देवैः कृतं ललितादेवीस्तोत्रम्

देवैः कृतं ललितादेवीस्तोत्रम्

देवा ऊचुः । जय देवि जगन्मातर्जय देवि परात्परे । जय कल्याणनिलये जय कामकलात्मिके ॥ १॥ जयकारि च वामाक्षि जय कामाक्षि सुन्दरि । जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २॥ जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके । जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३॥ जय श्रीकण्ठदयिते जय श्रीललिताम्बिके । जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥ ४॥ जातस्य जायमानस्य इष्टापूर्तस्य हेतवे । नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५॥ कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने । नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७॥ परात्परतरे मातस्तेजस्तेजीयसामपि । अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८॥ रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् । हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९॥ दृशश्चन्द्रार्कदहना दिशस्ते बाहवोऽम्बिके । मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १०॥ क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः । आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११॥ दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते । शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२॥ धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते । यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३॥ स्तनौ स्वाहास्वधाकरौ लोकोज्जीवनकारकौ । प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४॥ प्रत्याहारस्त्विन्द्रियाणि ध्यानं ते धीस्तु सत्तमा । मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५॥ महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव । भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६॥ यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी । आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ १७॥ हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ १८॥ नामरूपविभागं च या करोति स्वलीलया । तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा । नमस्तस्यै महादेव्यै सर्वशक्त्यै नमो नमः ॥ १९॥ यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः । पृथिव्यादीनि भूतानि तस्यै देव्यै नमो नमः ॥ २०॥ या ससर्जादिधातारं सर्गादावादिभूरिदम् । दधार स्वयमेवैका तस्यै देव्यै नमो नमः ॥ २१॥ यथा धृता तु धरिणी ययाकाशममेयया । यस्यामुदेति सविता तस्यै देव्यै नमो नमः ॥ २२॥ यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् । यत्रान्तमेति काले तु तस्यै देव्यै नमो नमः ॥ २३॥ नमो नमस्ते रजसे भवायै नमो नमः सात्त्विकसंस्थितायै । नमो नमस्ते तमसे हरायै नमो नमो निर्गुणतः शिवायै ॥ २४॥ नमो नमस्ते जगदेकमात्रे नमो नमस्ते जगदेकपित्रे । नमो नमस्तेऽखिलरूपतन्त्रे नमो नमस्तेऽखिलयन्त्ररूपे ॥ २५॥ नमो नमो लोकगुरुप्रधाने नमो नमस्तेऽखिलवाग्विभूत्यै । नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमो नमः शाम्भवि सर्वशक्त्यै ॥ २६॥ अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम् । अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमम्ब वर्णये ॥ २७॥ प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि । प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८॥ इति स्तत्वा महादेवीं देवाः सर्वे सवासवाः । भूयो भूयो नमस्कृत्य शरणं जगमुरञ्जसा ॥ २९॥ ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् । वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ ३०॥ इति ब्रह्माण्डपुराणे उत्तरभागे त्रयोदशाध्यायान्तर्गतं देवैः कृतं ललितादेवीस्तोत्रं समाप्तम् । ब्रह्माण्डपुराण । उत्तरभाग । ललिता । अध्याय १३/१-२८॥ brahmANDapurANa . uttarabhAga . lalitA . adhyAya 13/1-28.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam Lalitadevi Stotram
% File name             : devaiHkRRitaMlalitAdevIstotram.itx
% itxtitle              : lalitAdevIstotram (devaiH kRitaM brahmANDapurANAntargatam)
% engtitle              : devaiH kRRitaM lalitA devIstotram
% Category              : devii, devI, brahmANDapurANa, stotra, lalitA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lalitA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmANDapurANa | uttarabhAga | lalitA | adhyAya 13/1-28||
% Indexextra            : (Scans 1, 2, English)
% Latest update         : October 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org