श्रीधूमावत्यष्टोत्तरशतनामावलिः
विनियोगः -
ॐ अस्य श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य ईश्वरऋषिः ।
अनुष्टुप्छन्दः । ज्येष्ठा देवता । धां बीजम् । धीं शक्तिः ।
धीमहि कीलकम् । श्रीधूमावतीप्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः -
ॐ ईश्वरऋषये नमः शिरसि ।
ॐ अनुष्टुप्छन्दसे नमः मुखे ।
ॐ ज्येष्ठादेवतायै नमः हृदि ।
ॐ धां बीजाय नमः गुह्ये ।
ॐ धीं शक्तये नमः पादयोः ।
ॐ धीमहि कीलकाय नमः नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः -
ॐ धां अङ्गुष्ठाभ्यां नमः ।
ॐ धीं तर्जनीभ्यां नमः ।
ॐ धूं मध्यमाभ्यां नमः ।
ॐ धैं अनामिकाभ्यां नमः ।
ॐ धौं कनिष्ठिकाभ्यां नमः ।
ॐ धः करतलकरपृष्ठाभ्यां नमः ॥
षडङ्गन्यासः (सदङ्गन्यासः) -
ॐ धां हृदयाय नमः ।
ॐ धीं शिरसे स्वाहा ।
ॐ धूं शिखायै वषट् ।
ॐ धैं कवचाय हुम् ।
ॐ धौं नेत्रत्रयाय वौषट् ।
ॐ धः अस्त्राय फट् ॥
भूर्भुवःस्वरोमिति दिग्बन्धः ॥
ध्यानां -
विवर्णा चञ्चला रुष्टा दीर्घा च मलिनाम्बरा ।
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा ॥
काकध्वजरथारूढा विलम्बितपयोधरा ।
शूर्पहस्ता तिरूक्षाक्षी धूतहस्ता वरान्विता ॥
प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा ।
क्षुत्पिपासार्दिता नित्यं भयदा कलहप्रिया ॥
लं इत्यादि पञ्चोपचारपूजा -
लं पृथिव्यात्मकं गन्धं श्रीधूमावत्यै नमः समर्पयामि ।
वं आप्यात्मकं पुष्पं श्रीधूमावत्यै नमः समर्पयामि ॥
रं वह्न्यात्मकं धूपं श्रीधूमावत्यै नमः आघ्रापयामि ।
यं वाय्वात्मकं दीपं श्रीधूमावत्यै नमः दर्शयामि ।
हं आकाशात्मकं नैवेद्यं श्रीधूमावत्यै नमः निवेदआमि ।
सर्वोपचारान् समर्पयामि ।
॥ इति लं इत्यादि पञ्चोपचारपूजा ॥
अथ श्रीधूमावति मन्त्रः ।
``धुं ह्रीं श्रीं धुमवति धुं धुं नमः ।''
(Simple Mantra, with no rishi, for general use)
ईश्वर उवाच ।
श्रीधूमावत्यै नमः ।
श्रीधूम्रवर्णायै नमः ।
श्रीधूम्रपानपरायणायै नमः ।
श्रीधूम्राक्षमथिन्यै नमः ।
श्रीधन्यायै नमः ।
श्रीधन्यस्थाननिवासिन्यै नमः ।
श्रीअघोराचारसन्तुष्टायै नमः ।
श्रीअघोराचारमण्डितायै नमः ।
श्रीअघोरमन्त्रसम्प्रीतायै नमः ।
श्रीअघोरमन्त्रसम्पूजितायै नमः । १०
श्रीअट्टाट्टहासनिरतायै नमः ।
श्रीमलिनाम्बरधारिण्यै नमः ।
श्रीवृद्धायै नमः ।
श्रीविरूपायै नमः ।
श्रीविधवायै नमः ।
श्रीविद्यायै नमः ।
श्रीविरलाद्विजायै नमः ।
श्रीप्रवृद्धघोणायै नमः ।
श्रीकुमुख्यै नमः ।
श्रीकुटिलायै नमः । २०
श्रीकुटिलेक्षणायै नमः ।
श्रीकराल्यै नमः ।
