श्रीदेवीषट्कं अथवा मातङ्गीषट्कम्
श्रीगणेशाय नमः ।
अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे ।
अम्बरसमानमध्ये शम्बररिपुवैरिदेवि मां पाहि ॥ १॥
कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् ।
आनीलनीलदेहामम्बामखिलाण्डनायकीं वन्दे ॥ २॥
सरिगमपधनिसतान्तां वीणासङ्क्रान्तचारुहस्तां ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३॥
अरटतटघटिकजूटीताडिततालीकपालताटङ्काम् ।
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ४॥
वीणारसानुषङ्गं विकचमदामोदमाधुरीभृङ्गम् ।
करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५॥
दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीत मातृकां वन्दे ॥ ६॥
माणिक्यवीणा मुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
महेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ ७॥
॥ इति श्रीकालिकापुराणे देवीषट्कं अथवा मातङ्गीषट्कं समाप्तम् ॥
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com