दशाक्षरलक्ष्मीमन्त्रम्
अस्य श्रीदशाक्षरीमहामन्त्रस्य -
दक्ष ऋषिः - विराट् छन्दः - श्रीलक्ष्मीः देवता -
सर्वेष्टसिद्ध्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासः
दक्ष ऋषये नमः शिरसि - विराट् छन्दसे नमः मुखे
श्रियै देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे
करन्यासः
ॐ देव्यै नमः अङ्गुष्टाभ्यां नमः ।
ॐ पद्मिन्यै नमः तर्जनीभ्यां नमः ।
ॐ विष्णुपत्न्यैनमः मध्यमाभ्यां नमः ।
ॐ वरदायैनमः अनामिकाभ्यां नमः ।
ॐ कमलायै नमः कनिष्ठिकाभ्यां नमः ।
ॐ कमलवासिन्यै नमः ।
ॐ करतलकरपृष्ठाभ्यां नमः ॥
नेत्रहीनहृदयादि पञ्चाङ्गन्यासः
ॐ देव्यै नमः हृदयाय नमः ।
ॐ पद्मिन्यै नमः शिरसे स्वाहा ।
ॐ विष्णुपत्न्यैनमः शिखायै वषट् ।
ॐ वरदायै नमः कवचाय हुं ।
ॐ कमलवासिन्यै नमः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् ।
आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैर्बिभ्रति
दानं पद्मयुगाभये च वपुषा सौदामिनीसन्निभा ।
मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी
पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥
(एवं ध्यात्वा पीठशक्तिभिः पीठपूजां कृत्वा स्वर्णादि निर्मितं यन्त्रं
अस्त्रमन्त्रेण आसनं दत्वा पीठमध्ये संस्थाप्य पुनर्ध्यात्वा
मूलेन मूर्तिं प्रकल्प्य, आवाहनादि पुष्पाक्षतैः उपचारैः सम्पूज्य
देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ।)
षट्कोण केसरेषु -
आग्नेयकोणे ॐ देव्यै नमः हृदयाय नमः ।
निरृतिकोणे ॐ पद्मिन्यै नमः शिरसे स्वाहा ।
वायव्यकोणे ॐ विष्णुपत्न्यै नमः शिखायै वषट् ।
ईशान्यकोणे ॐ वरदायै नमः कवचाय हुं ।
देवी पश्चिमे कोणे ॐ कमलवासिन्यै नमः अस्त्राय फट् ।
इति पञ्चाङ्गानि पूजयेत् ततः पुष्पाञ्जलिं आदाय मूलमन्त्रं उच्चार्य,
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
इति पुष्पाञ्जलिं विकीर्य विशेषार्घ्यात् बिन्दुं निक्षिप्य पूजिताः तर्पिताः सन्तु
इति वदेत् - ततः अष्टदलपद्मेषु -
पूर्वे ॐ बलाक्यै नमः ।
आग्नेये ॐ विमलायै नमः ।
दक्षिणे ॐ कमलायै नमः ।
नैरृत्यै ॐ विभीषिकायै नमः ।
पश्चिमे ॐ मालिकायै नमः ।
वायव्ये ॐ शाङ्कर्यै नमः ।
उदीच्यां ॐ वसुमालिकायै नमः ।
ईशान्ये ॐ वनमालिकायै नमः ।
इति भक्त्या पूजयित्वा पुष्पाञ्जलिं गृहीत्वा,
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
ततः भूपुरे क्रमेण -
पूर्वे ॐ वं वज्राय नमः ॐ इन्द्राय नमः ।
आग्नेये ॐ शं शक्तये नमः ॐ अग्नये नमः ।
दक्षिणे ॐ दं दण्डाय नमः ॐ यमाय नमः ।
नैरृत्ये ॐ खं खड्गाय नमः ॐ निरृतये नमः ।
पश्चिमे ॐ पं पाशाय नमः ॐ वरुणाय नमः ।
वायव्ये ॐ अं अङ्कुशाय नम ॐ वायवे नमः ।
उत्तरे ॐ गं गदायै नमः ॐ कुबेराय नमः ।
ईशान्ये ॐ त्रिं त्रिशूलाय नमः ॐ ईशानाय नमः ।
(इति भक्त्या पूजां कृत्वा धूपादि नीराजनानन्तरं पूज्य
हस्ते पुष्पाञ्जलिं गृहीत्वा -)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अथ दशाक्षरलक्ष्मी मन्त्रः ।
ॐ नमः कमलवासिन्यै स्वाहा ।
जपप्रकारः
दशलक्षं जपेन्मन्त्रं मन्त्रविद्विजितेन्द्रियः ।
दशांशं जुहुयान्मन्त्री मधुनाऽऽक्तैः सरोरुहैः ॥
इति सम्पूजयेद्देवीं सम्पदामालयं भवेत् ।
समुद्रकन्यां सरिति कण्ठमात्रे जले स्थितः ॥
त्रिलक्षं प्रजपेन्मन्त्री साक्षाद्वैश्रवणो भवेत् ।
आराध्योत्तरनक्षत्रे देवीं स्रक्चन्दनादिभिः ॥
नन्द्यावर्त्तभवैः पुष्पैः सहस्रं जुहुयात्ततः ।
पूर्णमास्यां फलैः चित्रैः जुहुयान्मधुराप्लुतैः ॥
पञ्चम्यां विशदाम्भोजैः शुक्रवारे सुगन्धिभिः ।
अन्यैर्वा विशदैः पुष्पैः प्रतिमासं फलावतीः ॥
स भवेदब्दमात्रेण सर्वदा सम्पदां निधिः ॥
इति दशाक्षरलक्ष्मीमन्त्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com