श्रीधूमावतीकवचम्
श्रीगणेशाय नमः ।
अथ धूमावती कवचम् ।
श्रीपार्वत्युवाच -
धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १॥
श्रीभैरव उवाच -
शृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे ।
कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥ २॥
ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।
योगिनो भव शत्रुघ्ना यस्या ध्यान प्रभावतः ॥ ३॥
ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः
अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् स्वाहा शक्तिः
धूमावती कीलकम् शत्रुहनने पाठे विनियोगः ।
ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।
धूमा नेत्रयुगं पातु वती कर्णौ सदावतु ॥ ४॥
दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
शूर्पहन्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥ ५॥
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
सर्वं विद्यावतु कण्ठं विवर्णा बाहुयुग्मकम् ॥ ६॥
चञ्चला हृदयं पातु धृष्टा पार्श्वं सदावतु ।
धूमहस्ता सदा पातु पादौ पातु भयावहा ॥ ७॥ (धूतहस्ता)
प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
क्षुत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८॥
सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।
इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥ ९॥
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १०॥
इति भैरवीभैरव संवादे धूमावतीतत्त्वे धूमावतीकवचं सम्पूर्णम् ।
Encoded and proofread by Ravi S. Ramphal rramphal at gmail.com, NA