श्रीदेविकालहरी

श्रीदेविकालहरी

श्रियामायानं यद्विमलवसने सर्वजगतां- क्रियास्पाम्बुध्नन्ते नियत हविषां पावनविधौ । धियां पावित्रीयोऽवनिविदिततीर्थं वनमयं- वपुश्चेदं शर्वे सकलमशुभं वारयतु नः ॥ १॥ शिवार्डाङ्गे वासो विधिजतनयायाः प्रथमतो गृहन्ते कैलासे रजितभुवनभ्राजिततटे । अमर्त्याऽऽक्रीडे बाऽप्यवनिधरपुत्र्यास्सुरनते- सरिद्रूपञ्चैतद्धरतु जगतां पापमखिलम् ॥ २॥ इदङ्कर्म्माधानम्भुवनजगतौ खण्डमखिलं पवित्रीकर्तुं वै नवसलिलबिम्बं विदधती । प्रभासे शुद्धे च द्रुमवति सुघाटे सुरपतेः- समुत्तीर्णाधाराभरणवसना शैवशिखरात् ॥ ३॥ सरिद्रूपन्धत्वाजनि वृजिननाशङ्करु शिवं- जनानां मद्राणां गृहतनयवित्ताप्तमनसाम् । उवाचेदं शम्भुर्मृदुतरमनोज्ञं मधुवचः- भवानीमापन्नां विनयनतदेहां निजगिरौ ॥ ४॥ शिवाशम्मोराज्ञां परिणतगुणस्यामरगणैः- गृहीत्वा कैलासाज्जनकुशलभावाभिजननी । समुत्तीर्णादृष्ट्वा हरशिरसि जातां सुरनदीं- दधौ रूपम्भव्यं वनमयवपूर्दाचिकमिदम् ॥ ५॥ तदाशम्भूरूपं मुनिवरनृतं लैङ्गमधिकं- दधारोच्चैस्तीरे भुवनवनशैलद्युतिकरम् । वृषाद्यैर्देवेशैर्न मितवदनैर्बन्धमभितो- भवानी व्याश्लेषादमितमहिमाशङ्कितमनाः ॥ ६॥ यदा चैन्द्रादघाटादचलदमलं वारिनिचयं नुतिङ्गौर्य्यश्चिक्रुर्मुनिवरसमूहाः समुचिताम् । तदा वीणानादध्वनितमुरजैः किन्नरगणैः- स्वरैश्चेदम्भद्रं -त्रिदशवरवध्वा परिजगुः ॥ ७॥ यदाविर्भूतन्ते द्यतिधरपदाद्दाविकपयो- जनानामज्ञानां शमलभवतापोपशमनम् । निषेव्यन्तत्प्राज्ञैर्दिविजनमितन्नो हृदि सदा- वसत्वेवं चक्रुर्नतिमखिलदेवाः श्रुतिधराः ॥ ८॥ समृद्धं- स्वामित्वं परिजनवृतं त्यज्य सहसा- जननयास्तत्वानां मृदुलतटवासाऽमलदृशाम् । पयस्तेस्वादीयो विमलतरमातृप्तिपिबतां- मृषायन्ते, सद्यः सुरवरपदेव्योऽपि विविधाः ॥ ९॥ स्पृशन् यस्सौगन्ध्यन्नवसुमनसां धीरपवन - स्त्वदीयानां प्रावृङ्जनितलहरीणां व्यतिकरात् । पुनातीमां पूतस्त्ववनिमखिलां स्वर्ग सहितां- निनादोऽपान्ते यः शमयति खलूच्चैर्यमरुतम् ॥ १०॥ अमी मातर्धन्याः खगमृगगणां दाविकतटे- पयः पूतं पीत्वा शमितदुरिता दिव्यवपुषः । व्रजन्त्यन्ते शान्तास्त्रिदशवरवृन्दप्रमुदिताः- महन्माहेन्द्रं ते निबिडतरुरम्यं वनमदः ॥ ११॥ अनूरौ स्नान्तीनां जनपदवधूनां घनकुचं स्थितं सौगन्ध्यं यन्मृगमदयुतं दाविकवने । वलन्त्यन्तस्ते तन्मृतमृगसमूहा दिवमिता स्तवैतत्प्राकाम्यं जननि गदितुन्नार्हति विधिः ॥ १२॥ त्वदम्बूनां नाम स्मरति हृदये दाविकमिति- जनः पावित्रीयान्भवति शतपापैरपि वृतः । अहो चालं वासो जननि तव तीरे वनमहो जनोद्धारं बद्धादृढपरिकरं त्वङ्कुरु भवात् ॥ १३॥ श्रितोऽपान्तेमातर्विषयविषतृष्णावृतचिदां अदृश्यः पाताले त्वमितवलवल्यादिभिरपि । कफादिव्यावर्तं वदनविवरं जातु विशतां- शरीरान्ते तावत्यरमफलदो नोऽपि भवतु ॥ १४॥ पिनाकीकैलाशे पदविधुतिभिर्नृत्यति मुदा- विभुश्शेतामब्धौ भुजगमृदुभोगोऽपि शयने । विधातात्रैपृष्टे त्वविरतसमाधिर्भवतु वा तदौदास्यन्दृष्ट्वा जननि तव तीरं ह्यपगतः ॥ १५॥ विभुर्भङ्क्ताऽतर्कोमदनभटहन्ता च मनसा उपेक्षन्ते मान्यैर्द्रुतपिहितकर्णाः करपुटैः । स्फुटस्ते व्यासङ्गो मदपतितनिस्तारणकृतौ प्रतोमातस्त्वां वै शरणपदवीं यामि सततम् ॥ १६॥ अव्यक्तं वात्यैः पिशुनमनुजैर्यन्न्यपहृतं- विगर्ह्यन्तून्मत्तैरतिपतितवृन्दैः परिहृतम् । हरन्त्येनःसर्वं श्रमविरहितैका विजयते- यदुद्धारौदास्यं भवति भजतान्मार्द्रहृदया ॥ १७॥ यदौदास्यं जाताऽऽस्यमलहृदयध्यानपथगे- ममाघन्यू हान्तेऽकृतयजनहव्याधिपनतेः । तदानीमेवायें जगति जयिनामूर्जितयशो- लयं याता रम्यं शमनभटहासंस्तवतटे ॥ १८॥ मदोन्मत्तानस्तान् वृषलरमरणीसक्तमनसः- महारोगग्रस्तान् करपदविहीनानपि नरान् । जडान्यन्धव्यङ्गान्प्रकृतिविषमाद्यानपिनरान् परित्यक्तान्देवैरमतमवितुं स्वौषधमसि ॥ १९॥ यदन्तः क्रीडन्तोन्वनवरतमानन्दभरिता- न गृध्राःश्वेतास्ते त्रिदिवगमनेच्छाजितयमाः । निवेशान्नारीणामशुभशमनोऽवद्यवपुषां तटोऽयं मातस्ते भव विगमशूरो भवतु नः ॥ २०॥ विभान्तेभूतेशाजटिलशिरसश्चन्द्रविभया- निनेतुं ह्यायातायम पुरमघा ये यमभटाः । कृता वासन्तीरे जननि तव शुद्धे च मनुजं- गतं पञ्चत्वं ते हृतकलुषमालोक्य विगताः ॥ २१॥ बृहत्त्वद्वीचीनाममलपयसा मार्ज्जितवपुः शरीरान्ते शेते धृतिधर नरो दाविकतटे । तदैनद्धित्वार्ये व्रजति पदमाद्यं मधुरिपो- र्विमानस्थो मान्यस्त्वदिति तनुजातामपि दिवि ॥ २२॥ सुशैलं निश्शोक कमनकलहंसाद्यभिरमं- तरुवातच्छायं कुसुमभरलुब्धालिनिचितम् । सुधा प्रख्या धारापतनध्वनितं दाविकमिदं पुनीतं तीरन्ते मदघवृकयूथं विधमतु ॥ २३॥ भवत्यां सावित्र्यां श्रुतिकुशलमादौ व्यवसितं- शिवम्भूर्यायासं विधिधृतविशेषं बहुषथम् । तदेवायं धत्ते त्रिदिवगमनायाश्ववहित- स्तवैतेनैवतन्नवलषयसाऽभ्येति सकलम् ॥ २४॥ प्रवाहेऽपान्तेयाः सिततरलहर्य्यो घनतटा- स्तरङ्गैरुत्तेङ्गैर्मृदुल पवनैश्चापि च लतैः । सुधासिन्धो मातर्भव वनभवाग्निञ्चलशिखं नयन्त्वार्द्रेः शान्तिं विवनगृहकूपप्रपतिताम् ॥ २५॥ इयं या ते मूर्तिः सुरवरनुता पावनमयी- जनानां येषां हृन्नवनलिन नालं यदि गता । निहन्त्याश्वेनांसि त्वरुण इव भूर्यास्तृततमः- घटस्वेदानी मे यमरणकृपोद्धारसरणीम् ॥ २६॥ शरच्चन्द्रामां त्वाममलविधुबिम्बार्द्धमुकटां- सुनद्धग्रेवेयदयुतिनिकरभूषाङ्गदधतीम् । जपन्त्यायत्ताहृन्नवजलजकोशे सुमनसः- न तेषां भक्तानां क्वचिदपि च याम्यः परिभवः ॥ २७॥ स्तवैर्देवींस्तव्यां श्रुतिविदितसारार्थललितैः- महापद्मासीनां वजनवरदां शुभ्रवसनाम् । स्मरन्ति ध्यानेनैकतरमनसा येऽधधमनीं- विसृज्येमं मर्त्या गिरिशधरश‍ृङ्गेऽमृतभुजः ॥ २८॥ वहन्तीं शीतांशुं शिरसि तव सीमन्तसरणीं- द्विधाभिन्नाकेशां करविधृतपद्मां विधिनुताम् । जनास्त्वद्भृत्या ये त्ववनिपृथुपृष्ठे सुविमले- भजन्ति त्वामम्ब प्रतिदिवसमाजन्मपविताः ॥ २६॥ हरन्त्याः सत्वानां दुरितसमवायं शिवचिदा- स्वसृष्टानाम्भूतैः प्रबलगुणमय्या गिरिसुते । धृता पश्चाद्ङ्गे हतमनसिजेनातिवशिना- महत्वं वक्तुन्ते कथमपि न विज्ञः प्रभवति ॥ ३०॥ समृद्धित्वं भूमेर्जलधिपरिधे रिवितथं- किमीश त्वं क्रीडारचितजगतां यत्पशुपतेः । स्मृतीनां वैचित्र्यं फलमथ सतां पुण्यनिवहं- षयः पीयूषाभं तव जननि शन्नः प्रदिशतु ॥ ३१॥ विरिञ्चिः सञ्चिन्वंस्तव चरणकञ्जोद्भवपयः- स देवान्सर्वेशः प्रजनयति लोकानवरतम् । विमृग्यं शेषेणाऽप्यवनिदधता सैव शिखरात् समुत्तीर्णा कर्तुं दिविज नरसूद्धारणविधिम् ॥ ३२॥ शचीशोऽपीदन्ते ललितचरणाम्भोजसलिलं- गजेन्द्रादुत्तीर्यावनितलमगम्यं दिविषदाम् । शिरस्याधत्ते यो मणिमयकिरीटद्युति मति- र्वृतो देवव्रातैस्त्रिदशवनितान्त्यमुदितैः ॥ ३३॥ सुरस्त्रीसङ्घातस्त्रिदिवभुवनाद्दाविकपयः- परिस्नातुं यातस्तव जननि तीरं हयमुखैः । जगौ चेदम्भद्रं श्रुतिमृदुलमध्यं समुरजै- रभूतत्सङ्गीतं गिरिशसुखदङ्कीचकरवम् ॥ ३४॥ मुनिव्रातैर्यत्तैस्समरशतधीरैश्च कृतिभिः- सुरज्येष्ठेनापि स्मरभटमजेयं हि बलिनम् । निहत्याजौ रुद्रोऽखिलभुवनवन्द्या सुयतिता- मगात्त्वत्सम्पर्कादशुभशमनी नो भव शिवे ॥ ३५॥ इदन्ते शीताम्भः स्फटिकप्रतिमं कौतपविधौ- प्रयुक्तं पश्यानान्दुरितभरविस्राब्धिपतिताम् । व्यसूनामुद्धारञ्जन निकुरुते ते च विदिते- महीयन्ते लोके शिशिरशशिनः शान्तवपुषः ॥ ३६॥ लतासम्पृक्तानान्नवकुसुमभारप्रवहता- न्तरूणान्तामस्यं मधुकरवृतानां परिगतम् । त्वदीयानां पानाद्विशदपयसामाज्जवपदै- स्तरङ्गोत्सृष्टानाञ्जननि तरुजन्मापि च यतः ॥ ३७॥ चलद्वीचीक्षोभभ्रमित झषचक्रोर्ज्जितरवे- जगत्प्राणोद्भूतदृमगलितपुष्पाऽऽस्तृततटे । प्रवाहे त्वद्वारां पिकशिखिगणा येऽतिमधुरं- नदन्तीहाऽऽलोकध्वनय इव पूलाङ्घ्रिपगृहाः ॥ ३८॥ अहोऽन्तर्मद्राणां हिमगिरिगुरोर्डुग्रहृदयात्- सहस्राराधारे भगवति शिवे दाविकमयै । चतुर्विंशत्कोशायतिरपि चतुर्विस्तृतिरथो मुमुक्षुप्रेतानां तरणि ! तरणी नत्वदपरा ॥ ३९॥ नमश्चिद्रूपायै त्रिगुणबलमय्यै प्रकृतये नमः सद्रूपायै विधुशकलमौलेऽखिलभृते । सरिद्रूपायै ते पवितवसुधायै श्रुतवतां- ददत्यै निर्वाणं निरवधिसुखं सत्वनिधये ॥ ४०॥ जगत्पूज्यायै ते यजनफलदायै भव छिदे- नमो मेदिन्यै तेऽखिलवसुधरायै सुश्रवसे नमो धीरायै ते विशदगुणमय्यै सुगतये । नमो वैष्णव्यै ते मुनिवृढयुतायै सुमतये ॥ ४१॥ यस्यास्तेऽमलवीचयो भुवि वदूर्गुप्ताऽऽस्तृता देविके- या धृत्वाऽखिलवन्द्यवेदवदनास्त्वङ्गेऽज लोकङ्गताः । दण्डाद्यस्त्रधरामहोग्रवपुषो याभ्यो यमा दूरत- स्ता दिव्या नरलोकपावनकराः सेव्या बुधैस्सर्वदा ॥ ४२॥ यस्मिन्प्रपीते पयसि त्वदीये नृणामघं नश्यति चान्तराश्रितम् । स्वच्छं सुधासम्मितमद्यनस्त- त्करोतु भव्यम्भवभीतचेतसाम् ॥ ४३॥ त्वत्पादसम्भून्नपयः प्रचेतास्तं धार्य्य पूतं शिरसाप सिद्धिम् । शेषस्त्वदीयान्विदितान्गुणान्वै शक्नोति नैवाद्यतने न मातुम् ॥ ४४॥ त्वमेव गङ्गा यमुना त्वमेव त्वमेव सिन्धुश्च सरस्वती वै । त्वन्देविकारूपमपौह शर्वे दधर्थलोकाय विनाशनाय ॥ ४५॥ त्वमेव मातर्बहुधा व्यवस्थिता त्वमेव माया खलु शाम्भवीति । त्वत्तोऽप्यनन्ता जगतःप्रसूति- स्तत्वैश्चिदाभास बलेन देव्याः ॥ ४६॥ सदाऽऽपोज्योतिष्टेऽवनिदहरगान्तः प्रवहति भुवः पृष्ठस्थानां सकलशमलानि प्रदहति । इदानीं हिन्दूनां निखिलकलुषं त्वं परिहर कुरुष्वैतान्नित्यं हृदयबलयुक्तानृषिवृढान् ॥ ४७॥ सदाचारै निष्ठान्प्रबलतमदुष्टक्षयकरान् प्रचारे वेदानामनुदिनमधियज्ञ रुचियुताम् । गृहेष्वासक्तानां हृदि सबलनिष्ठां द्रढयितुं- सशक्तान्वाग्भक्ताज्जननि ! कुरु सद्योऽग्रजवरान् ॥ ४८॥ अज्ञात विदुषा सृष्टां लहरीं देविका प्रियाम् । विहारीलाल वासिष्ठो मुद्राप्यैनां समर्पये ॥ ॥ इति श्रीदेविकालहरी सम्पूर्णा ॥ Encoded and proofread by Mandar Mali
% Text title            : Devika Lahari
% File name             : devikAlaharI.itx
% itxtitle              : devikAlaharI
% engtitle              : devikAlaharI
% Category              : devii, devI, laharI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at  gmail.com
% Proofread by          : Mandar Mali aryavrutta at  gmail.com
% Indexextra            : (Scan and Info)
% Latest update         : March 6, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org