देवैः कृतं उमास्तोत्रम्
देवा ऊचुः ।
देव्युमे जगतामम्ब शिवलोकनिवासिनि ।
सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि ॥ २६॥
श्रीशक्तिं पावनां शान्तां पुष्टिं परमपावनीम् ।
वयन्नमामहे भक्त्या महदव्यक्तरूपिणीम् ॥ २७॥
शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ।
अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥ २८॥
त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ।
त्वं दीधितिस्सूर्य्यगता स्वप्रपञ्चप्रकाशिनी ॥ २९॥
या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ।
आप्याययति ब्रह्मादितृणान्तं तां नमामहे ॥ ३.३.३०॥
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ॥ ७०॥
त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ॥ ३१॥
निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि ।
तृष्णा कान्तिश्छविस्तुष्टिस्सर्वानन्दकरी सदा ॥ ३२॥
त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ।
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ॥ ३३॥
त्वमन्तःस्वरूपा भूतानां पञ्चानामपि सारकृत् ।
त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ॥ ३४॥
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।
ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ॥ ३५॥
समस्तगीर्वाणगणस्य शक्तिस्तमोमयी धातृगुणैकदृश्या ।
रजः प्रपञ्चात्तु भवैकरूपा या न श्रुता भव्यकरी स्तुतेह ॥ ३६॥
संसारसागरकरालभवाङ्गदुःखनिस्तारकारितरणिश्च निवीतहीना ।
अष्टाङ्गयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै ॥ ३७॥
नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्या सुखानि वितनोषि सदैव जन्तोः ।
निद्रेति याति सुभगा जगती भवा नः सा नः प्रसीदतु भवस्थितिपालनाय ॥ ३८॥
इति शिवपुराणे रुद्रसंहितायां पार्वतीखण्डे
तृतीयाध्यायान्तर्गतं देवैः कृतं उमास्तोत्रं समापतम् ।
शिवपुराण । रुद्रसंहिता । पार्वतीखण्ड । अध्याय ३/२६-३८॥
shivapurANa . rudrasaMhitA . pArvatIkhaNDa . adhyAya 3/26-38..
Proofread by PSA Easwaran