देवीस्तवनगीतिका
जय जननि! भ्रमजालनिवारिणि! गीतविनोदिनि! ताललये!
विविधवरोहणमूर्च्छनमोहिनि! हे परमेश्वरि! हे विजये! ।
निखिलचराचरभूतविभाविनि! पिण्डसमष्टिसरूपचये!
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ १॥
अयि मन एष भवो विभवे वरिवर्त्ति यदीयसरूपमये
वरमनुरूपमसि त्वमपि प्रभु यत्स्थितिभाति मुदा निचये ।
भ्रमसि भवे भ्रमतो निजरूपनिरन्तरविस्मरणेन शये
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ २॥
पुरुषप्रधानतया जगतीगतदम्पतियुग्मविहारनये
निरततमा नितरामति सैव विलासिनि! रासविलासकले ।
अखिलनिरञ्जनसत्यसनातनरूपमयी मम सा विषये;
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ ३॥
सरभसप्रेमपयोनिधिमज्ज नलब्धरसामृतपानमये
पुलकितमानसभृङ्गयदीयसुभक्तगणो ननु भक्तिरये ।
गुणगणगानपरो मुदमातनुते स्वरसप्तकतानलये
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ ४॥
परमपिता जननी जगतां भवतीह निदानमपि प्रलये
भवभवभूतिनिदानमलं भवरक्षणसाक्षिणि! कालमये ।
वितथविनाशिनि! पापविमोचिनि! भीतिनिवारिणि! मातरये
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ ५॥
निखिल चराचरभूतविधायिनि! भूतमहेश्वरि! भूतधये
जनमन अन्तरप्राणसरूपिणि! योगनिरूपिणि! योगमये ।
स्वजनविनोदिनि! भक्तजनस्य सदा हृदयाम्बुजकोशशये!
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ ६॥
अखिलचराचरगामिनि! साधकसाधनसाध्यसुसिद्धिमये
सरसमनोहररूपविलासविलोकनजातललामत मे ।
ऋषिमुनयस्तव दर्शनमद्भुतमाशु नयन्ति समाधिलये
अनुपलमेव मनो मननं तव भक्तिरस्रस्य करोतु जये! ॥ ७॥
अनृतदृढं भ्रमजालमिदं मन आशु विदित्वा छिन्धि भये
न पत निरन्तरमेव विलोकय रूपवरेऽखिलविश्वमये ।
बहुविधरूपविवर्जितमां परमां प्रथितां निजरूपमये
अनुपलमेव मनो मननं तव भक्तिरसस्य करोतु जये! ॥ ८॥
इति देवीस्तवनगीतिका समाप्ता ।
(प्रातः भैरवीरागेण सायं खम्माचेन त्रितालतो गीयते ।)
Encoded and proofread by Sandhya Kunnatur