन्त्रगा ।
क्रीङ्कारोन्नतविद्याङ्गशाक्ताचाराभिनन्दिनी ॥ ५५॥
क्रींरन्ध्रगुह्यभावज्ञयोगिनीपरतन्त्रगा ।
क्रीङ्कालीतारिणीसुन्दर्यादिविद्यास्वरूपिणी ॥ ५६॥
क्रीङ्कारपञ्चभूतात्मप्रापञ्चिककुटुम्बिनी ।
क्रीङ्कारोर्व्यादिनिश्शेषतत्त्वकूटविजृम्भिणी ॥ ५७॥
क्रीङ्कारमन्त्रशक्तिप्रविन्यस्तकृत्यपञ्चका ।
क्रींनिर्वर्तितविश्वाण्डकल्पप्रलयसाक्षिणी ॥ ५८॥
क्रीङ्कारविद्युच्छक्तिप्रणुन्नसर्वजगत्क्रिया ।
क्रीङ्कारमात्रसत्यादिसर्वलोकप्रचालिनी ॥ ५९॥
क्रीङ्कारयोगसंलीनदहराकाशभासिनी ।
क्रींसंलग्नपरःकोटिसङ्ख्यामन्त्रजपप्रिया ॥ ६०॥
क्रीङ्कारबिन्दुषट्कोणनवकोणप्रतिष्ठिता ।
क्रीङ्कारवृत्तपद्माष्टदलभूपुरनिष्ठिता ॥ ६१॥
क्रीङ्कारजापभक्तौघनित्यनिस्सीमहर्षदा ।
क्रीन्त्रिपञ्चारचक्रस्था क्रीङ्काल्युग्रादिसेविता ॥ ६२॥
क्रीङ्कारजापहृद्व्योमचन्द्रिका क्रीङ्करालिका ।
क्रीङ्कारब्रह्मरन्ध्रस्थब्रह्मज्ञेयस्वरूपिणी ॥ ६३॥
क्रीम्ब्राह्मीनारसिंह्यादियोगिन्यावृतसुन्दरी ।
क्रीङ्कारसाधकौन्नत्यसामोदसिद्धिदायिनी ॥ ६४॥
॥ हूं-ह्रीं विस्तार (६५-८४) ॥
हूङ्कारतारा हूम्बीजजपतत्परमोक्षदा ।
हून्त्रैविद्यधराम्नायान्वीक्षिक्यादिप्रदायिका ॥ ६५॥
हूंविद्यासाधनामात्रचतुर्वर्गफलप्रदा ।
हूञ्जापकत्रयस्त्रिंशत्कोटिदेवप्रपूजिता ॥ ६६॥
हूङ्कारबीजसम्पन्ना हूङ्कारोत्तारणाम्बिका ।
हूम्फट्कारसुधामूर्तिर्हूम्फट्स्वाहास्वरूपिणी ॥ ६७॥
हूङ्कारबीजगूढात्मविज्ञानवैभवाम्बिका ।
हूङ्कारश्रुतिशीर्षोक्तवेदान्ततत्त्वरूपिणी ॥ ६८॥
हूङ्कारबिन्दुनादान्तचन्द्रार्धव्यापिकोन्मनी ।
हूङ्काराज्ञासहस्रारजाग्रत्स्वप्नसुषुप्तिगा ॥ ६९॥
हूम्प्राग्दक्षिणपाश्चात्योत्तरान्वयचतुष्कगा ।
हूंवह्निसूर्यसोमाख्यकुण्डलिन्यात्तशक्तिका ॥ ७०॥
हूङ्कारेच्छाक्रियाज्ञानशक्तित्रितयरूपिणी ।
हूंरसास्थिवसामांसासृङ्मज्जाशुक्रनिष्ठिता ॥ ७१॥
हूङ्कारवननीलांशुमेघनादानुलासिनी ।
हूङ्कारजपसानन्दपुरश्चरणकामदा ॥ ७२॥
हूङ्कारकलनाकालनैर्गुण्यनिष्क्रियात्मिका ।
हूङ्कारब्रह्मविद्यादिगुरूत्तमस्वरूपिणी ॥ ७३॥
हूङ्कारस्फोटनानन्दशब्दब्रह्मस्वरूपिणी ।
हूङ्कारशाक्ततन्त्रादिपरमेष्ठिगुरूत्तमा ॥ ७४॥
हूङ्कारवेदमन्त्रोक्तमहाविद्याप्रबोधिनी ।
हूङ्कारस्थूलसूक्ष्मात्परब्रह्मस्वरूपिणी ॥ ७५॥
हूङ्कारनिर्गुणब्रह्मचित्स्वरूपप्रकाशिका ।
हूंनिर्विकारकालात्मा हूंशुद्धसत्त्वभूमिका ॥ ७६॥
ह्रीमष्टभैरवाराध्या ह्रीम्बीजादिमनुप्रिया ।
ह्रीञ्जयाद्यङ्कपीठाख्यशक्त्याराध्यपदाम्बुजा ॥ ७७॥
ह्रींमहत्सिंहधूम्रादिभैरव्यर्चितपादुका ।
ह्रीञ्जपाकरवीरार्कपुष्पहोमार्चनप्रिया ॥ ७८॥
ह्रीङ्कारनैगमाकारा ह्रींसर्वदेवरूपिणी ।
ह्रीङ्कूर्चकालिकाकूटवाक्प्रसिद्धिप्रदायिका ॥ ७९॥
ह्रीङ्कारबीजसम्पन्नविद्याराज्ञीसमाधिगा ।
ह्रीङ्कारसच्चिदानन्दपरब्रह्मस्वरूपिणी ॥ ८०॥
