धर्मपुरी गोदावरी वर्णनम्

धर्मपुरी गोदावरी वर्णनम्

कोरिडे विश्वनाथ शर्मा संस्कृतोपन्यासकः श्री लक्ष्मी नरसिंहसंस्कृतान्ध्र कलाशाला अयिकरिकर्णिक ! मूषिकवाहन!! पर्वतजासुत ! साम्बप्रिय ! नुतजनपोषक ! षण्मुखसेवित ! शङ्करचुम्बितफालतट! । वरचतुराननदेवगणार्चित ! दानवभञ्जक ! दासरत! जय गणनायक ! विघ्नविनाशक ! धर्मपुरीजनपाल विभो! अयिनिजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव भोः वररघुवंशकलानिधिकीर्तितराघवसेवितलिङ्गतनो! । निजवरभक्तकृताघविनाशक दासजनार्थितदानरते! जय रजनीकरभूषितशेखर! धर्मपुरीविलसन्निलय! ॥ त्वद्दर्शनं यदि लभे न तु नीलकण्ठ! नामं भजामि यदि कण्ठगतं न ते हि । रूपं स्मरामि तव चेन्न मनोहरं मे तज्जीवनं मम निरर्थकमेव शम्भो ॥ प्रातःकालवर्णनं गोदावरी लक्ष्मीनृहरेःपदाब्जलसिता ब्रह्मादिदेवैर्युता या रामार्चितरामलिङ्गनिलया भक्ताघविध्वंसिनी यस्याः प्राग्दिशि गौतमी रविकरान् प्रक्षालयन्ती सदा सेयं धर्मपुरी सनातनपुरं क्षेत्रं सतीर्थं महत् ॥ १॥ गोदावरीगतसुरार्पणकौतुकेन्दुः पीयूषभाण्डपरिपूर्णसुधाकरो ऽयम् । वीचीनिबद्धप्रतिबिम्बतनुर्नितातं सूर्योदये लसति गच्छति खान्निशेशः ॥ २॥ गोदावरीवरजलेषु विनोदमिच्छुः तारायुतो वरतरङ्गहृतात्मरूपः । आवृत्य वार्वसितकैरवमात्मबन्धुं सूर्योदये लसति गच्छति खाद्धिमांशुः ॥ ३॥ निष्कास्य द्विजराट् तमोऽन्धपटलं यात्येकतो ह्यम्बरात् निद्रामुद्रितमानवान् द्विजवराः जाग्रन्ति रावैर्मुहुः । छित्त्वाऽन्धं द्विजकान्तिभिर्द्विजवराः श्राव्यन्ति वेदश्रुतीः प्रातर्धर्मपुरीपुरस्य हि जनान् कुर्वन्ति चैतन्यकान् ॥ ४॥ गौतम्यास्तु तरङ्गपङ्क्तिनिनदैर्माधुर्यमापूर्यते आब्राह्मी हरिताश्च छात्रवटवः पूर्यन्ति वेदश्रुतीः । गावोऽम्भेति नदन्ति वत्सकगणं स्वोधास्यदानाय ताः प्रातर्धर्मपुरं हि मङ्गलकरैर्ध्वानैः पवित्रीकृतम् ॥ ५॥ यस्यां ब्राह्मणपुङ्गवैरनुदिनं सुस्नातलिप्ताङ्गकैः गायत्री श्रुतिराव सुस्वरगलैर्दत्ताञ्जलिर्भास्करः । स्नात्वा क्षालितरश्मिभिर्नरहरिं सन्द्रष्टुकामो मुदा निद्रामुद्रितपद्ममुन्नयति यः संसेवनाय प्रभोः ॥ ६॥ गोदावरीविमलवारितरङ्गहॄद्यै- र्यत्कैरवैर्रतिमुपेत्य मुदा निशान्ते । इन्दौ गते हि कमलानि निमीलितानि उन्मील्य भास्करकरैर्विकसन्ति प्रातः ॥ ७॥ ये चैव बद्धतनवः कमलोदरेषु भृङ्गा हि भानुहृतचित्तमुमुक्षवस्ते । सन्तुष्टभास्करकरैः सुविमुक्तसङ्गाः गीतोपदेशकवरा ननु यान्ति चोर्ध्वम् ॥ ८॥ श्री वैष्णवा नृहरिसेवनतत्पराश्च दिक्पूर्यमाणशुभमङ्गलवाद्यघोषैः । गोदोदपूर्णवरहेमघटा निवृत्य निर्यान्ति वेदपठनैर्भृतदेवचित्ताः ॥ ९॥ गोपालबालकगणैर्धृतहस्तदण्डैः गावो मुदा प्रतिगृहात् किल मुक्तबन्धाः । वात्सल्यदत्तपयसोऽन्वयगोगणाश्च गोदावरीतटवनं ह्युपयान्ति धीरम् ॥ १०॥ कोक्कोरकोध्वनियुतैर्ननु कुक्कुटैश्च दिक्पूर्यमाणनिनदैः प्रविमुक्तकण्ठैः । जाग्रन्ति येन हि विबुध्य वर त्यक्त मञ्चाः यद्गौतमीनिवहनाय जनास्तु यान्ति ॥ ११॥ यद्गायतो बुध सदाशिव विश्वनाथौ राजन्नशास्त्रिकृतवाङ्मयसेवनं तु । प्राभातिकं ननु सकीर्तनचित्तजिह्वाः गोदावगाढतनवः स्वगृहाणि यान्ति ॥ १२॥ गोदां हि गोपतरुणीमणयस्तरण्यां गोक्षीरपूरितघटाः बहवो तरन्त्यः । ग्रामं प्रविश्य मधुरस्वरकण्ठरावैः उद्घोषयन्ति ननु विक्रयणाय दुग्धम् ॥ १३॥ कन्या गृहाङ्गणतलं परिशुध्य चाद्भिः कृत्वा मुदा रजितभासितरङ्गवल्लीम् । सन्दीप्तगोमयगिरिप्रतिमा विधाय कुर्वन्ति चापहृतचित्तजना हि मार्गम् ॥ १४॥ गङ्गे ! त्रिविक्रमपदोद्भवि ! हे सुरार्च्ये ! त्रैलोक्यपावनि! शिवजटाहृतवारिरूपे! । ? विध्वस्त गौतममहर्षिकृताघराशे! त्वं जागृहीत्युषसि भक्तवराः स्तुवन्ति ॥ १५॥ अभ्यागता विविधदेशसमागताश्च अबालवृद्धपुरवासगणाश्च वीथ्याम् । स्नात्वाऽऽगतान् द्विजवरानभिवन्द्य नम्राः गोदानिमज्जनपरास्त्वरितं प्रयान्ति ॥ १६॥ श्रीशेषयोक्तनिगमान्तभृतात्मतत्त्वं यन्नारसिंहशतकं हरिभक्तिसारं भ्राजन्नृसिंहचरणाब्जकहृष्टचित्ताः गायन्ति प्रोद्गलितगानयुता स्तु नार्यः ॥ १७॥ मालां क्वचिद्धि धनुराकृतिभङ्क्वचिच्च खड्गं क्वचिन्ननु सुदर्शनरूपमन्यत् । भिन्नैः सदाकृतिविशेषगणैर्बलाकाः बध्नन्ति धर्मपुरमम्बरवीथिमार्गम् ॥ १८॥ पित्राज्ञया गतवनो रघुरामचन्द्रः स्नात्वा च यत्र पितरं त्वकरोद्धि तृप्तम् । भक्त्यार्चयत् स्वकृतसैकतलिङ्गमूर्तिं तद्गौतमीस्थसिकता हि पुनन्ति भक्तान् ॥ १९॥ सङ्कल्पमन्त्रपठना वटवा स्तु केचित् केचिन्निमज्जनपरा हरशब्दपूर्वम् । सन्ध्यान्त्वुपासनपराः सुनिमीलिताक्षाः गोदाजलेषु विधिकर्मरता द्विजा हि ॥ २०॥ श्रीनारसिंह वचसा त्वनुलात्मजः किं आज्ञापयेत् कपिकुलं पुररक्षणार्थम् । यत् त्रासयन्ति शठबुद्धिनरांस्तु वीथ्यां सौधाग्रभागविहरद् वरवानरा हि ॥ २१॥ उद्यद्दिनेशकिरणैर्ज्वलदग्नितेजः स्नातानुलिप्तवरभक्तसमाह्वनाय । यद् राजगोपुरमहो हरिमन्दिरस्य धीरं विलोकयति पूर्वदिशाभिमुख्यम् ॥ २२॥ यद्राजगोपुरगवाक्षकवाटमार्गात् आवृत्य पक्षिनिवहान् खलु मेघमालाः । गच्छन्ति मन्दिरमहो शुभकृष्णवर्णाः द्रष्टुं रमानरहरिं विनता निनादैः ॥ २३॥ ब्रह्मादि देवगमनाय शुभाङ्कितं हि भक्ताग्रदैत्यगमनाय महोन्नतं च । यत्स्वागतादरणपूर्वक भृत्यवर्गं यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ २४॥ दीव्यत् सुवर्णकलशैर्ननु भ्राजमानं ? आकाशचुम्बनपरं शिखराग्रभागम् । आदित्यदैत्यप्रतिमाहृतचित्तहृद्यं यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ २५॥ दैनन्दिकेन विधिना गगनान्तरालात् सप्ताश्ववाहनरथं त्वधिरूढभानुम् । आयान्तमाह्वयति हि श्रममोचनाय यद् गोपुरं धृतकपोत सुपुष्पमालम् ॥ २६॥ वराहतीर्थम् यस्मिन् मुदा निवहनाद्धि सभार्यकश्च चिन्तामणिः परमवाप हि मुक्तिमार्गम् । चिन्तमणीति यदगाद्धि सरः प्रसिद्धं वाराहतिर्थमिह राजति धर्मपुर्याम् ॥ २७॥ लक्ष्मीनृसिंहविभुदर्शनसाभिलाषं ग्रामं प्रविष्टमतिथिं ननु सादरेण । भृङ्गानुरञ्जितसुमङ्गलवाद्यघोषैः सुस्वागतं वदति चेह वराहतीर्थम् ॥ २८॥ उत्थाय चैकचरणं च निमील्य नेत्रे ध्यानैकचित्तविलसज्जलधिप्रसुप्ताः । निष्किम्पमानलसदङ्गविभासवृक्षाः किं तापसाननुसरन्ति बका हि तीरे ॥ २९॥ प्रातः सदा ? मुकुलीकृतहस्तकुड्मं ? सन्तुष्टकं विकसिताननपद्मवृन्दम् । अभ्यागताय मधुपाय विनम्रभावैः दत्त्वा हि मधुपर्कमनन्यचित्तं वाराहतीर्थमिह शिक्षति चातिथेयम् ॥ ३०॥ लोकैकरक्षणविधौ हतहेमनेत्रः श्रीशो धृतक्षितिमृदङ्कितदंष्ट्रभागान् । प्रक्षाल्य पूतमकरोत्स तीर्थम् वाराहतीर्थमिह राजति धर्मपुर्याम् ॥ ३१॥ इति कोरिडे विश्वनाथशर्मणाविरचितं धर्मपुरी गोदावरी वर्णनं सम्पूर्णम् । Composed by Koride Vishwanatha Sharma Dharmapuri Telangana Proofread by Koride Vishwanatha Sharma.
% Text title            : Verses praising Sacred Dharmapuri and Godavari
% File name             : dharmapurIgodAvarIvarNanam.itx
% itxtitle              : dharmapurIgodAvarIvarNanam (koriDe vishvanAthasharmaNAvirachitam)
% engtitle              : dharmapurIgodAvarIvarNanam
% Category              : devii, koriDevishvanAthasharmA, nadI, devI
% Location              : doc_devii
% Author                : koriDe vishvanAthasharmA, dharmapurI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : koriDe vishvanAthasharmA
% Proofread by          : koriDe vishvanAthasharmA
% Indexextra            : (blog)
% Acknowledge-Permission: Koride Vishwanatha Sharma
% Latest update         : February 19, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org