ब्रह्माकृतः देविस्तवः
ब्रह्मोवाच ।
जाने देवीमीदृशीं त्वां महेशीं क्रीड़ास्थाने स्वागतां भूतलेऽस्मिन् ।
शत्रुस्त्वं वै मित्ररूपा च दुर्गा दुर्गम्या त्वं योगिनामन्तरेऽपि ॥ १॥
एकानेका सूक्ष्मरूपाविकारा ब्रह्माण्डानि कोटिकोटिः प्रसूषे ।
कोऽहं विष्णुः कोपरो वा शिवाख्यो देवाश्चान्ये स्तोतुमीशा भवेम ॥ २॥
त्वं वै स्वाहा त्वं स्वधा त्वञ्च वौषट् त्वञ्चौङ्कारस्त्वञ्च लज्जादिवीजम् ।
त्वं वै स्त्री च त्वं पुमान् सर्वरूपा त्वां सन्नत्वा बोधये न प्रसीद ॥ ३॥
त्वं वै वर्षो देवता कालरूपा त्वं वै मासस्त्वं ऋतुश्चायने द्वे ।
कव्यं भुङ्क्षे त्वं यथा वै स्वधाख्या तद्वत् स्वाहा हव्यभोक्त्यम्ब देवि ॥ ४॥
त्वं वै देवाः शुक्लपक्षेषु पूज्यास्त्वं पित्र्याद्याः कृष्णपक्षे प्रपूज्याः ।
त्वं वै सत्यं निष्प्रपञ्चस्वरूपं त्वां नत्वाहं बोधये नः प्रसीद ॥ ५॥
द्वारेणार्केणायने त्वाद्यके त्वां मुक्तिं यान्ति त्वत्पदध्यानयोगात् ।
चन्द्रद्वारेणायने तु द्वितीये त्वां वै मुक्तिं यान्त्यमी देवि सूक्ष्माम् ॥ ६॥
उच्चैर्नीचं नीचमुच्चैश्च कर्तुं चन्द्रञ्चार्कं त्वं विधातुं समर्था ।
तत्राकाले शक्तिरूपा भव त्वं त्वां नत्वाहं बोधये तत्प्रसीद ॥ ७॥
त्वं वै शक्ती रावणे राघवे वा रुद्रेन्द्रादौ मय्यपीहास्ति या च ।
सा त्वं शुद्धा राममेकं प्रवर्त्त तत् त्वां देवीं बोधये नः प्रसीद ॥ ८॥
॥ इति बृहद्धर्मपुराणान्तर्गते ब्रह्माकृतः देविस्तवः ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः २२। ४-११ ॥
Proofread by Ruma Dewan