श्रीदेवी मङ्गलाष्टकम्
जगन्मात्रे लसत्फाललोचनायै समध्यमे ।
आदिशक्त्यै शिवायै च राजेश्वर्यै सुमङ्गलम् ॥ १॥
महिषासुरसंहर्त्ये मायायै माधवानुजे ।
माहेश्वर्यैह्युमायैच दुर्गायै ते सुमङ्गलम् ॥ २॥
सौवर्णाम्बरधारिण्यै ललितायै च शोभने
कामेश्वर्यै चण्डिकायै बालायै ते सुमङ्गलम् ॥ ३॥
शाकम्बर्यै कोकवद्यै जयिन्यै विश्वभोगदे ।
सर्वदुःखक्षयङ्कर्यै कालिकायै ते सुमङ्गलम् ॥ ४॥
हिमवन्मेनकापुत्र्यै तपस्विन्यै शवार्थिनि ।
शङ्करार्धाङ्गवासिन्यै पार्वत्यै ते सुमङ्गलम् ॥ ५॥
वीणापुस्तकधारिण्यै ज्ञानमुद्राङ्कितात्मने ।
मन्दस्मितायै वाण्यै च विधिपत्न्यै सुमङ्गलम् ॥ ६॥
विष्णुवक्षनिवासिन्यै जगन्मङ्गलकारिणी ।
सदाचारप्रिये तुभ्यं महालक्ष्मी सुमङ्गलम् ॥ ७॥
अर्धन्दुमौळयै शम्भुप्रियायै परदेवते ।
त्रिपुरायै च नन्दिन्यै च भवान्यै ते सुमङ्गलम् ॥ ८॥
राजेश्वरी च दुर्गा च बाला वाणी च कालिका
पार्वती च महालक्ष्मी भवानीत्यष्टकं महत् ॥ ९॥
स्मरणेन शुभां बुद्धिं जयं भाग्य सुतादिकं
ददात्मभीष्टमिति मे निश्चयं प्रतिभातिहि ॥ १०॥
इति श्रीदेवी मङ्गलाष्टकं सम्पूर्णम् ।
Proofread by Vani V.