देवताकृता देविस्तुतिः
देवा ऊचुः ।
नमस्ये पुण्डरीकाक्षीं देवीं परमदेवताम् ।
कालीं त्रिनेत्रां वरदां शाम्भवीं शाङ्करीं शिवाम् ॥ १॥
भक्तिप्रियां भक्तिरूपां भवानीं भववल्लभाम् ।
भैरवीं भीमवदनां भीमां भीमाननां शुभाम् ॥ २॥
वैष्णवीं विष्णुरूपाञ्च विष्णुकार्यकरीं क्रियाम् ।
संहारकारिणीं सृष्टिकारिणीं स्थितिकारिणीम् ॥ ३॥
कपर्द्दिनीं करालाक्षीं चन्द्रशोभितमस्तकाम् ।
श्यामां श्वेतां तथा गौरीं विचित्रां चित्रसुन्दरीम् ॥ ४॥
कौमारीं शक्तिधात्रीञ्च देवानां शक्तिरूपिणीम् ।
चतुर्भुजाञ्च द्विभुजां षड्भुजाष्टभुजान्तथा ॥ ५॥
देवीं दशभुजां कालीं बाहुषोड़शसंयुताम् ।
अष्टादशभुजां कालस्वरूपां लक्षनेत्रिणीम् ॥ ६॥
सहस्त्रचरणां कोटिच्छविं निष्फलरूपिणीम् ।
स्थूलां शुद्धाञ्च सूक्ष्माञ्च खर्वाञ्चाथ महत्तमाम् ॥ ७॥
दीर्घजिह्वामप्रमेयां स्तवनीयां वृहच्छिलाम् ।
कामरूपां कामगमां मन्त्ररूपां जगन्मयीम् ॥ ८॥
ब्रह्माण्डकोटिजठरां सर्वामाकाशवासिनीम् ।
विन्ध्याद्रिनिलयां शैलतनयां लोकपावनीम् ॥ ९॥
शिववृक्षस्थितां विल्वलस्थां गिरिवासिनीम् ।
श्रीदुर्गां दुर्गतिहरां शान्तां शान्तजनप्रियाम् ॥ १०॥
पद्मालयाञ्च पद्माक्षीं सहस्त्रदलवासिनीम् ।
त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिस्त्रिविधा प्रसूः ॥ ११॥
त्वां नमस्यामहे देवीं दयार्द्रहृदयां शिवाम् ।
स्त्रीरूपां परमानन्दरूपां ब्रह्मसनातनीम् ।
नमामः प्रणमामस्त्वां सन्नमामः सुभक्तितः ॥ १२॥
सर्वस्वरूपां सर्वेशीं सर्वशक्तिसमन्विताम् ।
त्वां नमस्यामहे देवी भयेभ्यस्त्राहि नोऽम्बिके ॥ १३॥
इति बृहद्धर्मपुराणान्तर्गता देवताकृता देविस्तुतिः सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्ययः २१। ५१-६१ , ६३-६४ ॥
Proofread by Ruma Dewan