श्रीदुर्गापञ्चकम्
मातर्नमस्ते जगदम्बिके शिवे !
दुर्गा सदा दुर्गतिनाशिनीश्वरी ।
त्वमादिशक्तिर्भुवनेषु कीर्त्तिता
ब्राह्मी भवानी च विभासि वैष्णवी ॥ १॥
संहारणं त्वं कुरु सिंहवाहना
हिंसापराणां महिषादि-रक्षसाम् ।
संसार-सन्मार्ग-विधौ कृपामयी
काली समेषां दह पाप-कल्मषम् ॥ २॥
आयाहि दुर्गे ! वरदा महायुधा
हे दुष्ट-विध्वंसिनि ! धर्मधारिणी ।
गङ्गाधरार्धाड्गि ! निधेहि मङ्गलं
तवानुकम्पा हृदयं पुनातु नः ॥ ३॥
अस्माकमन्तःकरण-प्रदूषणं
भस्मीकुरु त्वं तमसां निरासिनी ।
शर्वाणि ! सर्वाणि पवित्रय स्वयं
प्रसार्य पर्यावरणं सुनिर्मलम् ॥ ४॥
त्वं सर्वभूते जननी विराजिता
जैत्री सुगात्री गिरिराज-नन्दिनी ।
स्वान्ते जनानां भव शान्ति-सौख्यदा
पादारविन्दे तव नः सुवन्दनम् ॥ ५॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher