दुर्गास्तोत्रम्
दुर्गसंतारिणीं दुर्गा तदा स शरणं गतः ।
महेन्द्रोपेन्द्रभगिनीं दिव्यैस्तुष्टाव नामभिः ॥ १॥
नौमि कंसासुरैश्वर्यतमःपटलचन्द्रिकाम् ।
पूर्णचन्द्राननां देवीं दुष्टसंमोहनक्षमाम् ॥ २॥
दीप्तशूलप्रभाजालभीषणां ललिताकृतिम् ।
वेल्लद्विषोल्बणव्यालामिव चन्दनवल्लरीम् ॥ ३॥
महिषन्यस्तचरणां श्यामां हारविभूषिताम् ।
सकालियहृदां फेनहासिनी यमुनामिव ॥ ४॥
पाणिसंसक्तभुजगाभोगनीलासिवल्लरीम् ।
एकपद्मोदरोद्गच्छदलिमालामिवाजिनीम् ॥ ५॥
मयूरपक्षाभरणैः शबलैर्मेचकप्रभैः।
सेवितां प्रावृषमिव स्फुरदिन्द्रायुधैर्घनैः ॥ ६॥
करालकेशविस्फारशुद्धसंचारलालसाम् ।
हिमाद्रिशिखरोद्भूतां कालागुरुलतामिव ॥ ७॥
कवीन्द्रमानसावासराजहंसीं सरस्वतीम् ।
विचित्रमधुरोदारशब्दां चारुपदक्रमाम् ॥ ८॥
संसारमरुसंतापनिर्वापणसमुद्यताम् ।
संवित्समरसानन्दसुधास्यन्दतरङ्गिणीम् ॥ ९॥
रणसंरम्भसंभारगम्भीरारम्भविभ्रमाम् ।
निशुम्भशुम्भावष्टम्भभीतसंभावितामराम् ॥ १०॥
संध्यामवन्ध्यां विन्ध्याद्रिवासिनीं वासवानुजाम् ।
शशिखण्डशिखण्डाङ्कां मुण्डमण्डलमण्डिताम् ॥ ११॥
फुल्लोत्पलवनश्यामां फुल्लोत्पलविलोचनाम् ।
गम्भीरनाभिकुहरामिभकुम्भनिभस्तनीम् ॥ १२॥
धन्यां कात्यायनी चण्डां चामुण्डां खण्डिताहिताम् ।
शर्वाणी शर्वरीं शर्वा सिद्धगन्धर्वसेविताम् ॥ १३॥
कालसंकर्षिणीं घोरां त्रिजगरामलालसाम् ।
कमलासनकङ्कालमालाकलितशेखराम् ॥ १४॥
शिवां शिवप्रदां शान्तां शिवकान्तां शताननाम् ।
त्रिनेत्रां सौम्यवदनां मदनारिमदप्रभाम् ॥ १५॥
स्फीतफेनसुधाम्भोधिदुकूलां रत्नमेखलाम् ।
कराकलितहेमाद्रिमातुलङ्गांशुपिङ्गलाम् ॥ १६॥
अक्षसूत्रीकृतावृत्तनक्षत्रमणिमालिकाम् ।
पाणिसक्तसुधाम्भोधिपूर्णब्रह्माण्डकपराम् ॥ १७॥
संवित्प्रकाशविषदव्याकोशाकाशदर्पणाम् ।
शेषादिकुलभोगीन्द्रहारकेयूरकङ्कणाम् ॥ १८॥
तारकामौक्तिकस्मेरशशिमार्तण्डमण्डलाम् ।
त्रिशृङ्गरत्नशैलेन्द्रविटङ्कमुकुटोज्ज्वलाम् ॥ १९॥
कल्लोललोलखःसिन्धुधवलोष्णीषभूषिताम् ।
सेन्द्रायुधक्षयाम्भोदमायूरच्छत्रविभ्रमाम् ॥ २०॥
कन्दाग्रकुण्डलितनाभिमृणालदण्ड
हृत्पुण्डरीकनिबिडामृतपानशौण्डाम् ।
भृङ्गाङ्गनामिव सदोदितनादशक्ति-
संवेद्यवेद्यजननी जननीं प्रपद्ये ॥ २१॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचितं दुर्गास्तोत्रं सम्पूर्णम् ।
हरिवंश बाणयुद्धम् श्लोकानि १३१३-१३३३