देवादिभिः कृतं गङ्गादि नदीस्तोत्रम्

देवादिभिः कृतं गङ्गादि नदीस्तोत्रम्

इति तस्य वचः श्रुत्वा नारदस्य महात्मनः । शक्रेण सहिताः सर्वे ह्यवन्तीं तु समागताः ॥ ६४॥ स्तुवन्तो विविधैः स्तोत्रैर्गङ्गां त्रिपथगां शुभाम् । गङ्गे देवि नमस्तुभ्यं सर्वपापप्रणाशिनि ॥ ६५॥ वसूनां जननी देवि वसूनां मोक्षदायिनि । त्रैलोक्यपावनी नित्यं हरेण शिरसा धृता ॥ ६६॥ सेविता वालखिल्यैश्च कृष्णस्य परमा कला । यमुने त्वां नमस्यामः कालिन्दीं वरवाहिनीम् ॥ ६७॥ सुता त्वं पावनी देवि मार्त्तण्डस्य दिवस्पतेः । शिप्रे देवि नमस्तुभ्यं ब्रह्मदेहोद्भवे शुभे ॥ ६८॥ प्राची त्वमेव विख्याता पुण्यदेहा सरस्वती । या प्राची कौरवक्षेत्रे पुष्करे या महालये । सा त्वं शिप्रा प्रसिद्धा च सर्वपातकनाशिनी ॥ ६९॥ त्वं दया सर्वजन्तूनां त्वं स्वर्गः शरणं नृणाम् । त्वं माता सर्वजन्तूनां त्वं प्राची भुवि गीयसे ॥ २.७१.७०॥ बहुजन्मकलङ्काङ्कं दृष्ट्वा या देहिनां भुवि । करोषि क्षालनं देवि सा त्वं त्रैलोक्यसंस्थिता ॥ ७१॥ आसां च सङ्गमो यस्तु स प्रयागो बुधैः स्मृतः । अत्रागत्य तु युष्माभिः स्थापितः स्नापितोऽधुना ॥ ७२॥ सोऽद्य प्रभृति देवोऽयं प्रयागेश्वरसंज्ञकः । त्रिषु लोकेषु विख्यातः स्मरणात्पापनाशनः ॥ ७३॥ अत्रागत्य प्रपश्यन्ति ये प्रयागेश्वरं ततः । ते कृतार्था भविष्यन्ति सर्वपातकवर्जिताः ॥ ७४॥ कुलं च तारितं तेषां पैतृकं मातृकं तथा । गङ्गायास्त्रियुगं पुण्यं चतुर्वर्गफलप्रदम् । जायते नात्र सन्देहः प्रयागेश्वरदर्शनात् ॥ ७५॥ गङ्गायां च प्रयागे च देवदारुवने शुभे । नैमिषे पुष्करे चैव श्रीशैले च त्रिपुष्करे ॥ ७६॥ त्र्यम्बके धौतपापे च महेन्द्रे भैरवे तथा । गोकर्णे च सुवर्णाख्ये रेवाकपिलसङ्गमे ॥ ७७॥ एतेषां दर्शनेनैव या सिद्धिर्द्वादशाब्दिका । सा लभ्या मासमात्रेण प्रयागेश्वरदर्शनात् ॥ ७८॥ ये पश्यन्ति चतुर्द्दश्यामष्टम्यां च विशेषतः । भक्त्या च नियमं कृत्वा प्रयागेश्वरसंज्ञकम् ॥ ७९॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । भोगदं मोक्षदं लिङ्गं भविष्यति महीतले ॥ २.७१.८०॥ कलास्तिस्रो भविष्यन्ति लिङ्गेऽस्मिन्मोक्षदे शुभे । गङ्गा च यमुना प्राची सर्वपातकनाशिनी ॥ ८१॥ एवमुक्त्वा स्तुता गङ्गा यमुना च सरस्वती । देवैः प्रणतिपूर्वेण गताः स्थानं स्वकं तदा ॥ ८२॥ देवाः प्रहृष्टाः शक्राद्याः प्रयागेश्वरसंज्ञकम् । स्तुत्वा च विविधैः स्तोत्रैः पूजयित्वा दिवं गताः ॥ ८३॥ इति श्रीस्कन्दपुराणे आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये एकसप्ततितमाध्यायान्तर्गतं देवादिभिः कृतं गङ्गादि नदीस्तोत्रं समाप्तम् । स्कन्दपुराण । आवन्त्यखण्ड । चतुरशीतिखण्ड । अध्याय ७१/६५-८१॥ skandapurANa . AvantyakhaNDa . chaturashItikhaNDa . adhyAya 71/65-81.. Proofread by PSA Easwaran
% Text title            : Devadibhih Kritam Gangadi Nadi Stotram
% File name             : devAdibhiHkRRitaMgangAdinadIstotram.itx
% itxtitle              : gaNgAdinadIstotram (devAdibhiHkRitaM skandapurANAntargatam)
% engtitle              : devAdibhiHkRRitaM gangAdinadIstotram
% Category              : devii, devI, nadI, skandapurANa, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | AvantyakhaNDa | chaturashItikhaNDa | adhyAya 71/65-81||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : July 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org