दशमयीकामाख्यास्तुतिः
घोरापञ्चदशीविरात्रिवदने रक्ताक्तमुण्डावलि
दंष्ट्राभिरभिदंशिताधरदले आनन्दकन्दाम्बिके ।
हस्ते-मुण्डवराभयारिदधने भूतेशहृद्वासिनि
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ १॥
तारे तारणकारणे शितिमुखे लम्बोदरे कोमले
प्रत्यालीढपदे चतुर्भुजयुते हे व्याघ्रचर्माम्बरे ।
निस्त्रिंशोत्पलकर्त्तरीसितकपालालङ्कृते तारिके
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ २॥
नित्ये षोडशसङ्कलात्मकविधौमध्येस्थिते षोडशि
श्रीविद्याकुलनायिके सविधिवद्विद्वज्जनैरर्चिते ।
पाशं पञ्चशराञ्च चापमधिपत्रं चाङ्कुशं धारिके
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ३॥
लोकालोकनतत्परे त्रिपुरपत्याह्लादिनीशप्रिये
हस्तैरङ्कुशपाशसाभयवरान्नित्यं धरन्तीश्वरि ।
ह्रीङ्कारासनशासने मिहिरमध्याङ्गुष्ठमात्रस्थिते
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ४॥
झङ्कारध्वनिताङ्घ्रिनूपुरयुते हस्तेक्षमालान्विते
कण्ठेमण्डितमुण्डमाल्यरुचिरे मन्दस्मिते भैरवि ।
हस्तास्फोटितमड्डुवाद्यनिनदे नृत्यस्यमोघेक्षणे
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ५॥
वामे हस्तशुभे स्वमस्तकधृते दक्षेकृपाणीधृते
स्वालीभ्यां परिदक्षवामसुवृते हर्तुं तयोःतर्षणम् ।
कामालिङ्गितकामिमञ्चहटिते मञ्जिष्ठसद्विग्रहे
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ६॥
धूमे धूम्रविलोचने विकटधून्धून्नादसन्नर्दिके
काकाकारविकेतनाश्रितरथे शूर्पं-वरं-मल्लसे ।
धूल्याधूसरवस्त्रशोभिततनो चानाथनाथेमले
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ७॥
पीयूषाब्धिलसत्सुमण्डपसमासीने द्विहस्तान्विते
दस्योर्जिह्वगदाधृते रिपुहते ब्रह्मास्त्रविद्ये शुभे ।
स्वर्णस्यद्युतिलाजिके च सततं पीताम्बराच्छादिते
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ८॥
तालीकुण्डलकर्णशोभितलसद्रत्नस्यपीठेस्थिते
कादम्बोत्कटलोचने शुकरुतं श्रोतुं सदोत्कण्ठिते ।
दूर्वाश्यामतनो घनारुणसुवस्त्रे वल्लकीवादिके
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ९॥
श्रीहस्तैर्वरदाभयं-पुलकिताम्भोजौ-दधाने रमे
नागैःस्वर्णघटैःसदास्नपितसद्देहे सुपद्मासने ।
हृत्पद्मे परिराजिते सुकमले श्रीराजसिंहासने
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ १०॥
इति दशमयीकामाख्यास्तुतिः सम्पूर्णा ।
Composed, encoded, and proofread by Priyanshu