देवैः कृतं १ देवीस्तोत्रम्
देवा ऊचुः ।
नमोऽस्तु ते भगवति पापनाशिनि नमोऽस्तु ते सुररिपुदर्पशातनि ।
नमोऽस्तु ते हरिहरराज्यदायिनि नमोऽस्तु ते मखभुजकार्यकारिणि ॥ ५६॥
नमोऽस्तु ते त्रिदशरिपुक्षयङ्करि नमोऽस्तु ते शतमखपादपूजिते ।
नमोऽस्तु ते महिषविनाशकारिणि नमोऽस्तु ते हरिहरभास्करस्तुते ॥ ५७॥
नमोऽस्तु तेऽष्टादशबाहुशालिनि नमोऽस्तु ते शुम्भनिशुम्भघातिनि ।
नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमोऽस्तु नारायणि चक्रधारिणि ॥ ५८॥
नमोऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमोऽस्तु ते ।
नमोऽस्तु ते वज्रधरे गजध्वजे नमोऽस्तु कौमारि मयूरवाहिनि ॥ ५९॥
नमोऽस्तु पैतामहहंसवाहने नमोऽस्तु मालाविकटे सुकेशिनि ।
नमोऽस्तु ते रासभपृष्ठवाहिनि नमोऽस्तु सर्वार्त्तिहरे जगन्मये ॥ ६१॥
नमोऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम् ।
नमोऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद ॥ ६१॥
ब्रह्माणी त्वं मृडानी वरशिखिगमना शक्तिहस्ता कुमारी वाराही
त्वं सुवक्त्रा खगपतिगमना वैष्णवी त्वं सशार्ङ्गी ।
दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री
सवज्रा त्वं मारी चर्ममुण्डाशवगमनरता योगिनी योगसिद्धा ॥ ६२॥
नमस्ते त्रिनेत्रे भगवति तव
चरणानुषिता ये अहरहर्विनतशिरसोऽवनताः ।
न हि न हि परिभवमस्त्यशुभं
च स्तुतिबलिकुसुमकराः सततं ये ॥ ६३॥
एवं स्तुता सुरवरैः सुरशत्रुनाशिनी
प्राह प्रहस्य सुरसिद्धमहर्षिवर्यान् ।
प्राप्तो मयाऽद्भुततमो भवतां प्रसादात्
सङ्ग्राममूर्ध्नि सुरशत्रुजयः प्रमर्दात् ॥ ६४॥
इमां स्तुतिं भक्तिपरा नरोत्तमा भवद्भिरुक्तामनुकीर्त्तयन्ति ।
दुःस्वप्ननाशो भविता न संशयो वरस्तथान्यो व्रियतामभीप्सितः ॥ ६५॥
इति वामनपुराणे षट्पञ्चाशत्तमाध्यायान्तर्गतं
देवैः कृतं देवीस्तोत्रं समाप्तम् ।
वामनपुराण । अध्याय ५६/५६-६३॥
vAmanapurANa . adhyAya 56/56-63..
Proofread by PSA Easwaran