श्रीदेवी मङ्गलाष्टकम्
कल्याणी कमनीयकान्तिरुचिरा कञ्जाक्षसंसेविता
ब्रह्मेन्द्राद्यखिलामरार्चितपदा ब्राह्मी रमा सेविता ।
रत्नालङ्कृतसिंहपीठनिलया श्रीराजराजेश्वरी
चिद्रूपि परदेवताभगवति कुर्यात्सदा मङ्गलम् ॥ १॥
श्रीविश्वेश्वरवामभागनिलया श्रीभारती सेविता
विश्वस्तुत्यमहाप्रभावमहिता विष्ण्विन्द्रसम्पूजिता ।
विश्वसृष्टिविनाशपालनकरी विश्वान्नदानोद्यता
श्रीकाशीनगराधिराजजननी कुर्यात्सदा मङ्गलम् ॥ २॥
श्रीदुग्दाम्बुधि वंशपावनकरी श्रीविष्णु सम्मोहिनि
ब्रह्मेन्द्राद्यमरार्चिताङ्घ्रियुगला ब्रह्माण्डदीपाङ्कुरा ।
दासीभूतसमस्तदेववनिता दारिद्र्यविध्वंसिनि
श्रीमाताजननीसमस्तजगतां कुर्यात्सदा मङ्गलम् ॥ ३॥
बालापालितभक्तकोटिरनघा फालाक्षसंसेविता
ब्रह्मेन्द्रादि समस्तलोकजननी बालार्ककान्त्युज्वला ।
सम्फ्रल्लाब्जनिवासिनी शुभमयी ह्रीङ्कारतत्त्वात्मिका
कल्याणीजगदीश्वरी भगवती कुर्यात्सदा मङ्गलम् ॥ ४॥
ईशानी भुवनेश्वरी च विमला ईशत्वसन्धायिनी
गर्जन्माहिषचण्डमुण्डदमनी गम्भीरमुद्राञ्चिता ।
रुद्राणि रुधिरारुणोग्रवदना लोकैकरक्षाकरी
श्रीदुर्गाशुभदामहार्तिदमनी कुर्यात्सदा मङ्गलम् ॥ ५॥
श्रीशैलभ्रमराम्बिका ष्रितजगत्सक्षोभविद्राविणी
श्रीमल्लीश्वरकल्पवृक्षलतिका श्रेयोर्थचिन्तामणिः ।
दुर्गर्वरान्धमनोविमोहनकरी दुर्दैत्यसंहारिणी
मोक्षद्वारकवाटिभेदनकरी कुर्यात्सदा मङ्गलम् ॥ ६॥
वाग्देवी चतुरास्य मन्दिरकृतावासमहादेवता
दिव्यच्छारदचन्द्रिका समतनुर्धीजाड्यनिर्मूलिनी ।
अज्ञानान्धतमिस्रपाटनकरी विज्ञानसम्पत्करी
ज्ञानब्रह्ममयी परात्परतरा कुर्यात्सदा मङ्गलम् ॥ ७॥
यासृष्टिं विदधाति पालयतिचाप्यन्तं विधत्तेस्सया
याब्रह्मादि पिपीलिकान्तजननी सर्वेश्वरीयाद्वयम् ।
यालोकोऽस्ति चराचरेऽति गहना व्यक्तात्मनापि पृथक्
साऽरूपा बहुनामरूपलसिता कुर्यात्सदा मङ्गलम् ॥ ८॥
इति श्रीएदेवी मङ्गलाष्टकं सम्पूर्णम् ।
Proofread by Vani V.