देवीस्तोत्रम् १
श्रीगणेशाय नमः ।
नमस्तेऽस्तु दुर्गे सदानन्दरूपे सुरैः स्तूयमाने मुनीनां सुपूज्ये ।
नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते भवाम्भोधिसन्तारदक्षे ॥ १॥
नमस्ते नमस्ते सदा दैवतेज्ये तथा दीनदुःखे दयाक्रान्तचित्ते ।
नमस्ते महादेवमान्ये भवानि सुदीनं स्वदासं जनं पाहि शश्वत् ॥ २॥
नमस्ते जगद्व्यापिके विश्वरूपे सदा योगिगम्ये स्वभक्त्यैकलभ्ये ।
रमाशारदाशम्भुकान्तास्वरूपे नमस्ते महाकालिके शुद्धरूपे ॥ ३॥
नमस्तेऽम्बिके भक्तसंसेव्यपादे नमस्तेऽघविध्वंसिके सर्वशक्ते ।
जगत्कानने क्रोधकामादिहिंस्रैः परीतोऽस्मि मातः सदा रक्ष रक्ष ॥ ४॥
नमस्ते जगद्बीजरूपे महेशि स्वभक्तेषु रक्ते शरण्ये त्रिनेत्रे ।
त्वदन्या न चास्ते विपन्नाशकारी सुसम्पत्प्रदां त्वां सदा संनतोऽस्मि ॥ ५॥
अहं देवि याचे पदाम्भोजसेवां भवत्यास्तथा भक्तिभावं भवेड्ये ।
प्रसीदाम्व दासे सदा शैलपुत्रि शिवां शङ्करीं पार्वतीं त्वां भजामि ॥ ६॥
त्वदन्यो न मान्यो न चान्यश्च गण्यस्त्वमेकाऽसि मातर्जगज्जालहेतुः ।
जगन्नाशिका पालिका च त्वमेव गिरेर्बालिकां कालिकां संनतोऽहम् ॥ ७॥
श्रियं शारदां शम्भुशक्तिं महेशीं त्रिनेत्रां च दुर्गां तथा कालरात्रिम् ।
तुषाराद्रिपुत्रीं जगद्दुःखहन्त्रीं स्मरन् दुःखनाशो भवेन्मानवानाम् ॥ ८॥
इदं स्तोत्रं महादेव्या योगानन्देन निर्मितम् ।
यः पठेत्प्रातरुथाय स नरो वाञ्छितं लभेत् ॥ ९॥
इति योगानन्दविरचितं श्रीदेवीस्तोत्रं सम्पूर्णम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com