श्री देवीध्यानरत्नमाला
ॐ नमो भवान्यै ॥
भक्तानुग्रहकारिणी भगवती देवाधिदेवेश्वरी
दीनानाथ कृपावती स्वजननी भक्तानुरक्ता सती ।
ॐ काराक्षरवासिनी सुरनुता सर्वेश्वरी सर्वदा
भूयान्नो वरदा सदा ह्यभयदा कामेश्वरी कामदा ॥ १॥
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिभां त्रिनेत्रां भजेहमाद्यां भुवनेश्वरीं ताम् ॥ २॥
माता भवानी च पिता भवानी बन्धुर्भवानी च गुरुर्भवानी ।
विद्या भवानी द्रविणं भवानी यतो यतो यामि ततो भवानी ॥ ३॥
श्रीशङ्खचक्रमुसलाम्बुजयुग्महस्तां
नागेन्द्रहारबलयाङ्कितकण्ठमालाम् ।
सिन्दूरकुङ्कुमसहस्रमरीचिदीप्तां
श्रीशारिकां त्रिनयनां हृदये स्मरामि ॥ ४॥
बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाह्यमाद्याम् ।
सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ५॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रान्विता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ६॥
या श्रीर्वेदमुखी तपःफलमुखी, नित्यं च निद्रामुखी
नानारूपधरी सदा जयकरी, विद्याधरी शङ्करी ।
गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी
सा मां पातु सरस्वती भगवती, निशेषजाड्यापहा ॥ ७॥
या देवी शिवकेशवादिजननी यावैजगद्रूपिणी
या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी ।
या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ८॥
या माया मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथिनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धलक्ष्मीः परा
सा देवी नवकोटिमूर्तिसहिता मां पातु माहेश्वरी ॥ ९॥
या खड्गं डमरुं त्रिशूलपरशू खट्वाङ्गपाशौ गदां
चक्रं मुद्गरचापबाणावरदाभीतीः कपालाङ्कुशौ ।
धत्ते तोमरपुस्तके च मुसुलं दोर्भिर्दशात्ताष्टभि-
र्देवीभिः परिवारिता शशिधरा सा शारिका पातु नः ॥ १०॥
बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः
सप्तर्षिप्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् ।
काश्मीरप्रवरेशमध्यनगरीप्रद्यमन्पीठे स्थिता
देवीसप्तकसंयुता भगवती श्रीशारिका पातु नः ॥ ११॥
ब्रह्माणं च पुरन्दरं शिवहरी देवान्समस्तान्मुनीन्
या द्रष्ट्या दयया विलोकयति सा देव्यम्बिका पार्वती ।
चक्रस्था निजबोधभासितजगच्छान्तात्मिका सर्वगा
सान्द्रानन्दप्रदा परा भगवती पायात्सदाशारिका ॥ १२॥
भक्तानां सिद्धिदात्री नलिनयुगकरा श्वेतपद्मासनस्था
लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री ।
वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी
नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ १३॥
आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां
हस्ताम्भोजैः सपाशाङ्कुशमदनधनुःसायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीम् ।
ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वरानाम ॥ १४॥
ज्वालापर्वतसंस्थितां त्रिनयनां पीठत्रयाधिष्ठितां
ज्वालाडम्बरभूषितां सुवदनां नित्यामदृश्यां जनैः ।
षट्चक्राम्बुजमध्यगां वरगदाम्भोजाभयान्बिभ्रतीं
चिद्रूपां सकलार्थदीपनकरीं ज्वालामुखीं नौम्यहम् ॥ १५॥
( Next five from jvAlAmukhIstotram)
दैत्यानां भटकोटिकोटिमुकुटा टोपानधः कुर्वतीं
विघ्नानां कटकान्यतीव कटुकान्यापाटयन्तीं स्फुटम् ।
भक्तानामभयं वरं च दधतीं शान्तात्मनां सर्वदा
षड्वक्त्रेण जितां क्रिया विरहतो ज्वालामुखीं नौम्यहम् ॥ १६॥
ब्रह्माणं मधुकैटभौ वधपरो सन्त्रासयन्तौ परं
नानारूपधरावतीव भयदौ स्थूलोन्नतो संयुगे ।
तौ हत्वा विनि वर्तितां कृतवतीं तन्मेदस मेदिनीं
सर्वेषां शुभदायिनीं भगवतीं ज्वालामुखीं नौम्यहम् ॥ १७॥
सैन्यानां महिषासुरस्य मृतिदां सिंहाधिरूढामुमां
नानाकारविशेषसौख्यजननीं देहान्तरैः संस्थिताम् ।
बालामध्यमवृद्धरूपरमणीं श्रीसुन्दरीं वैष्णवीं
स्त्रीरूपेण जगद्विमोहनकरीं ज्वालामुखीं नौम्यहम् ॥ १८॥
देवानां भयदायकौसुकठिनौ शुम्भौ निशुम्भस्तथा
नानाशस्त्रधरो रिपु धृतिहरौ तौ चण्डमुण्डाङ्कितौ ।
सङ्ग्रामेऽप्यपराजितौ विकसितौ द्वौ रक्तबीजान्वितौ
हत्वैवं सुबलां प्रसन्नवदनां ज्वालामुखीं नौम्यहम् ॥ १९॥
