देवीपूजनविधिनिरूपणम्

देवीपूजनविधिनिरूपणम्

(देवीभागवततः) नारद उवाच - धर्मश्च कीदृशस्तात देव्याराधनलक्षणः । कथमाराधिता देवी सा ददाति परं पदम् ॥ १॥ आराधनविधिः को वा कथमाराधिता कदा । केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ॥ २॥ श्रीनारायण उवाच - देवर्षे श‍ृणु चित्तैकाग्र्येण मे विदुषां वर । यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥ ३॥ स्वधर्मो यादृशः प्रोक्तस्तं च मे श‍ृणु नारद । अनादाविह संसारे देवी सम्पूजिता स्वयम् ॥ ४॥ परिपालयते घोरसङ्कटादिषु सा मुने । सा देवी पूज्यते लोकैर्यथावत्तद्विधिं श‍ृणु ॥ ५॥ प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् । घृतं दद्याद्ब्राह्मणाय रोगहीनो भवेत्सदा ॥ ६॥ द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् । शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥ ७॥ तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि । क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत् ॥ ८॥ चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च । अपूपा एव दातव्या न विघ्नैरभिभूयते ॥ ९॥ पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् । तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत् ॥ १०॥ षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि । ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत् ॥ ११॥ सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च । गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥ १२॥ नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् । ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥ १३॥ नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च । दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥ १४॥ दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने । ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि ॥ १५॥ एकादश्यां दधि तथा देव्यै चार्पयते तु यः । ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥ १६॥ द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् । तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥ १७॥ त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च । तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत् ॥ १८॥ चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति । तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥ १९॥ पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति । ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान् ॥ २०॥ तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने । तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ॥ २१॥ रविवारे पायसं च नैवेद्यं परिकीर्तितम् । सोमवारे पयः प्रोक्तं भौमे च कदलीफलम् ॥ २२॥ बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज । गुरुवारे शर्करां च सितां भार्गववासरे ॥ २३॥ शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् । सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥ २४॥ घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् । दधिकूर्ची मोदकं च फेणिकां घृतमण्डकम् ॥ २५॥ कंसारं वटपत्रं च घृतपूरमतः परम् । वटकं कोकरसकं पूरणं मधु सूरणम् ॥ २६॥ गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् । अपूपं नवनीतं च मुद्गं मोदक एव च ॥ २७॥ मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद । विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥ २८॥ पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका । गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥ २९॥ नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् । पनसं कदलं जम्बुफलमाम्रफलं तिलम् ॥ ३०॥ नारङ्गं दाडिमं चैव बदरीफलमेव च । धात्रीफलं पायसञ्च पृथुकं चणकं तथा ॥ ३१॥ नारिकेलं जम्भफलं कसेरुं सूरणं तथा । एतानि क्रमशो विप्र नैवेद्यानि शुभानि च ॥ ३२॥ विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः । अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने ॥ ३३॥ कंसारं मण्डकं फेणी मोदकं वटपत्रकम् । लड्डुकं घृतपूरं च तिलं दधि घृतं मधु ॥ ३४॥ करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् । अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम् ॥ ३५॥ विधानं नारदमुने श‍ृणु तत्सर्वमादृतः । चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम् ॥ ३६॥ पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् । एवं द्वादशमासेषु तृतीयातिथिषु क्रमात् ॥ ३७॥ शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे । वैशाखमासे नैवेद्यं गुडयुक्तं च नारद ॥ ३८॥ ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु । आषाढे नवनीतं च मधुकस्य निवेदनम् ॥ ३९॥ श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा । आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम् ॥ ४०॥ मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका । माघे मासि च नैवेद्यं घृतं गव्यं समाहरेत् ॥ ४१॥ नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् । एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत् ॥ ४२॥ (मधूकव्रते कार्यं देवीस्तोत्रम् ४३-५६) मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया । महामाया च मतङ्गी काली कमलवासिनी ॥ ४३॥ शिवा सहस्रचरणा सर्वमङ्गलरूपिणी । एभिर्नामपदैर्देवीं मधूके परिपूजयेत् ॥ ४४॥ ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् । सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये ॥ ४५॥ नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते । माहेश्वर्यै महादेव्यै महामङ्गलमूर्तये ॥ ४६॥ परमा पापहन्त्री च परमार्गप्रदायिनी । परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी ॥ ४७॥ मददात्री मदोन्मत्ता मानगम्या महोन्नता । मनस्विनी मुनिध्येया मार्तण्डसहचारिणी ॥ ४८॥ जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे । महामोहविनाशार्थं पूजितासि सुरासुरैः ॥ ४९॥ यमलोकाभावकर्त्री यमपूज्या यमाग्रजा । यमनिग्रहरूपा च यजनीये नमो नमः ॥ ५०॥ समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता । सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा ॥ ५१॥ कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी । माथुर्यरूपशीला च मधुरस्वरपूजिता ॥ ५२॥ महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी । मनुष्यमानसगमा मन्मथारिप्रियङ्करी ॥ ५३॥ अश्वत्थवटनिम्बाम्रकपित्थबदरीगते । पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणि ॥ ५४॥ दुग्धवल्लीनिवासार्हे दयनीये दयाधिके । दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे ॥ ५५॥ एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् । व्रतस्य सकलं पुण्यं लभते सर्वदा नरः ॥ ५६॥ नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः । आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि ॥ ५७॥ अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ॥ ५८॥ ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् । वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः ॥ ५९॥ स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः । पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी ॥ ६०॥ एवमाराधनं देव्याः समुक्तं सुरपूजितम् । यः करोति नरो भक्त्या स देवीलोकभाग्भवेत् ॥ ६१॥ देवीपूजनतो विप्र सर्वे कामा भवन्ति हि । सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते ॥ ६२॥ यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च । जायते जगदम्बायाः प्रसादेन विरञ्चिज ॥ ६३॥ नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् । महामायाप्रसादेन पुत्रपौत्रादिवर्धनः ॥ ६४॥ देवीभक्तो भवत्येव नात्र कार्या विचारणा । इत्येवं ते समाख्यातं नरकोद्धारलक्षणम् ॥ ६५॥ पूजनं हि महादेव्याः सर्वमङ्गलकारकम् । मधूकपूजनं तद्वन्मासानां क्रमतो मुने ॥ ६६॥ सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् । न तस्य रोगबाधादिभयमुद्भवतेऽनघ ॥ ६७॥ अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् । नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम् ॥ ६८॥ साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने । कुतूहलकरं चैव श‍ृणु मुक्तिविधायकम् ॥ ६९॥ इति देवीभागवते अष्टमस्कन्धे चतुर्विंशाध्यायान्तर्गतं देवीपूजनविधिनिरूपणं समाप्तम् ॥ Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : devIpUjanavidhinirUpaNaM
% File name             : devIpUjanavidhinirUpaNaM.itx
% itxtitle              : devIpUjanavidhinirUpaNaM (devIbhAgavatAntargatam)
% engtitle              : devIpUjanavidhinirUpaNaM
% Category              : devii, pUjA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Indexextra            : (Devi Bhagavatam)
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : April 30, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org