देवैः कृतं ७ देवीस्तोत्रम्
व्यास उवाच ।
इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ २२॥
हिमालयं महाराज देवीध्यानपरायणाः ।
मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ २३॥
नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् ।
तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ २४॥
नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते ।
नमो दानवान्तप्रदे मानवाना- मनेकार्थदे भक्तिगम्यस्वरूपे ॥ २५॥
न ते नामसङ्ख्यां न ते रूपमीदृ- क्तथा कोऽपि वेदादिदेवस्वरूपे ।
त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव ॥ २६॥
स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धिर्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती ।
सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम् ॥ २७॥
यदा यैः स्वरूपैः करोषीह कार्यं
सुराणां च तेभ्यो नमामोऽद्य शान्त्यै ।
क्षमा योगनिद्रा दया त्वं विवक्षा
स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ २८॥
कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः ।
दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता ॥ २९॥
किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव ।
यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ ३०॥
न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्ववन्द्ये ।
कृपापात्रमित्येव मत्वा तथास्मान्
भयेभ्यः सदा पाहि पातुं समर्थे ॥ ३१॥
विना बाणपातैर्विना मुष्टिघातैर्विना शूलखड्गैर्विना शक्तिदण्डैः ।
रिपून्हन्तुमेवासि शक्ता विनोदा- त्तथापीह लोकोपकाराय लीला ॥ ३२॥
इदं शाश्वतं नैव जानन्ति मूढा न कार्यं विना कारणं सम्भवेद्वा ।
वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्तास्य विश्वस्य चेति ॥ ३३॥
अजः सृष्टिकर्ता मुकुन्दोऽवितायं हरो नाशकृद्वै पुराणे प्रसिद्धः ।
न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता ॥ ३४॥
त्रिभिस्त्वं पुराऽऽराधिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा ।
त्वया संयुतास्ते प्रकुर्वन्ति कामं जगत्पालनोत्पत्तिसंहारमेव ॥ ३५॥
ते किं न मन्दमतयो यतयो विमूढा-
स्त्वां ये न विश्वजननीं समुपाश्रयन्ति ।
विद्यां परां सकलकामफलप्रदां तां
मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम् ॥ ३६॥
ये वैष्णवाः पाशुपताश्च सौरा दम्भास्त एव प्रतिभान्ति नूनम् ।
ध्यायन्ति न त्वां कमलाञ्च लज्जां कान्तिं स्थितिं कीर्तिमथापि पुष्टिम् ॥ ३७॥
हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा ।
भुवि भजन्ति न येऽल्पधियो नरा जननि ते विधिना खलु वञ्चिताः ॥ ३८॥
जलधिजापदपङ्कजरञ्जनं जतुरसेन करोति हरिः स्वयम् ।
त्रिनयनोऽपि धराधरजाङ्घ्रिपं- कजपरागनिषेवणतत्परः ॥ ३९॥
किमपरस्य नरस्य कथानकै- स्तव पदाब्जयुगं न भजन्ति के ।
विगतरागगृहाश्च दयां क्षमां कृतधियो मुनयोऽपि भजन्ति ते ॥ ४०॥
देवि त्वदङ्घ्रिभजने न जना रता ये
संसारकूपपतिताः पतिताः किलामी ।
ते कुष्ठगुल्मशिराधियुता भवन्ति
दारिद्र्यदैन्यसहिता रहिताः सुखौघैः ॥ ४१॥
ये काष्ठभारवहने यवसावहारे
कार्ये भवन्ति निपुणा धनदारहीनाः ।
जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा
पूर्वे भवे जननि तैर्न कृता कदापि ॥ ४२॥
इति देवीभागवते पञ्चमस्कन्धे २२-अध्यायान्तर्गतं
देवैः कृतं देवीस्तोत्रं सम्पूर्णम् ।
देवीभागवतम् । स्कन्ध ५। अध्याय २२/२२-४२॥
devIbhAgavatam . skandha 5. adhyAya 22/22-42..
Proofread by PSA Easwaran