सुबाहुकृता देवीस्तुतिः
सुबाहुरुवाच -
नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः ।
दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ १॥
नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः ।
विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ २॥
नाहं गतिं तव धिया परिचिन्तयन् वै
जानामि देवि सगुणः किल निर्गुणायाः ।
किं स्तौमि विश्वजननीं प्रकटप्रभावां
भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ ३॥
वाग्देवता त्वमसि सर्वगतैव बुद्धि-
र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः ।
त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री
किं स्तूयते हि सततं खलु चात्मरूपम् ॥ ४॥
ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो
नान्तं गताः सुरवराः किल ते गुणानाम् ।
क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै
वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ ५॥
सत्सङ्गतिः कथमहो न करोति कामं
प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः ।
जामातुरस्य विहितेन समागमेन
प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥ ६॥
ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च
सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः ।
यद्दर्शनं जननि तेऽद्य मया दुरापं
प्राप्तं विना दमशमादिसमाधिभिश्च ॥ ७॥
क्वाहं सुमन्दमतिराशु तवावलोकं
क्वेदं भवानि भवभेषजमद्वितीयम् ।
ज्ञाताऽसि देवि सततं किल भावयुक्ता
भक्तानुकम्पनपरामरवर्गपूज्या ॥ ८॥
किं वर्णयामि तव देवि चरित्रमेतद्
यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् ।
शत्रू हतौ सुबलिनौ तरसा त्वयाद्य
भक्तानुकम्पि चरितं परमं पवित्रम् ॥ ९॥
नाश्चर्यमेतदिति देवि विचारितेऽर्थे
त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै ।
त्रातस्त्वया च विनिहत्य रिपुर्दयातः
संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ १०॥
भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं
कर्तुं भवानि रचितं चरितं त्वयैतत् ।
नोचेत्कथं सुपरिगृह्य सुतां मदीयां
युद्धे भवेत्कुशलवाननवद्यशीलः ॥ ११॥
शक्ताऽसि जन्ममरणादिभयान्विहन्तुं
किं चित्रमत्र किल भक्तजनस्य कामम् ।
त्वं गीयसे जननि भक्तजनैरपारा
त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ १२॥
त्वद्दर्शनादहमहो सुकृती कृतार्थो
जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा ।
बीजं न ते न भजनं किल वेद्मि मात-
र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ १३॥
व्यास उवाच -
एवं स्तुता तदा देवी प्रसन्नवदना शिवा ।
उवाच च नृपं देवी वरं वरय सुव्रत ॥ १४॥
इति श्रीमद्देवीभागवतमहापुराणे तृतीयस्कन्धे
द्वात्रिंशोऽध्याये सुबाहुकृता देवीस्तुतिः सम्पूर्णा ।
Verse 42-55
Encoded and proofread by Vishwas Bhide, PSA Easwaran