मुनिभिः कृता देविस्तुतिः
नमो गौर्यै महागौर्यै भवान्यै प्रणतां वयम् ।
प्रणता सा हि गिरिजे विज्वरान् कुरु सादरम् ॥ १॥
यत्कोपाम्बुधिलेशोऽयं ज्वरः सर्वापहारकः ।
तां नताः स्म वयं सर्वे दुर्गे दुर्गातिहारिणीम् ॥ २॥
अरुणप्राणसंहारकारणे कमलानने ।
भीमे देवि नमस्तुभ्यं भयानि हर सर्वथा ॥ ३॥
वैप्रचित्तमहाघोरशरीरौधनिवर्हणे ।
श्रीरक्तदन्तिके गौरि नमस्तुभ्यं नमो नमः ॥ ४॥
महामाये महादुर्गे मधुनाशनकारिणि ।
नमस्तुभ्यं नमस्तुभ्यं भयं संहर संहर ॥ ५॥
कैटभप्राणहरणप्रवीणे शिववल्लभे ।
नमस्तुभ्यं नमस्तुभ्यं पीडां संहर संहर ॥ ६॥
शाकम्भरि जगद्वन्द्ये शशाङ्कललिताल के ।
नमस्तुभ्यं नमस्तुभ्यं शङ्कातङ्कानि संहर ॥ ७॥
उन्मत्तमहिषारातिगर्वसंहारकारणे । (लक्षणे)
नमस्तुभ्यं नमस्तुभ्यमापन्नर्तिहरोद्यमे ॥ ८॥
(नमस्तुभ्यं महादेवि सर्वरोगविनाशिनि ।
भ्रमराम्बे नमस्तुभ्यं शम्बरारिबविनाशिनि ॥)
सेतुभूपालसंहारप्रवीणे चण्डलाम्बिके ।
नमस्तुभ्यं शिवेशानि त्वयि भक्तिं प्रयच्छ नः ॥ ९॥
नमस्ते जगदाधारे भवभारविनाशिनि ।
नमस्तुभ्यं नमस्तुभ्यं परमानन्दरूपिणि ॥ १०॥
॥ इति शिवरहस्यान्तर्गते मुनिभिः कृता देविस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३७। ८०-८९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 37. 80-89 ..
Proofread by Ruma Dewan