ह्रींहृल्लेखाख्यमन्त्रात्मा ह्रीङ्कृष्णरक्तमानिनी ।
ह्रीम्पिण्डकर्तरीबीजमालादिमन्त्ररूपिणी ॥ ८१॥
ह्रींनिर्वाणमयी ह्रीङ्कारमहाकालमोहिनी ।
ह्रींमती ह्रीम्पराह्लादा ह्रीं ह्रीङ्कारगुणावृता ॥ ८२॥
ह्रीमादिसर्वमन्त्रस्था ह्रीङ्कारज्वलितप्रभा ।
ह्रीङ्कारोर्जितपूजेष्टा ह्रीङ्कारमातृकाम्बिका ॥ ८३॥
ह्रीङ्कारध्यानयोगेष्टा ह्रीङ्कारमन्त्रवेगिनी ।
ह्रीमाद्यन्तविहीनस्वरूपिणी ह्रीम्परात्परा ॥ ८४॥
॥ स्वाहा-हा (८५-९३) ॥
ह्रीम्भद्रात्मजरोचिष्णुहस्ताब्जवरवर्णिनी ।
स्वाहाकारात्तहोमेष्टा स्वाहा स्वाधीनवल्लभा ॥ ८५॥
स्वान्तप्रसादनैर्मल्यवरदानाभिवर्षिणी ।
स्वाधिष्ठानादिपद्मस्था स्वाराज्यसिद्धिदायिका ॥ ८६॥
स्वाध्यायतत्परप्रीता स्वामिनी स्वादलोलुपा ।
स्वाच्छन्द्यरमणक्लिन्ना स्वाद्वीफलरसप्रिया ॥ ८७॥
स्वास्थ्यलीनजपप्रीता स्वातन्त्र्यचरितार्थका ।
स्वादिष्ठचषकास्वादप्रेमोल्लासितमानसा ॥ ८८॥
हायनाद्यनिबद्धात्मा हाटकाद्रिप्रदायिनी ।
हारीकृतनृमुण्डालिर्हानिवृद्ध्यादिकारणा ॥ ८९॥
हानदानादिगाम्भीर्यदायिनी हारिरूपिणी ।
हारहारादिमाधुर्यमदिरापानलोलुपा ॥ ९०॥
हाटकेशादितीर्थस्थकालकालप्रियङ्करी ।
हाहाहूह्वादिगन्धर्वगानश्रवणलालसा ॥ ९१॥
हारिकण्ठस्वरस्थाय्यालापनादिरसात्मिका ।
हार्दस्यन्दिकटाक्षप्रपालितोपासकावली ॥ ९२॥
हालाहलाशनप्रेमफलिनी हावशालिनी ।
हासप्रकाशवदनाम्भोरुहानन्दिताखिला ॥ ९३॥
विद्याराज्ञीवर्णमालाक्रमकल्पितनामकम् ।
कालीसान्निद्ध्यसम्पन्नं विद्यागूढार्थसम्पुटम् ॥ १॥
एतद्यः परया भक्त्या त्रिशतीस्तोत्रमुत्तमम् ।
सर्वमङ्गलविद्याख्यं त्रिशतीसङ्ख्यया जपेत् ॥ २॥
विश्वं कालीमयं पश्यन् कालोभावसमाहितः ।
पूजाहोमजपध्यानक्रमसम्भृतसाधनः ॥ ३॥
गुरुविद्याकालिकात्मतन्मयत्वपरिष्कृतः ।
शुचिस्सौशील्यवान् योगी समाध्यानन्दतत्परः ॥ ४॥
विद्यातादात्म्यसंसिद्धगुप्ततत्त्वज्ञमन्त्रिणः ।
तस्याऽसाध्यं क्वचिन्नास्ति सर्वमङ्गलमाप्नुयात् ॥ ५॥
वर्णगूढार्थभावं यो ध्यायन् मन्त्रं जपेत् सदा ।
क्रीं स्वाहा दक्षिणे चैव कालिके कालिकादलम् ॥ ६॥
कालभागस्तु हूङ्कारो ह्रीङ्कालकालिकांशकः ।
षट्कोणं नवकोणं च कालिकाचक्रमीरितम् ॥ ७॥
शेषं तु कालचक्रं हि कालीकालमयं समम् ।
गूढं विजानतः काली विहरेद्धृदि सर्वदा ॥ ८॥
सौभाग्यदायिनी माता प्रेमभक्तिवशंवदा ।
योगिनीमानसोल्लासा श्रीमहाकालरञ्जनी ॥ ९॥
शृङ्गारलोलासम्मुग्धा लालित्यमत्तकाशिनी ।
असमानदयाशीला भक्तलालनलोलुपा ॥ १०॥
नैव यच्छेदभक्ताय गोपनीयमिमं स्तवम् ।
यस्तु मोहवशाद्यच्छेत् पापिष्ठस्स भवेद्धृवम् ॥ ११॥
पारायणात् प्रेमभक्त्या लभते क्षेममुत्तमम् ।
कालीमयः पुण्यमूर्तिश्चिरञ्जीवी च मोक्षभाक् ॥ १२॥
॥ इति श्रीकालीतन्त्रे श्रीसर्वमङ्गलविद्या नाम
श्रीदक्षिणकालिकात्रिशतीस्तोत्रम् सम्पूर्णम् ॥
Encoded and proofread by Durga Sharma