श्रीदुर्गाष्टकम्
दुर्गति-हारिणि दुर्गे ! महादेवि ! नमोऽस्तु ते ।
केसरीन्द्र-समारूढे ! यातुधान-निवर्हिणि ! ॥ १॥
उमा हैमवती मातस्त्वं पार्वती महेश्वरी ।
कालिका सर्वमङ्गला गौरी भगवती शिवा ॥ २॥
गायत्री त्वं च सावित्री सहस्रं तव नाम वै ।
शान्ति-स्वरूपिणी देवी काले त्वं घोर-रूपिणी ॥ ३॥
महिषासुर-मर्दिनी जगतां धर्म-धारिणी ।
आदिशक्ति-र्महामाया ज्योतिर्मयी महीयसी ॥ ४॥
ज्ञानं विद्या धृतिः प्रज्ञा राजसे श्रीर्यशस्विनी ।
संस्थिता विश्व-संसारे शक्तिरूपा त्वमम्बिका ॥ ५॥
विपत्तारिणी शङ्करी लोक-सङ्कट-नाशिनी ।
प्रसीद वरदा सदा तमस्तोम-विदारिणी ॥ ६॥
भक्त-क्लेशापहन्त्री त्वं हर सन्ताप-सन्ततिम् ।
सनातनी सुकल्याणी सिद्धिं यातु मनोरथम् ॥ ७॥
अपराधं क्षमस्व मे मातस्त्वमनुकम्पया ।
त्वमेव शरणं नित्यं नमस्तुभ्यं सदाशिवे ! ॥ ८॥
कष्टं हरतु लोकस्य त्वदीयमिदमष्टकम् ।
भवतु पापहारकं हे मातः ! शुभदायकम् ॥ ९॥
(इति श्रीहरेकृष्णमेहेर-विरचितं श्रीदुर्गाष्टकं सम्पूर्णम् ।)
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher