हरब्रह्मकृता देवीस्तुतिः
ब्रह्मोवाच -
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥
शिव उवाच -
यदि हरिस्तव देवि विभावज-
स्तदनु पद्मज एव तवोद्भवः ।
किमहमत्र तवापि न सद्गुणः
सकललोकविधौ चतुरा शिवे ॥ २॥
त्वमसि भूः सलिलं पवनस्तथा
खमपि वह्निगुणश्च तथा पुनः ।
जननि तानि पुनः करणानि च
त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ ३॥
न च विदन्ति वदन्ति च येऽन्यथा
हरिहराजकृतं निखिलं जगत् ।
तव कृतास्त्रय एव सदैव ते
विरचयन्ति जगत्सचराचरम् ॥ ४॥
अवनिवायुखवह्निजलादिभिः
सविषयैः सगुणैश्च जगद्भवेत् ।
यदि तदा कथमद्य च तत्स्फुटं
प्रभवतीति तवाम्ब कलामृते ॥ ५॥
भवसि सर्वमिदं सचराचरं
त्वमजविष्णुशिवाकृतिकल्पितम् ।
विविधवेषविलासकुतूहलै-
र्विरमसे रमसेऽम्ब यथारुचि ॥ ६॥
सकललोकसिसृक्षुरहं हरिः
कमलभूश्च भवाम यदाऽम्बिके ।
तव पदाम्बुजपांसुपरिग्रहं
समधिगम्य तदा ननु चक्रिम ॥ ७॥
यदि दयार्द्रमना न सदाम्बिके
कथमहं विहितश्च तमोगुणः ।
कमलजश्च रजोगुणसम्भवः
सुविहितः किमु सत्त्वगुणो हरिः ॥ ८॥
यदि न ते विषमा मतिरम्बिके
कथमिदं बहुधा विहितं जगत् ।
सचिवभूपतिभृत्यजनावृतं
बहुधनैरधनैश्च समाकुलम् ॥ ९॥
तव गुणास्रय एव सदा क्षमाः
प्रकटनावनसंहरणेषु वै ।
हरिहरद्रुहिणाश्च क्रमात्त्वया
विरचितास्त्रिजगतां किल कारणम् ॥ १०॥
परिचितानि मया हरिणा तथा
कमलजेन विमानगतेन वै ।
पथिगतैर्भुवनानि कृतानि वा
कथय केन भवानि नवानि च ॥ ११॥
सृजसि पासि जगज्जगदम्बिके
स्वकलया कियदिच्छसि नाशितुम् ।
रमयसे स्वपतिं पुरुषं सदा
तव गतिं न हि विद्म वयं शिवे ॥ १२॥
जननि देहि पदाम्बुजसेवनं
युवतिभागवतानपि नः सदा ।
पुरुषतामधिगम्य पदाम्बुजा-
द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ १३॥
न रुचिरस्ति ममाम्ब पदाम्बुजं
तव विहाय शिवे भुवनेष्वलम् ।
निवसितुं नरदेहमवाप्य च
त्रिभुवनस्य पतित्वमवाप्य वै ॥ १४॥
सुदति नास्ति मनागपि मे रति-
र्युवतिभावमवाप्य तवान्तिके ।
पुरुषता क्व सुखाय भवत्यलं
तव पदं न यदीक्षणगोचरम् ॥ १५॥
त्रिभुवनेषु भवत्वियमम्बिके
मम सदैव हि कीर्तिरनाविला ।
युवतिभावमवाप्य पदाम्बुजं
परिचितं तव संसृतिनाशनम् ॥ १६॥
भुवि विहाय तवान्तिकसेवनं
क इह वाञ्छति राज्यमकण्टकम् ।
त्रुटिरसौ किल याति युगात्मतां
न निकटं यदि तेऽङ्घ्रिसरोरुहम् ॥ १७॥
तपसि ये निरता मुनयोऽमला-
स्तव विहाय पदाम्बुजपूजनम् ।
जननि ते विधिना किल वञ्चिताः
परिभवो विभवे परिकल्पितः ॥ १८॥
न तपसा न दमेन समाधिना
न च तथा विहितैः क्रतुभिर्यथा ।
तव पदाब्जपरागनिषेवणा-
द्भवति मुक्तिरजे भवसागरात् ॥ १९॥
कुरु दयां दयसे यदि देवि मां
कथय मन्त्रमनाविलमद्भुतम् ।
समभवं प्रजपन्सुखितो ह्यहं
सुविशदं च नवार्णमनुत्तमम् ॥ २०॥
प्रथमजन्मनि चाधिगतो मया
तदधुना न विभाति नवाक्षरः ।
कथय मां मनुमद्य भवार्णवा-
ज्जननि तारय तारय तारके ॥ २१॥
इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा ।
उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ २२॥
तं गृहीत्वा महादेवः परां मुदमवाप ह ।
प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ २३॥
जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा ।
बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ २४॥
तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् ।
अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ २५॥
न वेदास्त्वामेवं कलयितुमिहासन्नपटवो
यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् ।
स्वधाभूता देवी सकलमखहोमेषु विहिता
तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ २६॥
कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं
कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् ।
धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो
मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ २७॥
अद्याहं तव पादपङ्कजपरागादानगर्वेण वै
धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते ।
याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं
हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु ॥ २८॥
अतोऽहञ्च जातो विमुक्तः कथं स्यां
सरोजादमेयात्त्वदाविष्कृताद्वै ।
तवाज्ञाकरः किङ्करोऽस्मीति नूनं
शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ २९॥
न जानन्ति ये मानवास्ते वदन्ति
प्रभुं मां तवाद्यं चरित्रं पवित्रम् ।
यजन्तीह ये याजकाः स्वर्गकामा
न ते ते प्रभावं विदन्त्येव कामम् ॥ ३०॥
त्वया निर्मितोऽहं विधित्वे विहारं
विकर्तुं चतुर्धा विधायादिसर्गम् ।
अहं वेद्मि कोऽन्यो विवेदातिमाये
क्षमस्वापराधं त्वहङ्कारजं मे ॥ ३१॥
श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः
प्रकुर्वन्ति मूढाः समाधौ स्थिता वै ।
न जानन्ति ते नाम मोक्षप्रदं वा
समुच्चारितं जातु मातर्मिषेण ॥ ३२॥
विचारे परे तत्त्वसङ्ख्याविधाने
पदे मोहिता नाम ते संविहाय ।
न किं ते विमूढा भवाब्धौ भवानि
त्वमेवासि संसारमुक्तिप्रदा वै ॥ ३३॥
परं तत्त्वविज्ञानमाद्यैर्जनैर्यै-
रजे चानुभूतं त्यजन्त्येव ते किम् ।
निमेषार्धमात्रं पवित्रं चरित्रं
शिवा चाम्बिका शक्तिरीशेति नाम ॥ ३४॥
न किं त्वं समर्थाऽसि विश्वं विधातुं
दृशैवाशु सर्वं चतुर्धा विभक्तम् ।
विनोदार्थमेवं विधिं मां विधाया-
दिसर्गे किलेदं करोषीति कामम् ॥ ३५॥
हरिः पालकः किं त्वयाऽसौ मधोर्वा
तथा कैटभाद्रक्षितः सिन्धुमध्ये ।
हरः संहृतः किं त्वयाऽसौ न काले
कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ ३६॥
न ते जन्म कुत्रापि दृष्टं श्रुतं वा
कुतः सम्भवस्ते न कोऽपीह वेद ।
किलाद्यासि शक्तिस्त्वमेका भवानि
स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ ३७॥
त्वया संयुतोऽहं विकर्तुं समर्थो
हरिस्त्रातुमम्ब त्वया संयुतश्च ।
हरः सम्प्रहर्तुं त्वयैवेह युक्तः
क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ ३८॥
यथाऽहं हरिः शङ्करः किं तथाऽन्ये
न जाता न सन्तीह नो वाऽभविष्यन् ।
न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे
विनोदे विवादास्पदेऽल्पाशयानाम् ॥ ३९॥
अकर्ता गुणस्पष्ट एवाद्य देवो
निरीहोऽनुपाधिः सदैवाकलश्च ।
तथापीश्वरस्ते वितीर्णं विनोदं
सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ ४०॥
दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः ।
नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ ४१॥
न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन ।
विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः ॥ ४२॥
एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै ।
सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ ४३॥
निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् ।
द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ ४४॥
स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् ।
पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ ४५॥
पुमानसि त्वं स्त्री वासि वद विस्तरतो मम ।
ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ ४६ ॥
इति श्रीमद्देवीभागवतमहापुराणे तृतीयस्कन्धे
पञ्चमोऽध्याये हरब्रह्मकृता देवीस्तुतिः सम्पूर्णा ।
Encoded and proofread by Vishwas Bhide, PSA Easwaran