देवैः कृतं पार्वतीस्तोत्रम्
श्रीनारायण उवाच ।
ततो लक्ष्मि! स्तुतिं चक्रुर्देवा ध्यात्वा महेश्वरीम् ।
गङ्गातटे च संहत्य श्रूयतां कथयामि ते ॥ १॥
नमो मात्रे महामात्रे जनन्यै ते मुहुर्नमः ।
नमो मायै महामाये मायायै ते नमो नमः ॥ २॥
ब्रह्माण्यै चाऽक्षराण्यै ते मुक्तान्यै ते नमो नमः ।
वासुदेव्यै च प्रकृत्यै प्रधानायै नमो नमः ॥ ३॥
भूम्नै काल्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
हिरण्यायै सुगर्भायै वैराज्यै ते नमो नमः ॥ ४॥
वरेण्यै वररूपायै गोलोक्यै ते नमो नमः ।
नारायण्यै च कृष्णायै वैकुण्ठायै नमो नमः ॥ ५॥
श्वेतायै च बदर्यै च मार्तण्डायै नमो नमः ।
पावन्यै पवमानायै चाऽव्याकृत्यै नमो नमः ॥ ६॥
सावित्र्यै चापि गायत्र्यै रौद्रायै ते नमो नमः ।
धात्र्यै गौर्यै च वैष्णव्यै ज्योत्स्नायै ते नमो नमः ॥ ७॥
ब्रह्मचारिप्रवर्यायै वीर्यायै ते नमो नमः ।
महत्यै चाभिमानायै चाकूत्यै तै नमो नमः ॥ ८॥
चित्त्यै वृत्त्यै प्रवृत्त्यै च प्रलयायै नमो नमः ।
स्वर्गायै सत्यलोकायै लोकपायै नमो नमः ॥ ९॥
रमायै च जयायै च विजयायै नमो नमः ।
राधायै सर्वकारिण्यै लक्ष्म्यै तेऽस्तु नमो नमः ॥ १०॥
नैरृत्यै सुखसम्पत्त्यै सौम्यायै ते नमो नमः ।
वार्क्ष्यै बीजस्वरूपायै रत्यै देव्यै नमो नमः ॥ ११॥
या देवी सर्वसत्त्वेषु विष्णुमाया व्यवस्थिता ।
न्यासस्तस्यै नतिस्तस्यै नमस्तस्यै नमो नमः ॥ १२॥
चेतना बुद्धिरूपा या निद्रारूपा च या स्थिता ।
छायारूपा क्षुधारूपा शक्तिरूपा च या स्थिता ॥ १३॥
तृष्णा क्षान्तिर्दया प्रोक्ता तस्यै तस्यै नमो नमः ।
लज्जा शान्तिस्तथा श्रद्धा कान्तिर्वृत्तिः स्मृतिस्तथा ॥ १४॥
तुष्टिः पुष्टिश्च या प्रोक्ता तस्यै तुभ्यं नमो नमः ।
धात्र्यै चैव विधात्र्यै ते मात्रे देव्यै नमो नमः ॥ १५॥
असुराणां महानद्य वर्तते समुपद्रवः ।
अन्तः स्थित्वा प्रद्रष्ट्र्यै ते वारं वारं नमो नमः ॥ १६॥
इत्येवं स्तूयमाना सा पार्वती परमेश्वरी ।
स्नानसृत्याऽऽगता तत्र यत्र देवा स्तुवन्ति ते ॥ १७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १६६-अध्यायान्तर्गतं
देवैः कृतं पार्वतीस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १६६/१-१७॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 166/1-17..
Proofread by PSA Easwaran