संसारार्णवतारिणीं रविशशिकोटिप्रभां सुप्रभां
पापातङ्कनिवारिणीं हरिहरब्रह्मादिभिः संस्तुताम् ।
दारिद्र्यस्य विनाशिनीं सुकृतिनां जाड्यं हरन्तीं भृशम-
ज्ञानान्धमतेः कवित्वजननीं ज्वालामुखीं नौम्यहम् ॥ २०॥
ज्वालामुखि महाज्वाले ज्वालापिङ्गललोचने ।
ज्वालातेजे महातेजे ज्वालामुखि नमोऽस्तुते ॥ २१॥
नमो भगवति ज्वाले कालि त्रिपुरसुन्दरि ।
सर्वबीजपालयत्रि ज्वालामुखि नमोऽस्तुते ॥ २२॥
आकाशे चण्डिका देवी पाताले भुवनेश्वरी ।
मर्त्यलोके जयादेवी पायात्त्रिपुरसुन्दरी ॥ २३॥
श्री श्रीशैले स्थिता या प्रहसितवदना पार्वती शूलहस्ता ।
वह्निसूर्येन्दुनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः ।
शाण्डिल्येनोपनीता, जयति भगवती भक्तिगम्यानुयाता
सा नः सिंहासनस्था, ह्यभिमतफलदा शरदा शं करोतु ॥ २४॥
मूलाधाराद्भुतवहकलामिश्रितं भूर्भुवःस्व-
र्ब्रह्मस्थानात्परमगहनात्तत्सवितुर्वरेण्यम् ।
भर्गोदेवः शशिकलमयी धीमहीत्येकरूपं
धियो योनः परमममृतं चोदयान्नः परं तत् ॥ २५॥
प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारूनेत्रा विशाला ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती
सा देवी दिव्यदेहा, हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ २६॥
चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम् ।
चतुर्मुखाङकोपगतां महोज्ज्वलां वेदेश्वरीं पञ्चमुखीं नमाम्यहम् ॥ २७॥
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे ममनास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २८॥
पद्मासनस्थां करपङ्कजाभ्यां रक्तोत्पले सन्दधतीं त्रिनेत्राम् ।
सम्बिभ्रतीमाभरणानि रक्तां पद्मावतीं पद्ममुखीं नमामि ॥ २९॥
पद्मेशपद्मोदभवपद्मबन्धुमुखाः सुराः पादरजोऽपि यस्याः ।
चिन्वन्त आप्ता न गताश्च पारं पद्मावती सा मम सद्यम्गास्तात् ॥ ३०॥
देवीं शुद्धस्फटिकधवलां पञ्चवक्त्रां त्रिनेत्रां
दोर्भिर्युक्तां दशभिरभितः शोभितां रत्नहारैः ।
काद्यं मुण्डं सृणिममसृणं शूलमच्छाच्छधारं
सारात्सारं वरमनवरं दक्षहस्तैर्वहन्तीम् ॥ ३१॥
उत्खट्वाङ्गं कठिनविकटं टङ्कमूर्जस्वदङ्कं
पाशं ज्ञानामृतरसमयं पुस्तकं चाभयं च ।
कामं वामैः शुभकरतलैर्बिभ्रतीं विश्ववन्द्यां
पद्मां प्रेतोपरिकृतपदां सिद्धलक्ष्मीं नमामि ॥ ३२॥
इच्छाशक्तिप्रथमलहरीमम्बरान्तः प्रवाह-
गर्भीभूतां त्रिविधमुदितां पञ्चधा प्रस्फुरन्तीम् ।
सम्यग्देवीं स्फटिकधवलां, शुद्धकुन्देन्दुवर्णां
रुद्रारूढां दशभुजयुतां क्षामगात्रीं नमामि ॥ ३३॥
उद्यद्भास्वत्समाभाविहितरविजयां मुण्डखण्डावनद्धाम् ।
ज्योतिर्मौलिं त्रिनेत्रां विविधमणिलसत्कुण्डलामण्डिताङ्गीम् ।
हारग्रैवेयकाञ्चीगुणमणिनिलयामेक चित्राम्बराढ्या-
मम्बां पाशाङ्कुशाढ्याभयवरदकरां सिद्धिदात्रीं नमामि ॥ ३४॥
सन्तःशंसन्त्यमुत्र त्रिजगति जगतीमण्डलं सारभूतं
तत्रापि क्ष्माधरं तं त्रिभुवनजननी जन्मने यं प्रपेदे ।
तत्राप्याहुः शुभानां विघटितविपदां वेश्म काश्मीरदेशं
त्वं तत्रानुग्रहार्थं प्रवहसि भविनामों नमस्ते वितस्ते ॥ ३५॥
गङ्गे त्रैलोक्यसारे सकलसुर वधू धौतविस्तीर्णतोये
पुण्ये ब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।
प्रायश्चित्तं परं नस्तव जलकणिका ब्रह्महत्याद्यघाना
कस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ ३६॥
दृष्टा जन्मशताधर्मं स्पृष्टा जन्मशतत्रयम् ।
स्नाता जन्मशतोत्थाघं हन्ति गङ्गा कलौ युगे ॥ ३७॥
हरतीयं महापापं गङ्गेश्वरसमुद्भवा ।
मातृपितृहिते गङ्गे हरिगङ्गे नमोऽस्तु ते ॥ ३८॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि नमोऽस्तु ते ॥ ३९॥
नमः कल्याणदे देवि नमः शङ्करवल्लभे ।
नमो भक्तिप्रेदे देवि अन्नपूर्णे नमोऽस्तु ते ॥ ४०॥
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४१॥
उर्वी सर्वजनेश्वरी हिमवतः पुत्री कृपासागरी
नारी नीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
सर्वत्राणकरी सदा सुखकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४२॥
इति देवीध्यानरत्नमाला समाप्ता ।
Encoded and proofread by Aruna Narayanan