दुग्धापगादशकम्
वीरराघववेदान्तयतिराड् देशिकोत्तमः ।
सर्वतन्त्रस्वतन्त्रो मे सन्निधत्तां सदा हृदि ॥
कलशतटिनी भाति स्वच्छप्रवाहपरम्परा
पृथुलतरलोदारस्फायत्तरङ्गकरम्बिता ।
मधुरसलिलास्वादाभ्याशाभ्युपागतसम्भृत-
त्रिदशमहिषीवक्षोदेशक्षरन्नवकुङ्कुमा ॥ १॥
दुग्धापगा दुरितदूषितदुर्जनानां दूरस्थिता दुरवगाहामहाहृदाढ्या
दुर्दान्तदुर्भरतपोभरितैर्मुनीन्द्रैः संसेविता प्रवहति प्रथमानकीर्तिः ॥ २॥
चर्कर्ति स्वयमध्वगश्रमधुतिं बर्भर्ति तत्तोषणं
जर्हर्ति क्षणतस्तदीयदुरितं वर्धर्ति तच्चेतसि ।
पुष्णाति श्रियमद्भुतां भगवती मुष्णाति दोषानसौ
कृष्णासिन्धुकवेरजाभ्यधिकतानिष्णातभावोज्ज्वला ॥ ३॥
स्वेच्छोद्गच्छदुदुच्छकच्छपपरिछेदोञ्चलत्पङ्कज-
प्रातःस्यन्दिमरन्दवृन्दलहरीपारम्परीमेदुरा ।
एषा दुग्धनदी नदीषु सुभगाशेषाभिवन्द्या जग-
द्दोषापाकरणक्षमा क्षिपतु मे दोषानशेषानसौ ॥ ४॥
मध्याह्नार्कमरीचिमण्डलपरिक्लिन्नोऽध्वगः साम्प्रतं
देवि त्वत्सलिलावलोकनकलामात्रेण विश्राम्यति ।
किं ब्रूमो वयमम्ब दुग्धतटिनि त्वद्वैभवं के विदुः
प्रत्यक्षं वयमन्वभूम भवति स्नानप्रभावं परम् ॥ ५॥
प्रत्यक्षं ह्युपजीव्य शास्त्रमुदितं प्रत्यक्षबाधे तु नो
शास्त्रं जीवितुमर्हतीति जगदुस्त्रय्यन्तसिद्धान्तिनः ।
देवि त्वं बहुमन्यसे मतमिदं दुग्धस्रवन्ति त्वयि
स्नातॄणां स्मृतिचोदितं फलगणं प्रत्यक्षयन्ती ततः ॥ ६॥
देहः प्रत्यक्षसिद्धः खलु घटपटयोरेवमीशेशितव्या-
द्यंशे भेदः प्रसिद्धः श्रुतिभिरपि कथं सोऽन्यथा कर्तुमर्हः ।
किं मेरुः सर्षपः स्यात् किमिह परिबृढः स्याल्लुलायः किमश्व-
श्छागो दुग्धापगे त्वं कथमिव सहसे ब्रह्मजीवैक्यवादम् ॥ ७॥
लोलत्कल्लोलजालप्रचलितकमलोत्फुल्लकह्लारपाली-
शश्वन्निष्यन्दिमाध्वीघुमुघुमितपयोभासमानासमाना ।
अश्रान्तब्रह्मचिन्ताश्रमविमलतरस्वान्तकान्तैर्मुनीन्द्रै-
र्मातस्तोष्टूयमाना किमु कलशनदि त्वं तु कुल्ह्यासकुल्या ॥ ८॥
ब्रह्मादेशादिव त्वं प्रवहसि कलशह्नादिनि ब्रह्मदेशा-
भ्याशे ब्रह्मप्रवीणैरपि च बुधगणैर्ब्रह्मचिन्ताधुरीणैः ।
सन्ध्यासूपास्यमानान्वहमनघतमस्वच्छनीरावगाहा
क्रीडासम्भ्रान्तचेतःकुवलयनयना मञ्जुमञ्जीरघोषा ॥ ९॥
गङ्गा तुङ्गा तरङ्गावलिभिरधिगता वारिखेलद्रथाङ्गा-
नङ्गासङ्गावभङ्गावहनिजमहिमा तां परां गाहतां वा ।
तां गाथाभिः स्तुवन्तः कलशनदि शुभां त्वां परां गाहमानाः
सन्तो गङ्गाधराङ्गाकलनविरहितेत्यादरान्मुक्तसङ्गाः ॥ १०॥
वीरराघववेदान्तवर्यायाख्यानशालिने ।
साक्षाल्लक्ष्मीनृसिंहाय त्रैलोक्यगुरवे नमः ॥
इति श्रीदुग्धापगादशकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (९४)
The Dugdhapagadashaka (94) is a vivid description
of and eulogy on the River Palar flowing through
North Areot and Chingleput Districts. From
the opening verse it may be surmised that the
author was Viraraghavavcdantayati, author of
the Viraraghavastotra and the Hastigirishastava.
Proofread by Rajesh Thyagarajan