दक्षिणकालिकायाः सर्वसिद्धिदं कवचम्

दक्षिणकालिकायाः सर्वसिद्धिदं कवचम्

(श्यामारहस्ये) श्रीपरमशिव उवाच । सर्पिःसागरविस्फुरन्मणिमयद्दीपे कदम्बान्विते गेहे रत्नमये शवस्य हृदये रत्नामृतेशानने । वर्गाद्याननवामलोचनमयीं श्रीदक्षिणां कालिकां सद्यश्छिन्नशिरःकरां भगवतीं ध्यायन्ति पुण्याशयाः ॥ १॥ मद्याघूर्णितलोचनत्रयमहाशोभामयीं योषितां लक्षैः सेवितपादपद्मयुगलां श्रीभैरवीद्योतिताम् । श्रीमत्कालमुखे मुखं निदधतीं चान्द्रीं कलां विभ्रतीं तां ध्यायन्ति सुसिद्धये भगवतीं तद्भावनानन्दिताः ॥ २॥ मांसासृग्दुग्धखण्डच्छुरितमधुमहापानमत्तां हसन्तीं अट्टाट्टं कालकालं कहकहडमिति प्रोल्लसन्तीं सखीषु । मृत्यप्रोद्दामहासोन्मदमुदितमहाभैरवानन्दवीचीं मातङ्गं खण्डयन्तीमभयवरकरां कालिकां तां भजामः ॥ ३॥ इदन्तु दिव्यं कवचं मनोज्ञं देयं कदाचिद्गुरुवेऽपि नैव । महद्भयात् स्नेहरसेन दत्त्वा हानिः शरीरेण च साधकेषु ॥ ४॥ यस्मादिदन्तु कवचं लभ्यते बहुपुण्यतः । तेन दत्तन्तु सकलं सद्गुरुं परमं प्रिये ! ॥ ५॥ यस्मै तस्मै न दातव्यं प्राकृतेभ्यो विशेषतः । प्रकाशे सिद्धिहानिः स्यात् तस्माद्यत्नेन गोपयेत् ॥ ६॥ गुरुपादप्रसादेन यदि काली प्रलभ्यते । जप्त्वा कालीं महाविद्यामिदन्तु कवचं पठेत् ॥ ७॥ अज्ञात्वा कवचं देवि ! कालिका चेत् प्रजप्यते । स नाप्नोति फलं तस्मात् परत्र नरकं व्रजेत् ॥ ८॥ सर्वत्र सुलभा विद्या कवचन्तु सुदुर्लभम् । शरीरधनदारेण गुरुं सन्तोष्य तत् पठेत् ॥ ९॥ सफला रजनीपूजा दिवापूजा च निष्फला । तस्मात् सर्वप्रयत्नेन रजन्यां कवचं स्मरेत् ॥ १०॥ विवादे च रणे द्यूते विद्यायां कवितागमे । राजगेहे विचारे च सर्वत्रेदं पठेन्नरः ॥ ११॥ मोहनस्तम्भनाकर्षमारणोच्चाटनं तथा । कवचस्मरणाद्देवि ! जायन्ते सर्वसिद्धयः ॥ १२॥ अथवा किमिहोक्तेन सत्यं सत्यं मम प्रिये ! । प्रत्यक्षा दक्षिणा काली वरं यच्छति सुन्दरि ! ॥ १३॥ गुरौ च कवचे तन्त्रे यन्त्रे देवीं सदा भजेत् । गुरुस्त्राता महादेवः कवचं यः प्रयच्छति ॥ १४॥ इदन्तु कवचं प्राप्य हेलनं कुरुते तु यः । अचिरान्मृत्युमाप्नोति मम तुल्योऽपि साधकः ॥ १५॥ स माता जनकश्चैव स गुरुः स च पूजितः । स सर्वदः स आचार्यः कवचं यः प्रयच्छति ॥ १६॥ इति श्यामारहस्यवर्णितं श्रीरुद्रयामले महातन्त्रे श्रीदक्षिणकालिकायाः परमशिवोक्तं सर्वसिद्धिदं कवचं सम्पूर्णम् ॥ - ॥ श्यामारहस्यम् । पञ्चदशः परिच्छेदः ॥ - .. shyAmArahasyam . panchadashaH parichChedaH .. Encoded and proofread by Ruma Dewan
% Text title            : Dakshinakalikayah Sarvasiddhidam Kavacham
% File name             : dakShiNakAlikAyAHsarvasiddhidaMkavacham.itx
% itxtitle              : dakShiNakAlikAyAH sarvasiddhidaM kavacham (shyAmArahasyAntargatam rudrayAmalAntargatam)
% engtitle              : dakShiNakAlikAyAH sarvasiddhidaM kavacham (from shyAmArahasya)
% Category              : devii, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shyAmArahasyam | panchadashaH parichChedaH ||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : March 19, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org