देवैः कृतं कात्यायनीस्तोत्रम्
अथ देवाः स्तुतिं चक्रे समाजे विजये ततः ।
कात्यायनि! नमस्तुभ्यं कौशिकि! ते नमो नमः ॥ ९०॥
कालिके कालि तेऽजस्रं चामुण्डे ते नमो नमः ।
महामारि नमस्तुभ्यं ते ब्रह्माणि नमो नमः ॥ ९१॥
चान्द्रि च वारुणि कुण्डलिनि तुभ्यं नमो नमः ।
त्रिशूलिनि नमस्तुभ्यं कौमारि शक्तिनि! नमः ॥ ९२॥
नारसिंहि शिवदूति! वैष्णवि! ते नमो नमः ।
वाराहि चण्डिके चण्डे चर्ममुण्डे च ते नमः ॥ ९३॥
रौद्रि सिंहि यमदासि याम्ये देवि च ते नमः ।
ईशानि दिक्प्रपाले ते नैरृतायै च ते नमः ॥ ९४॥
ऐन्द्रि च वायवि भद्रे भगवत्यस्तु ते नमः ।
नमोऽस्त्वनन्तरूपे ते नमस्ते राज्यदायिनि! ॥ ९५॥
नमस्ते दैत्यदर्पघ्नि नमोऽष्टादशबाहवि ।
नमो नारायणि ब्राह्मि चक्रधारिणि ते नमः ॥ ९६॥
नमो वज्रधरे हस्तिध्वजे तेऽस्तु नमो नमः ।
मयूरवाहिनि तेऽस्तु नमस्ते हंसवाहिनि ॥ ९७॥
मुण्डमाले नमस्तेऽस्तु सुकेशिनि नमोऽस्तु ते ।
त्रिनेत्रे वरदे देवि नमस्तेऽस्तु प्रसीद च ॥ ९८॥
प्रपन्नाऽऽर्तिहरे देवि मातः प्रसीद पाहि च ।
महीरूपे सदाधारे जलरूपे च तृप्तिदे ॥ ९९॥
बीजरूपे मोहरूपे मुक्तिरूपे नमोऽस्तु ते ।
विद्यारूपे समस्तस्त्रीस्वरूपे ते नमो नमः ॥ १००॥
स्वर्गमोक्षप्रदे देवि नारायणि नमोऽस्तु ते ।
कालरूपे तत्त्वरूपे कार्यकारणरूपिणि ॥ १०१॥
त्रिगुणे निर्गुणे देवि महामाये हृदिस्थिते ।
सर्वाऽन्तर्यामिणि देवि नारायणि नमोऽस्तु ते ॥ १०२॥
ब्रह्माणि हंसयानस्थे शिवानि वृषभस्थिते ।
वैष्णवि गरुडस्थे ते नारायणि नमोऽस्तु ते ॥ १०३॥
मातृरूपे स्तन्ययुक्ते पत्नीरूपे सगर्भिके ।
रतिरूपे जीवशान्ते नारायणि नमोऽस्तु ते ॥ १०४॥
युगे युगे महाऽसुरोपद्रवनाशनं कुरु ।
देवानां रक्षणं चैव नारायणि नमोऽस्तु ते ॥ १०५॥
शरण्यानां सदा बाधाघातनं कुरु सर्वथा ।
त्रिशूलं सर्वदा भीतेः पातु देवि नमोऽस्तु ते ॥ १०६॥
घण्टा पातु च पापेभ्य खड्गः सुखं करोतु च ।
पाशाद्यास्ते सदा पान्तु नश्च देवि नमोऽस्तु ते ॥ १०७॥
सृष्टौ सदा त्वया कार्यमेवमेव तु रक्षणम् ।
रक्षणाय सदा देवि प्रसन्नाऽस्तु नमोऽस्तु ते ॥ १०८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १६८-अध्यायान्तर्गतं
देवैः कृतं कात्यायनीस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १६८/९०-१०८॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 168/90-108..
Proofread by PSA Easwaran