ब्रह्माकृतः देविस्तवः

ब्रह्माकृतः देविस्तवः

ब्रह्मोवाच । जाने देवीमीदृशीं त्वां महेशीं क्रीड़ास्थाने स्वागतां भूतलेऽस्मिन् । शत्रुस्त्वं वै मित्ररूपा च दुर्गा दुर्गम्या त्वं योगिनामन्तरेऽपि ॥ १॥ एकानेका सूक्ष्मरूपाविकारा ब्रह्माण्डानि कोटिकोटिः प्रसूषे । कोऽहं विष्णुः कोपरो वा शिवाख्यो देवाश्चान्ये स्तोतुमीशा भवेम ॥ २॥ त्वं वै स्वाहा त्वं स्वधा त्वञ्च वौषट् त्वञ्चौङ्कारस्त्वञ्च लज्जादिवीजम् । त्वं वै स्त्री च त्वं पुमान् सर्वरूपा त्वां सन्नत्वा बोधये न प्रसीद ॥ ३॥ त्वं वै वर्षो देवता कालरूपा त्वं वै मासस्त्वं ऋतुश्चायने द्वे । कव्यं भुङ्क्षे त्वं यथा वै स्वधाख्या तद्वत् स्वाहा हव्यभोक्त्यम्ब देवि ॥ ४॥ त्वं वै देवाः शुक्लपक्षेषु पूज्यास्त्वं पित्र्याद्याः कृष्णपक्षे प्रपूज्याः । त्वं वै सत्यं निष्प्रपञ्चस्वरूपं त्वां नत्वाहं बोधये नः प्रसीद ॥ ५॥ द्वारेणार्केणायने त्वाद्यके त्वां मुक्तिं यान्ति त्वत्पदध्यानयोगात् । चन्द्रद्वारेणायने तु द्वितीये त्वां वै मुक्तिं यान्त्यमी देवि सूक्ष्माम् ॥ ६॥ उच्चैर्नीचं नीचमुच्चैश्च कर्तुं चन्द्रञ्चार्कं त्वं विधातुं समर्था । तत्राकाले शक्तिरूपा भव त्वं त्वां नत्वाहं बोधये तत्प्रसीद ॥ ७॥ त्वं वै शक्ती रावणे राघवे वा रुद्रेन्द्रादौ मय्यपीहास्ति या च । सा त्वं शुद्धा राममेकं प्रवर्त्त तत् त्वां देवीं बोधये नः प्रसीद ॥ ८॥ ॥ इति बृहद्धर्मपुराणान्तर्गते ब्रह्माकृतः देविस्तवः ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः २२। ४-११ ॥ Proofread by Ruma Dewan
% Text title            : Devistava by Brahma
% File name             : devistavaHbrahmakRRitaH.itx
% itxtitle              : devistavaH brahmakRitaH (bRihaddharmapurANAntargataH)
% engtitle              : devistavaH brahmakRitaH
% Category              : devii, devI, bRihaddharmapurANam
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 22| 6\-11 ||
% Indexextra            : (Scan, Meaning)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org