श्रीकरालास्यायै नमः ।
श्रीकङ्काल्यै नमः ।
श्रीशूर्पधारिण्यै नमः ।
श्रीकाकध्वजरथारूढायै नमः ।
श्रीकेवलायै नमः ।
श्रीकठिनायै नमः ।
श्रीकुहवे नमः ।
श्रीक्षुत्पिपासार्द्दितायै नमः । ३०
श्रीनित्यायै नमः ।
श्रीललज्जिह्वायै नमः ।
श्रीदिगम्बरायै नमः ।
श्रीदीर्घोदर्यै नमः ।
श्रीदीर्घरवायै नमः ।
श्रीदीर्घाङ्ग्यै नमः ।
श्रीदीर्घमस्तकायै नमः ।
श्रीविमुक्तकुन्तलायै नमः ।
श्रीकीर्त्यायै नमः ।
श्रीकैलासस्थानवासिन्यै नमः । ४०
श्रीक्रूरायै नमः ।
श्रीकालस्वरूपायै नमः ।
श्रीकालचक्रप्रवर्तिन्यै नमः ।
श्रीविवर्णायै नमः ।
श्रीचञ्चलायै नमः ।
श्रीदुष्टायै नमः ।
श्रीदुष्टविध्वंसकारिण्यै नमः ।
श्रीचण्ड्यै नमः ।
श्रीचण्डस्वरूपायै नमः ।
श्रीचामुण्डायै नमः । ५०
श्रीचण्डनिःस्वनायै नमः ।
श्रीचण्डवेगायै नमः ।
श्रीचण्डगत्यै नमः ।
श्रीचण्डविनाशिन्यै नमः ।
श्रीमुण्डविनाशिन्यै नमः ।
श्रीचाण्डालिन्यै नमः ।
श्रीचित्ररेखायै नमः ।
श्रीचित्राङ्ग्यै नमः ।
श्रीचित्ररूपिण्यै नमः ।
श्रीकृष्णायै नमः । ६०
श्रीकपर्दिन्यै नमः ।
श्रीकुल्लायै नमः ।
श्रीकृष्णरूपायै नमः ।
श्रीक्रियावत्यै नमः ।
श्रीकुम्भस्तन्यै (स्थन्यै ?) नमः ।
श्रीमहोन्मत्तायै नमः ।
श्रीमदिरापानविह्वलायै नमः ।
श्रीचतुर्भुजायै नमः ।
श्रीललज्जिह्वायै नमः ।
श्रीशत्रुसंहारकारिण्यै नमः । ७०
श्रीशवारूढायै नमः ।
श्रीशवगतायै नमः ।
श्रीश्मशानस्थानवासिन्यै नमः ।
श्रीदुराराध्यायै नमः ।
श्रीदुराचारायै नमः ।
श्रीदुर्जनप्रीतिदायिन्यै नमः ।
श्रीनिर्मांसायै नमः ।
श्रीनिराकारायै नमः ।
श्रीधूमहस्तायै नमः ।
श्रीवरान्वितायै नमः । ८०
श्रीकलहायै नमः ।
श्रीकलिप्रीतायै नमः ।
श्रीकलिकल्मषनाशिन्यै नमः ।
श्रीमहाकालस्वरूपायै नमः ।
श्रीमहाकालप्रपूजितायै नमः ।
श्रीमहादेवप्रियायै नमः ।
श्रीमेधायै नमः ।
श्रीमहासङ्कष्टनाशिन्यै नमः ।
श्रीभक्तप्रियायै नमः ।
श्रीभक्तगत्यै नमः । ९०
श्रीभक्तशत्रुविनाशिन्यै नमः ।
श्रीभैरव्यै नमः ।
श्रीभुवनायै नमः ।
श्रीभीमायै नमः ।
श्रीभारत्यै नमः ।
श्रीभुवनात्मिकायै नमः ।
श्रीभेरुण्डायै नमः ।
श्रीभीमनयनायै नमः ।
श्रीत्रिनेत्रायै नमः ।
श्रीबहुरूपिण्यै नमः । १००
श्रीत्रिलोकेश्यै नमः ।
श्रीत्रिकालज्ञायै नमः ।
श्रीत्रिस्वरूपायै नमः ।
श्रीत्रयीतनवे नमः ।
श्रीत्रिमूर्त्यै नमः ।
श्रीतन्व्यै नमः ।
श्रीत्रिशक्तये नमः ।
श्रीत्रिशूलिन्यै नमः । १०८
इति शाक्तप्रमोदे श्रीधूमावत्यष्टोत्तरशतनामावलिः सम्पूर्णा ।
Encoded and proofread by
Anand senartcon at gmail.com