श्रीदेव्यारात्रिका
जय देवि जय देवि जय जय जगदम्ब ।
ब्रह्मरूपे शान्ते निरवधिसुखरूपे ॥ ध्रुवपदम् ॥
अनुपमस्नेहविधात्रि भववारिधिनौके
वैदिकधर्मसुशोभे मोक्षानन्दप्रदे ।
वेदान्तप्रतिपाद्य आद्ये सर्वाद्ये
पञ्चारात्रिका सहजा त्वमानन्दघने ॥ १॥
चिन्मात्रे स्वानन्दे सद्रूपे परमे
नेतीत्याद्यैर्वाक्यैर्जनिमृतिशून्यपदे ।
विमलेऽचलेऽनघे भ्रमवारणशीले
पञ्चारात्रिका सहजा त्वमानन्दघने ॥ २॥
निर्गुणनिष्क्रियरूपे मुनिमानसध्येये
सत्यज्ञानानन्ते परब्रह्माकारे ।
जीवन्मुक्तिपदेच्छापूरणनिष्कामे
पञ्चारात्रिका सहजा त्वमानन्दघने ॥ ३॥
सत्यं ज्ञानमनन्तं नित्यं परिपूर्णं
लक्षणपञ्चकपञ्चारात्रिकाख्यं वेदोक्तम् ।
एकीभूय स्वात्मन्यद्वयचिद्रूपे
पञ्चारात्रिका सहजा त्वमानन्दघने ॥ ४॥
कारणकार्याभावे निःस्फूर्तिकरूपे
मायाविद्याशून्ये नित्यं परिशुद्धे ।
स्तिमितगभीरादृश्ये सन्ततमेकरसे
पञ्चारात्रिका सहजा त्वमानन्दघने ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीदेव्यारात्रिका सम्पूर्णा ।
श्रीक्षेत्रवरदपुरं, संवत्सरः - १९७०
Proofread by Manish Gavkar