देवीपञ्चरत्न (देवी प्रातःस्मरणम्)
॥ श्रीः ॥
॥ देवी पञ्चरत्नम् ॥
प्रातः स्मरामि ललिता वदनारविन्दं
बिम्बाधरं पृथुल-मौक्तिक शोभिनासम् ।
आकर्ण-दीर्घ-नयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वल-फाल-देशम् ॥ १॥
प्रातर्भजामि ललिता-भुज-कल्पवल्लीं
रत्नांगुळीय-लसदंगुळि-पल्लवाढ्याम् ।
माणिक्य-हेम-वलयांगद-शोभमानां
पुंड्रेक्षु-चाप-कुसुमेषु-सृणीं दधानाम् ॥ २॥
प्रातर्नमामि ललिता-चरणारविन्दं
भक्तेष्ट-दान-निरतं भवसिन्धु-पोतम् ।
पद्मासनादि-सुरनायक-पूजनीयं
पद्मांकुश-ध्वज-सुदर्शन-लाञ्चनाढ्यम् ॥ ३॥
प्रातस्तुवे परशिवां ललितां भवानीं
त्रय्यन्त-वेद्य-विभवां करुणानवद्याम् ।
विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां
विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४॥
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्री शांभवीति जगताम् जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झडिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६॥
॥ इति श्रीमच्छङ्करभगवतः कृतौ देवीपञ्चरत्नं संपूर्णम् ॥
श्रीललितापञ्चरत्नम्
Encoded and proofread by Varadarajan T.S tsv at cs.umanitoba.ca