देवि दुर्गे ! नमस्ते
माङ्गल्यानां त्वमसि जननी देवि दुर्गे ! नमस्ते
दौर्बल्यानां सबल-हरणी भक्ति-माल्यै-र्वरेण्या ।
त्वं शल्यानां समुपशमनी शैलजा शूलहस्ते !
वात्सल्यानां मधुर-झरणा देहि भद्रं शरण्या ॥ १॥
त्वं गायत्री निखिल-जगतामन्नपूर्णा प्रसन्ना
मेधा विद्या त्वमसि शुभदा शाम्भवी शक्तिराद्या ।
मर्त्त्ये लोके सकल-कलुषं नाशय स्वीय-धाम्ना
सिंहासीना कुरु सुकरुणां शङ्करी विश्ववन्द्या ॥ २॥
संसारश्री-र्जनय सुखदां भावनां सुप्रकाशां
शं शर्वाणी वितर तमसां ध्वंसिनी पावनी त्वम् ।
पापाचारैः प्रबल-मथितां दुष्टदैत्यै-र्निराशां
पृथ्वीमार्त्तां व्यथित-हृदयां त्राहि कात्यायनी त्वम् ॥ ३॥
रुद्राणी त्वं वितर सुभगं मातृका सन्मतीनां
शान्ति-र्धर्मः प्रसरतु जने त्वत्प्रसादैः शिवानि ! ।
घोरा काली भव कलियुगे घातिनी दुर्गतीनां
त्वं भक्तानामभय-वरदा भीममूर्त्ति-र्भवानि ! ॥ ४॥
वन्दे मातस्तव सुविमलं पाद-राजत्-सरोजं
दुर्गे दुःखं हर दशभुजा देहि सानन्दमोजम् ।
त्वं पद्मास्या हसित-मधुरं सौरभं तन्वती स्वं
मोहस्तोमं हर सुमनसां पूजिता पाहि विश्वम् ॥ ५॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher